प्रथमो वेतालः

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


अथ व्रजन्दक्षिणाशां दयितावाप्तिदक्षिणाम् ।
मृगाङ्कदत्तो विपिनं विवेश सचिवैः सह ॥१॥
ततो मध्याह्नविस्फूर्जत्प्रचण्डकिरणे रवौ ।
अध्वन्यवनितातापैस्ताप्यमान इवाखिले ॥२॥
पङ्कावगाहसंनद्धमहिषे क्रोडकुञ्जरे ।
लोके प्रत्यग्रदिग्दाहधूमैरिव समावृते ॥३॥
जनार्दनकृतारम्भे तप्तार्जुनसमाकुले ।
कानने खाण्डव इव प्रौढदावानलाकुले ॥४॥
उपविष्टः क्षणं तत्र राजपुत्रो व्यलोकयन् ।
नरेण विकृताकारेणोह्यमानं नरं दिवि ॥५॥
तं दृष्ट्वा प्राह सचिवानेष विक्रमकेसरी ।
केनापि दूयते यत्नः क्रियतामस्य मोचने ॥६॥
इति वादिनि संनद्धे स तस्मिन्स्वयमम्बरात् ।
( अवतीर्य ववन्दे तमानन्दस्यन्दसुन्दरः ॥७॥
श्रुतधिप्रमुखान्सर्वान्परिष्वज्य मुदान्वितः ।
सोऽथ तं वाहननरं प्रोवाच विकृताकृतिम् ) ॥८॥
भो महासत्त्व गच्छ त्वं पुनरेष्यसि मत्स्मृतः ।
इति तेन विसृष्टोऽसौ जगामादर्शनं क्षणात् ॥९॥
ततो मृगाङ्कदत्तस्तं पप्रच्छ पृथुविस्मयः ।
करालाकारविस्फारः कुतोऽयं सचिवस्तव ॥१०॥
इति तेनादरात्पृष्टः प्राह विक्रमकेसरी ।
मनःप्रह्लादितीं दिक्षु दिशन्दशनचन्द्रिकाम् ॥११॥
अयि तस्यां त्रियामायां तेन नागेन शापितः ।
संमूर्छितः परिक्षिप्तः प्राणैः स्मृतमनः शनैः ॥१२॥
तत्र पुष्करिणीतीरे तृष्णासंतापपीडितः ।
विश्रान्तोऽहं क्षणं पीत्वा जलं शीतांशुशीतलम् ॥१३॥
ततोऽभ्येत्य भुजङ्गेन दष्टः कश्चिज्जरद्द्विजः ।
विशव्यथार्तः सलिले त्यक्तुमात्मानमुद्यतः ॥१४॥
सुपर्णविद्यया सोऽथ रक्षितः कृपया मया ।
कृतज्ञः प्राह मां कोऽपि देवस्त्वं सत्त्वसागरः ॥१५॥
वेतालोत्थापिनीं विद्यां गृहाण त्वं मयार्पिताम् ।
अधीरे तु मया नैव सार्पिता त्वं तु धैर्यवान् ॥१६॥
इति श्रुत्वाहमवदं वियुक्तस्य सुहृज्जनैः ।
विद्यया किं मम सखे ज्योत्स्नयेव विवस्वतः ॥१७॥
इत्यसौ मत्कथां श्रुत्वा विस्तीर्णां ब्राह्मणोऽब्रवीत् ।
कियन्मात्रं सुहृत्सङ्गो विद्यया सर्वमाप्यते ॥१८॥
श्रीत्रिविक्रमसेनोऽभूत्प्रतिष्ठानपुरे नृपः ।
रत्नाकरः प्रसूतिर्यो लक्ष्म्याः सत्त्ववतां वरः ॥१९॥
यद्यशोदर्पणतले तारहारविभूषितैः ।
बिम्बितेव विभाति द्यौरिन्दुमार्तण्डकुण्डला ॥२०॥
रामाभिरामं तं द्रष्टुं श्रमणो नित्यमाययौ ।
इव सीताग्रहच्छद्मच्छन्नो लङ्कापतिः पुनः ॥२१॥
क्षान्तिशीलाभिधानोऽसौ तस्यास्थाने ददौ सदा ।
फलं नरपतिस्तच्च कोशाध्यक्षकरेऽक्षिपत् ॥२२॥
इति संसेवमानस्य ययुर्भिक्षोः समा दश ।
कदाचित्तत्फलं राज्ञः प्राप केलिकपिः करात् ॥२३॥
तद्दन्तदलितात्तस्माद्दिव्यं रत्नं विनिर्ययौ ।
तत्कान्त्या छुरितः सर्वो बभूव स्थानमण्डपः ॥२४॥
नृपः कोशेशमाहूय फलान्यन्यान्ययाचत ।
सोऽप्यदात्तद्रत्नचयं राज्ञे फलविनिर्गतम् ॥२५॥
दत्त्वा कोशेश्वरायैव रत्नानि त्यागसागरः ।
पुनः श्रमणमायातं तं पप्रच्छ महीपतिः ॥२६॥
क्षान्तिशीलव्यवसितं चित्रं ते प्रतिभाति मे ।
किं रत्नः पृथिवीमूल्यैः प्राप्तुमिच्छस्यतः परम् ॥२७॥
इति पृष्टो नृपतिना श्रमणः प्राह तं नरः ।
बद्धप्रतिज्ञमाधाय निजवाञ्छितसिद्धये ॥२८॥
अनुल्लङ्घितमर्यादाः परायासासहिष्णवः ।
सेव्या न कस्य नृपते त्वादृशाः शौर्यसागराः ॥२९॥
परार्थायोच्चवपुषः सर्वाशापोषशालिनः ।
राजन्दुर्गतिमित्रस्य त्वादृशः को न याचकः ॥३०॥
अस्यां कृष्णचतुर्दश्यां श्मशाने मन्त्रसाधना ।
ममास्ति काचित्तत्र त्वं द्वितीयो भव साधकः ॥३१॥
महावटतरोर्मूले स्थिते मयि निशि त्वया ।
आगन्तव्यं महावीर करवालविभूषिणा ॥३२॥
इत्याभाष्य तथेत्युक्त्वा क्ष्मापालेन प्रतिश्रुते ।
श्रमणः प्रययौ हृष्टः प्रवेष्टुं मन्त्रसाधनम् ॥३३॥
ततस्तस्यां निशि नृपः खङ्गी रुचिरकुण्डलः ।
तं ययौ भूतलशशी यशोविशदचन्द्रिकः ॥३४॥
चलद्वज्रांशुकटकच्छायाशबलिताम्बरः ।
किरीटमणिसच्छायो रत्नाद्रिरिव जङ्गमः ॥३५॥
तमालकलितोत्तंसकालागरुविलेपनः ।
नीलांशुको गजच्छायाव्याप्ताकार इवेश्वरः ॥३६॥
रराज व्रजतस्तस्य तारहारकरो निशि ।
तत्कालोल्लासिवपुषा सत्त्वेनेव प्रकाशितम् ॥३७॥
कस्तूरीक्षोदतां गात्रे जयकुञ्जरतां पुरः ।
मायूरच्छत्रतां मूर्ध्नि मुहुस्तस्य ययौ तमः ॥३८॥
मौलिमालापरिमलव्यालीनालिकुलैर्बभौ ।
तद्यात्रामङ्गले लक्ष्याः स्वस्तिवादाक्षरैरिव ॥३९॥
ततः श्मशानं स प्राप निःशङ्को भूतसंकुलम् ।
सर्वापायमयं कायमिवायासशताश्रयम् ॥४०॥
मस्तिष्कलिप्तशुभ्रास्थिप्रकरं लोहितासवम् ।
आक्रीडमिव कालस्य कपालचषकाकुलम् ॥४१॥
धूमान्धकारमलिनं वीरेन्द्रारावगर्जितम् ।
चञ्चच्चिताग्नितडितं कालमेघमिवोत्थितम् ॥४२॥
गृध्रकृष्टान्त्रमालाभिः कृतं प्रारम्भविभ्रम म् ।
काल्या इवोत्सवोन्मत्तकृत्तिकामृतकम्पतिम् ॥४३॥
जीर्णास्थिनलकच्छिद्रक्षिप्रविज्ञानमारुतम् ।
संचरद्योगिनीवृन्दनूपुरैरिव रावितम् ॥४४॥
दिक्षु प्रतिफलद्धोषस्फारहुंकारहुंकृतम् ।
त्रिजगत्प्रलायारम्भकृतोङ्कारमिवान्तकम् ॥४५॥
मण्डितं मुण्डखण्डेन दुष्टकङ्कालमालिनम् ।
ज्वलिताङ्गारनयनं द्वितीयमिव भैरवम् ॥४६॥
प्रत्यग्ररुधिरापूरसंपूरितवृकोदरम् ।
कर्णशल्योद्धृतारावं दुःशासनवधाकुलम् ॥४७॥
संचरद्भीमपुरुषं द्वितीयमिव भारतम् ।
बहुच्छलं द्यूतमिव स्त्रीचित्तमिव दारुणम् ॥४८॥
अविवेकमिवानेकशङ्कातङ्कनिकेतनम् ।
खरोत्कटजनस्थानं घोरसर्पनखावृतम् ॥४९॥
दन्दकारण्यसदृशं मारीचरुचितान्तरम् ।
भ्राताकम्पनधूम्राक्षमेघनादविभूषणम् ॥५०॥
लङ्कादाहमिवोद्भूतं जीवद्रवणविप्लवम् ।
समग्रदुःखनिलयं भूतसंघप्रहर्षणम् ॥५१॥
बहुच्छिद्रं घनाश्लिष्टप्रेतराशिनिरन्तरम् ।
पलाशशतसंबाधं चितानिःशेषितद्रुम म् ॥५२॥
शिवाभिर्व्याप्तमशिवं भ्रान्तान्तकमलन्तकम् ।
निकुम्भकुचकुम्भाभिर्विपुलश्रोणिभिर्मुहुः ॥५३॥
दिगम्बराभिर्नारेभिः कल्पिताकाण्डताण्डवम् ।
गृध्रगोमायुगहनं काककङ्ककुलाकुलम् ॥५४॥
प्रमत्तभूतवेतालं मालामेलकमालितम् ।
पिशाचशाकिनीयुक्तं लडड्डमरुमण्डलम् ॥५५॥
स्पष्टाट्टहासमकटं क्रीडच्चक्रेश्वरीचयम् ।
भयंकरं भयस्यापि विमोहस्यापि मोहनम् ॥५६॥
तमसोऽप्यन्धतमसं कृतान्तस्यापि कम्पनम् ।
दृष्ट्वा पितृवनं घोरं डाकिनीगणसेवितम् ॥५७॥
क्षान्तिशीलं वटतले सोऽपश्यत्कृतमण्डलम् ।
दृष्ट्वा प्रणम्य तं प्राह प्राप्तोऽहं करवाणि किम् ॥५८॥
इति श्रुत्वावदद्भिक्षुर्हर्षव्याकोशलोचनः ।
राजन्सत्त्ववतां धुर्य धैर्येणानेन तेऽधुना ॥५९॥
मन्ये समस्तधीराणाम यशसां केतुराहिथ ।
क्रोशमात्रमतिक्रम्य दक्षिणाशामुखः प्रभो ॥६०॥
इतो गच्छ तमानेतुं शिंशिपोल्लम्बितं नरम् ।
इति तस्य गिरा राजा घोरे तमसि सोल्मुकः ॥६१॥
गत्वा ददर्श तं शुष्कं वृक्षं नीचमिवोद्धतम् ।
दरिद्रमिव विच्छायं पिशाचमिव भीषणम् ॥६२॥
कुकाव्यमिव विश्लिष्टं विशालं शिंशिपातरुम् ।
भुग्नाननं चावनतं सरलस्रस्तदोर्युगम् ॥६३॥
दीर्घाग्रपादं तस्याग्रे स चापश्यन्नृपः शवम् ।
भुवि पुण्यं मया नोप्तं हस्तेनाप्तं न किंचन ॥६४॥
विमुक्तहस्तं संतापादितीवाधोमुखं स्थितम् ।
तरुमारुह्य तं मुक्त्वा कण्ठपाशमपातयत् ॥६५॥
पतितः सोऽथ चुक्रोश हा हतोऽस्मीति सव्यथम् ।
करुणाकूणितमना भूपालोऽप्यनुरुह्य तम् ॥६६॥
मुहुर्मुहुः परामृश्य निनिन्द निजसाहसम् ।
स च क्षणादट्टहासं मठको विकटं व्यधात् ॥६७॥
भूतानां समभूद्येन स्पष्टं कण्टकिता तनुः ।
ततस्तूर्णमदृश्योऽसौ तस्मिन्नेव लतान्तरे ॥६८॥
तेनैव कण्ठपाशेन तथैवोल्लम्बितः स्थितः ।
वेतालमायां विज्ञाय पुनरारुह्य पादपम् ॥६९॥
तमादाय नृपः स्कन्धे जवेन महता ययौ ।
स्कन्धस्थितस्तमवदद्वेतालः श्रृणु भूपते ॥७०॥
कथयामि कथां तुभ्यं दूरेऽध्वनि सुनन्दिनीम् ।
अस्ति वाराणसी नाम श्रीकण्ठदयिता पुरी ॥७१॥
गौरीकृताहिमगिरिस्फारैः स्फटिकमन्दिरे ।
प्रतापमुकुटो नाम तस्यामासीन्महीपतिः ॥७२॥
द्यौर्यत्प्रतापमुकुटा ससंध्येवानिशं बभौ ।
तस्य भूमिपतेः प्राणप्रिया सोमप्रभाभवत् ॥७३॥
शक्तिः पुष्पशरस्येव त्रैलोक्यविजयोद्यमे ।
द्युतिमान्वज्रमुकुटस्तस्यां तेन सुतोऽजनि ॥७४॥
स्मरेन्दुमाधवा य अस्य लज्जन्ते रूपसंपदा ।
तस्य बुद्धिशरीराख्यो मन्त्रिपुत्रः सखाभवत् ॥७५॥
अद्वितीयः सदा प्रेमलीलाविश्रम्भसंपदाम् ॥
कदाचित्तेन सहितः स ययौ मृगयारसात् ॥७६॥
वनं कुरङ्गमातङ्गशार्दूलशरभाकुलम् ।
स तत्र चापक्रेङ्कारक्रूरकोपान्मृगेश्वरान् ॥७७॥
हत्वा विवेश व्याकोशकुल्लवल्लीयुतं वनम् ।
तस्याविदूरे फुल्लाब्जं ददर्श विमलं सरः ॥७८॥
स्फाटिकं वनदेवीनामिव विभ्रमदर्पणम् ।
तत्सरः स्नातुमायातां कन्यां दासीशतैर्वृताम् ॥७९॥
आलुलोके नृपसुतः शशिलेखामिवोद्गताम् ।
तस्याः कुवलयच्छायैः कटाक्षैश्चटुलांशुभिः ॥८०॥
नृत्यच्छिखण्डिमालेव चकासे काननस्थली ।
अधरांशुभिराकाशे निबिडैर्बिम्बबन्धुभिः ॥८१॥
या बभारेव लावण्यजलधौ विद्रुमावलीम् ।
जातौ यस्याः कुचौ कान्तिवापीकमलकोरकौ ॥८२॥
ययोर्दोर्युगलं धत्ते बिसकाण्डकुटुम्बताम् ।
उवाह या तनुलता भृङ्गालीं रोमवल्लरीम् ॥८३॥
पश्चाद्विषक्तां वैमल्याद्बिम्बितामिव वेणिकाम् ।
या हंसगामिनी रेजे निःक्कणन्मणिनूपुरा ॥८४॥
श्रीरिवाम्बुजसंचारलग्ना सिञ्जानषट्पदी ।
तां विलोक्येन्दुवदनां नयनानन्दकौमुदीम् ॥८५॥
सहसा राजपुत्रोऽभूत्किमप्युल्लासिमानसः ।
सापि तं वीक्ष्य कामस्य प्रतिमानं धनुर्धरम् ॥८६॥
बबहु बालानिलालोलवल्लीव ललिताकृतिः ।
लीलावती समादाय सा निजं शेखरोत्पलम् ॥८७॥
कर्णे चकार लोलाक्षी सचिवं लोचनश्रियः ।
अपनीय ततः कर्णान्मुहुर्दन्तैरवादयत् ॥८८॥
सविभ्रमं च चिक्षेप खण्डितं पादयोत्सले ।
ततोऽप्याहृत्य सा कन्या निदधी तत्कुचस्थले ॥८९॥
इति स्मराकुला चक्रे किमप्यात्योपसूचकम् ।
ततो महत्तराहूता सा ययौ वलितानना ॥९०॥
विसृज्य राजपुत्राय दूतीं नेत्रप्रभामिव ।
ध्यायन्ती राजतनयं सा प्राप्य निजमन्दिरम् ॥९१॥
बभूव विरहक्षामा प्राचीव शशिनः कला ।
राजपुत्रोऽपि नगरीं प्रविश्य स्मरतापितः ॥९२॥
दिनैरेवाभवद्बालप्रवालशयनाश्रयः ।
ततो बुद्धिशरीरस्तं स्वैरं मन्त्रिसुतोऽब्रवीत् ॥९३॥
कोऽयं देव तवापायो धैर्यस्य धृतिसागरः ।
कासौ क्कास्ते सुता कस्य क्केति चिन्ताज्वरं सखे ॥९४॥
त्यज जानाम्यहं सर्वं तयैव प्राङ्गिवेदितम् ।
कर्णे यदुत्पलं चक्रे तत्कर्णोत्पलभूपतेः ॥९५॥
पुरःस्थिता सा कालिङ्गः स प्रसिद्धो हि पार्थिवः ।
संग्रामवर्धनो नाम सचिवो दन्तघाटकः ॥९६॥
विश्रुतो दिक्षु तस्यास्ति तत्पुत्री सा ध्रुवं सखे ।
अत एवोत्पलं तत्र दन्तेन खण्डितं तया ॥९७॥
सा च पद्मावती नाम पादपद्माहितोत्पला ।
यव्द्यधात्तच्च हृदये तत्तस्या वल्लभो भवान् ॥९८॥
तदेहि तावद्गच्छावो मृगयाच्छद्मना पुनः ।
इति श्रुत्वा नृपसुतस्तत्सखः प्रययौ क्षणात् ॥९९॥
कलीङ्गविषयं पृथ्वी विप्रसंध्या हि रागिणाम् ।
तत्र प्रविष्टौ वृद्धायाः प्रतिश्रयधिया गॄहम् ॥१००॥
पप्रच्छतुस्तावत्र त्वं जानीषे दन्तघाटकम् ।
इति ताभ्यां रहः पृष्टा सावदज्जर्जराकृतिः ॥१०१॥
संग्रामवर्धनो मन्त्री राज्ञोऽसौ दन्तघाटकः ।
तस्य पद्मावती नाम तनयास्ति सुलोचना ॥१०२॥
तद्गृहे गर्भदास्यस्मि सर्वं जानामि तत्कुले ।
इति वृद्धावचः श्रुत्वा निजवृत्तं निवेद्य तौ ॥१०३॥
चक्राते दत्तसंकेतौ तस्यास्तामेव दूतिकाम् ।
सा तदन्तःपुरं गत्वा तस्यै सर्वं निवेद्य य अत् ॥१०४॥
पद्मावती च तच्छ्रुत्वा मिथ्याकोपाकुलाभवत् ।
आ वृद्धदासि दुःशीले बालां मामवमन्यसे ॥१०५॥
उक्त्वेति कर्पूरकरात्तां जघान कपोलयोः ।
ततो भग्नमुखी वृद्धा समभ्येत्य निजं गृहम् ॥१०६॥
ताभ्यां सर्वं यथावृत्तं साश्रुनेत्रा न्यवेदयत् ।
राजपुत्रस्ततः प्राह निःश्वासग्लपिताधरः ॥१०७॥
अहो मे पुण्यहीनस्य वृथा जातोऽयमुद्यमः ।
स्वस्ति तुभ्यं मम प्राणाः क्कापि गन्तुं समुद्यताः ॥१०८॥
न सहे विरहं सद्यस्तया छिन्नो मनोरथः ।
इति मन्त्री वचः श्रुत्वा राजपुत्रेण भाषितम् ॥१०९॥
रहस्तमवदद्धैर्यं भज सिद्धं समीहितम् ।
दशास्या गण्डयोः पश्य सकर्पूराः कराङ्गुलीः ॥११०॥
तयोक्तं शुक्लपक्षस्य दश शेषा निशा इति ।
अलक्षितः कृष्णपक्षे ध्रुवं तां स्मौपैष्यसि ॥१११॥
इति तेन कृताश्वासो राजपुत्रो व्यलम्बत ।
ततो दशसु यातेषु वासरेषु यदृच्छया ॥११२॥
कन्यकान्तःपुरं गत्वा वृद्धा पुनरुपाययौ ।
अलक्तकाङ्कमालोक्य हृदि तस्यास्त्रिचन्द्रकम् ॥११३॥
रहो मन्त्रिसुतः प्राह सोत्कण्ठं भूमिपात्मजम् ।
सखेऽस्या रजसा रात्रित्रयमावर्तते तनुः ॥११४॥
पश्यास्या हृदये न्यस्तं तया शोणाङ्गुलित्रयम् ।
इति श्रुत्वा पुनर्ध्यायन्स तामायतलोचनाम् ॥११५॥
सहस्रयामतां यातमनयद्यामिनीत्रयम् ।
ततो वृद्धा चतुर्थेऽह्नि गत्वा पुनरुपागता ॥११६॥
तावुवाचाद्य याताहं तया संफूजिता भृशम् ।
तत्कालम स्फोटितालाने निर्गते मत्तकुञ्जरे ॥११७॥
हर्म्येण रज्जुमालम्ब्य सा भीता विससर्ज माम् ।
इति वॄद्धागिरं श्रुत्वा विसृष्टो मव्न्त्रिसूनुना ॥११८॥
तेनैव रज्जुपात्रेण स प्रापान्तःपुरं निशि ।
चेटिकाभिः समुत्क्षिप्तः प्रासादेन प्रविश्य सः ॥११९॥
न्यस्तस्फटिकपर्यन्तं विवेश मणिमन्दिरम् ।
दीपरत्नांसुकपिशे सुप्तकञ्चुकिमण्डले ॥१२०॥
पाताल इव तत्रासौ तां भुजङ्गीं व्यलोकयत् ।
प्रत्युद्गतां ह्रिया नम्रां तां राजतनयोऽवदत् ॥१२१॥
सोत्कम्पकुचविन्यस्तहस्तमत्रस्तविभ्रमाम् ।
अयि मानसदुग्धाब्धिचन्द्रिके लज्जया नताम् ॥१२२॥
उत्तानय दृशं सन्तु दिशः कुवलयाकुलाः ।
इत्युक्त्वा रत्नपात्रेण मालतीस्मितसुन्दरी ॥१२३॥
अपाययत्तां माध्वीकं पपौ च घनसौरभम् ।
हठात्कण्ठग्रहानन्दमीलितार्धविलोचनाम् ॥१२४॥
मदारुणकपोलां तां चुचुम्ब सरसं ततः ।
सा तेन कुञ्जरेणेव समाक्रान्ता सरोजिनी ॥१२५॥
चकाशे निष्क्कणत्काञ्चीकलहंसकुलावली ।
अकृत्रिमविलासाङ्कमशिक्षितकलाक्रम म् ॥१२६॥
अविभागाङ्गसुभगं बभूव सुरतं तयोः ।
एवं प्रतिनिशं श्यामा गूढं तेन समागता ॥१२७॥
अभूदुद्भिन्नसंभोगकुसुमस्मेरमञ्जरी ।
ततः कदाचित्सस्मार राजपुत्रो बहिः स्थितम् ॥१२८॥
मन्त्रिपुत्रोऽपि देशेऽस्मिन्कथमेकश्चरेदिति ।
ज्ञात्वान्यमनसं कान्तं पृष्ट्वा च श्रुत््कथा ॥१२९॥
उवाच किं त्वया नासौ सुहृन्मे प्रकटीकृतः ।
पूज्यः स धीमतां धुर्योऽज्ञासीत्तत्तन्मदिङ्गतम् ॥१३०॥
तत्कृते प्राहिणोम्यद्य विचित्रं त्विष्टभोजनम् ।
उक्त्वेति विससर्जाशु राजपुत्री तदन्तिकम् ॥१३१॥
विचित्रमाल्यताम्बूलं भोजनं च स्वयं कृतम् ।
मन्त्रिपुत्रस्तदादाय राजपुत्रमभाषत ॥१३२॥
अहो त्वया कृतं जाड्यं यदहं प्रकटीकृतः ।
( विषदिग्धमिदं सर्वं तया मे प्रहितं सखे ) ॥१३३॥
न सहन्ते हि रागिण्यो भर्तुः प्रेमपदं जनम् ।
इत्युक्त्वा तच्छुने प्रादात्सोऽपि तेनाभवव्द्युसुः ॥१३४॥
ततस्तौ कोपकलुषौ तदालोक्य बभूवतुः ।
कर्णोत्पलस्य नृपतेरस्मिन्नवसरे प्रिये ॥१३५॥
पुत्रे दैवाद्दिवं याते राजपुत्रं सखावदत् ।
अद्य तस्यास्त्वया गत्वा मत्ताया भूषणावलीम् ॥१३६॥
समादाय नखैः कार्यं त्रिशिखं लक्ष्म विग्रहे ।
इति तद्वचसा सर्वं कृत्वा राजसुतो निशि ॥१३७॥
गृहीताभरणः क्षिप्रं ततः प्राप्तस्तदन्तिकम् ।
व्रतिवेषोऽटवीं गत्वा मन्त्रिपुत्रस्तमब्रवीत् ॥१३८॥
अधुना मौक्तिकलतां नयैतां विक्रयावनिम् ।
प्रदर्शनीया सर्वत्र दातव्या न तु कस्यचित् ॥१३९॥
कस्येयमिति पृष्ठेन निर्देशोऽहं त्वया सखे ।
इति तेन विसृष्टोऽसौ विपणे समदर्शयत् ॥१४०॥
राजपुत्रोऽपि तत्कालं छन्नवेशादलक्षितः ।
तां दृष्ट्वा राजपुरुषैः पृष्टः कस्येयमित्यथ ॥१४१॥
तं कूटव्रतमभ्येत्य गुरोरस्येत्युवाच तान् ।
सोऽपि पृष्टोऽवदद्राजा स्वयमेत्य श्रृणोतु मे ॥१४२॥
इति तद्वचसा तूर्णं नृपं प्राप्तमुवाच सः ।
राजंस्तव पुरे छन्ना दन्तघाटकपुत्रिका ॥१४३॥
डाकिनी भ्राम्यति सदा रजनीषु दिगम्बरा ।
इहाकृष्य विसृष्टोऽसावेकदा त्वत्सुतोऽनया ॥१४४॥
तत्कोपाच्च त्रिशूलेन मया गात्रे समाहता ।
इदं चाभरणं तस्या मया सुबहुमौक्तिकम् ॥१४५॥
( प्राप्तं भीता पलाय्यासौ पितुर्वेश्म पुनर्गता ) ।
निर्वास्यतां पुरात्पापा सा स्त्री न वधमर्हति ॥१४६॥
इति कर्णोत्पलो राजा श्रुत्वा कोपानलाकुलः ।
स्त्रीभिर्विज्ञाय तद्गात्रे प्रत्यग्रां त्रिशिखाहतिम् ॥१४७॥
पद्मावतीं स्वनगरान्निःसार्योद्भ्रान्तमानसाम् ।
विवासितां च तां पश्चात्तौ स्ववेषौ प्रजग्मतुः ॥१४८॥
सप्रलापा प्रतीपौघैः कुर्वाणा क्रन्दितैर्दिशः ।
आद्यराजस्य पुत्रस्तां सहितो मन्त्रिसूनुना ॥१४९॥
ततो वाराणसीं गत्वा विललास तया चिरम् ।
संग्रामवर्धनोऽप्यस्याः पिता तद्दुःखवह्निना ॥१५०॥
स्फुटितात्मा व्यसुरभूद्दयितानुगतः क्षणात् ।
कथयित्वेति वेतालः पप्रच्छ वसुधाधिपम् ॥१५१॥
सुताशोकविपन्नौ तौ कस्य पापाय भूपते ।
ज्ञात्वाप्यब्रुवतो मूर्धा शतधा ते भविष्यति ॥१५२॥
इति तेन नृपः पृष्टो बभाषे गतसंभ्रमः ।
राजपुत्रः प्रिया चास्य न वाच्यौ मन्मथाकुलौ ॥१५३॥
प्रभुभक्तिव्रतो धीमान्मन्त्रिपुत्रोऽप्यकल्मषः ।
कर्णोत्पलस्य नृपतेः पातकं तत्प्रमादिनः ॥१५४॥
यो न पश्यति चारेण राजवृत्तान्तमन्धवत् ।
इति मौने परित्यक्ते राज्ञा तूर्णेमलक्षितः ।
स वेतालस्तरोरग्रे तथैवोल्लम्बितः स्थितः ॥१५५॥
इति प्रथमो वेतालः ॥१॥

N/A

References : N/A
Last Updated : October 23, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP