TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

एकोनविंशो वेतालः

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


एकोनविंशो वेतालः
सोऽथ स्कन्धस्थितः प्राह राजानं वेगगामिनम् ।
श्रृणु नाथ कथामेकां निशा यावन्न शीर्यते ॥१०१३॥
वङ्कोलके लवपुरे सार्वभौमः क्षमापतिः ।
सूर्यप्रभाभिधानोऽभोद्यशःकुसुमकाननम् ॥१०१४॥
आख्यातविक्रमे तस्मिन्निखिलां रक्षति क्षितिम् ।
वणिजस्ताम्रलिप्ताया धनदत्तस्य पुत्रिका ॥१०१५॥
विद्याधरी शापबलान्मानुषं भोगमास्थिता ।
हिरण्यवत्यां जायायामजायत सुलोचना ॥१०१६॥
यत्कान्तिमधुना मत्तः प्रबलो विजयी स्मरः ।
सा यौवनं शनैः प्राप नाम्ना धनवती तनुः ॥१०१७॥
कालेन त्रिदिवं याते तस्याः पितरि गोत्रजैः ।
हर्तुं द्रविणमाक्षिप्ता तद्भार्या राजसंश्रितैः ॥१०१८॥
सा दुःखिता च भीता च गृहेत्वाभरणं निजम् ।
अलक्षिता निशि प्रायाद्दुहित्रा सह विह्वला ॥१०१९॥
यान्ती तूर्णं निरालोके शोकैरिव तमोभरैः ।
विलुप्तदृष्टिः शूलस्थं जघानांसेन सा नरम् ॥१०२०॥
स चौरः स्कन्धनिर्घातसंजातविपुलव्यथः ।
चुक्रोश हा हतोऽस्मीति पर्यन्तश्वासगद्गदम् ॥१०२१॥
वणिक्पत्न्या स दृष्टोऽथ प्राह चौरोऽस्मि पापकृत् ।
इयं तृतीया मे रात्रिः शूलस्थस्यैव वर्तते ॥१०२२॥
तीव्रव्यथोऽपि जीवामि पातकैः पूर्वसंचितैः ।
अकृच्छ्रेण कथं यान्ति प्राणाः कलुषकर्मणः ॥१०२३॥
इत्युक्त्वा तेन पृष्टासौ निजदुःखमभाषत ।
ततः प्रणयशोकार्ता येन स्वपुरमत्यजत् ॥१०२४॥
अत्रान्तरे शशी नित्यक्षयशोकादिवाधिकम् ।
उद्ययौ पाण्डुरः स्थूलः कपालशकलच्छविः ॥१०२५॥
गतेऽह्नि मित्रदयिते शान्ते संध्याचितानले ।
तारास्थिसंचयं कर्तुमिवेन्दुरुत्सृजन्करान् ॥१०२६॥
दिशः सितांशुकच्छन्ना ज्योत्स्नापूरैः प्रचक्रिरे ।
शोकादिवोद्धसलिलक्रियां कुमुदपाण्डुराः ॥१०२७॥
ततश्चौरोऽवदद्दृष्ट्वा प्रकाशे तत्सुतां पुरः ।
कन्यैषा दीयतां मह्यं सुवर्णं वितरामि ते ॥१०२८॥
मुमूर्षुर्विलसत्येष मा वदेति पृथुस्मिता ।
त्वया मात्रा वितीर्णेयमवाप्स्यति मदाज्ञया ॥१०२९॥
केनापि सह संगम्य पुत्रं त्राणं परत्र मे ।
अस्ति काञ्चनलक्षं मे तेनेमां देहि कन्यकाम् ॥१०३०॥
इति श्रुत्वा सुतां तस्मै सा प्रादाद्वारिपूर्वकम् ।
ददौ तरुतलन्यस्तं तस्यै सोऽप्यखिलं धनम् ।
पुत्रार्थे तामनुज्ञाय कन्यां चौरो व्यपद्यत ॥१०३१॥
ततो भर्तुर्वयस्यस्य गृहं प्राप्य सुपुत्रिका ।
सती कुमारदत्तस्य युक्त्या चौरं ददाह सा ॥१०३२॥
अथ कालेन सा गत्वा निःशेषधन्वर्जिते ।
सूर्यप्रभस्य नगरे तस्यौ हेमचयैः सुखम् ॥१०३३॥
तत्रस्था यौवनवती कदाचित्सौधमास्थिता ।
क्रतौ ददर्श पञ्चेषुसुभगं द्विजपुत्रकम् ॥१०३४॥
सोमस्वामीति विख्यातः सुवेषां सुरतप्रियः ।
यस्यां विलासरसिकः स विप्रो यौवनोन्मदः ॥१०३५॥
तस्या हारावललिता नर्तकी लोकविश्रुता ।
हृदये तां समाधत्त विना भूरिधनव्ययम् ॥१०३६॥
तथाभूतं व्यसनिनं सा दृष्ट्वा तं द्विजात्मजम् ।
वणिक्पुत्री स्मराक्रान्ता बभूव ध्याननिश्चला ॥१०३७॥
ततो विहाय सा लज्जां मात्रे सर्वं न्यवेदयत् ।
चौरस्याज्ञां च तां स्मृत्वा तदाह्वानेऽदिशत्सखीम् ॥१०३८॥
स च द्विजो मृषा यातः पुत्रार्थं तामभाषत ।
शतानि पञ्च रूप्याणां दीयतां व्ययिनो मम ॥१०३९॥
इति श्रुत्वा सखी तस्मै दत्त्वा तच्छतकद्वयम् ।
एकक्षपाभ्युपगमादानिनाय द्विजं रहः ॥१०४०॥
तं दृष्ट्वा कान्तमानीतं निशि शय्यागॄहस्थिता ।
हर्षोत्सिक्ता वणिक्पुत्री नवं भेजे रतोत्सवम् ॥१०४१॥
अदृष्टपूर्वसंभोगा वेश्याशतविलासिना ।
नीता प्रौढेन सा तेन रतौ कामपि निर्वृतिम् ॥१०४२॥
तस्मिन्प्रयाते प्रच्छन्नं निशान्ते साभवत्क्षणात् ।
स्रस्ताङ्गी क्लान्तवदना कृशा मुकुलितेक्षणा ॥१०४३॥
ततः कालेन सा पुत्रमसूत रविवर्चसम् ।
कुन्तीव वर्णसंपूर्णराजलक्षणलक्षितम् ॥१०४४॥
तस्मिञ्जाते वणिक्पुत्रीं स्वप्ने तज्जननी तथा ।
आदिदेश शिवः साक्षात्पुत्रोऽयं द्वारि भूपतेः ॥१०४५॥
हेम्नः सहस्रमाधाय मञ्चके त्यज्यतां रहः ।
इति तद्वचसा सर्वं चक्राते ते यथाश्रुतम् ॥१०४६॥
राजापि शंभुना स्वप्ने निर्दिष्टं प्राप्य तं शिशुम् ।
कौशेयवस्त्रसंछन्नं दिव्यरूपं सकाञ्चनम् ॥१०४७॥
सूर्यप्रभस्य तनयः सोऽपि चन्द्रप्रभाभिधः ।
कालेन यौवनं प्राप कलाविद्याविशारदः ॥१०४८॥
तं सर्वगुणसंपन्नं दृष्ट्वा पुत्रं स पार्थिवः ।
चक्रवर्तिश्रियं तस्मै दत्त्वा वाराणसीं ययौ ॥१०४९॥
तपसा तत्र भूपाले प्रयाते शाश्वतं पदम् ।
चन्द्रप्रभः शोकतप्तो ज्ञात्वा चक्रे जलक्रियाः ॥१०५०॥
ततः स राज्यं मन्त्रिभ्यो विन्यस्य पितृवत्सलः ।
गयाश्राद्धे कृतोत्साहो ब्राह्मणैः सहितो ययौ ॥१०५१॥
सुहार्दस्योपकारस्य गुरुभक्तेः कुलस्य च ।
महतां हि वियोगेषु गयाश्राद्धे प्रतिक्रिया ॥१०५२॥
स वाजिकुञ्जरानीकैः संछादितदिगन्तरः ।
व्रजन्मन्दाकिनीं प्राप्य पितुश्चक्रे यथोचितम् ॥१०५३॥
ततः सर्वेषु तीर्थेषु दत्त्वा बहुधनो धनम् ।
गयामवाप कालेन पुण्यां कुलविभूषणः ॥१०५४॥
ततः शास्त्रोदितं कृत्वा धर्मारण्येऽवसत्त्रयम् ।
राजकूपं समासाद्य पिण्डं क्षेप्तुं समुद्ययौ ॥१०५५॥
सूर्यप्रभस्य नृपतेः स्वगोत्रे नाम्न्युदीरिते ।
पुरोहिताग्रतस्तत्र त्रयो हस्ताः समुत्थिताः ॥१०५६॥
तद्वीक्ष्य विस्मयाविष्टो मुहूर्तं स्थगितक्रियः ।
किमेतदिति पप्रच्छ राजा वृद्धगुरून्द्विजान् ॥१०५७॥
ते प्राहुः शिवमालोक्य श्रुतिस्मृतिविचक्षणाः ।
एकश्चौरस्य हस्तोऽहं लाञ्छितः शस्त्रशङ्कुना ॥१०५८॥
पवित्रकालंकरणः पाणीरन्यो द्विजन्मनः ।
अयं पद्मनिभो राज्ञः करः कङ्कणभूषितः ॥१०५९॥
निश्चयं नाधिगच्छामः कस्मै पिण्डोऽर्प्यतामिति ।
राजा विप्रवचः श्रुत्वा संदेहाकुलितोऽभवत् ॥१०६०॥
वर्णयित्वेति वेतालः पप्रच्छ क्ष्मापतिं पुनः ।
राजन्कस्मै स धर्मेण पिण्डस्तेन प्रदीयताम् ॥१०६१॥
इति पृष्टो नृपः प्राह स विप्रस्तस्य नो पिता ।
यो मूल्येन क्षपामेकां तन्मात्रा संगमं व्यधात् ॥१०६२॥
राजापि तस्य संस्कारकर्ता संप्राप्तकाञ्चनः ।
न पिता कर्मसंबन्धाद्राज्यभागी स केवलम् ॥१०६३॥
चौर एव पिता तस्य यो दत्त्वा हेमसंचयम् ।
कन्यां तज्जननीं प्राप पिण्डस्यार्हति वापनम् ॥१०६४॥
श्रुत्वेत्यलक्षितः स्कन्धाद्वेपालः प्रययौ जवात् ।
वृक्षावल्म्बिनं तूर्णमानिनाय च तं नृपः ॥१०६५॥
इत्येकोनविंशो वेतालः ॥२१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-10-25T20:47:38.4600000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

manfifest

  • स्त्री. तपशीलसूची 
RANDOM WORD

Did you know?

सोळा वर्षाखालील मुलांना शनिची साडेसाती कां त्रस्त करत नाही?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site