TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

मन्दारवत्याख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


मन्दारवत्याख्यायिका
इति विप्रः समाश्वास्य ददौ मे मन्त्रमुत्तम म् ।
येन सिद्धेन वेतालः स मया वाहनीकृतः ॥१२२२॥
तत्प्रभावान्मया दृष्टस्त्वमिहस्थः समागतः ।
इत्युक्त्वा हर्षमतुलं लेभे विक्रमकेसरी ॥१२२३॥
मृगाङ्कदत्तस्तच्छ्रुत्वा तां शशाङ्कवतीं स्मरन् ।
व्रजन्नुज्जयिनीं प्राप सोऽटवीं निर्जलद्रुमाम् ॥१२२४॥
ग्रीष्मोष्माश्लेषविषमं वर्त्मोत्तीर्य क्रमेण ते ।
तृष्णासंतापविधुरा ददृशुर्विशदं सरः ॥१२२५॥
व्याप्तं विकाशिभिः पद्मैः सरसैर्गुणशालिभिः ।
श्रुत्वा मृगाङ्गनानीतं हर्शोत्कण्टकितैरिव ॥२२६॥
ललनालोचनौपम्यपत्तैरुत्पलसंस्तरैः ।
कृष्णवक्षःस्थलप्रीतिं विदधानमिव श्रियः ॥१२२७॥
हंसांसघटितस्फारफेनोर्मिवलयोज्ज्वलम् ।
इन्दुगर्भामृतोत्तुङ्गतरङ्गमिव सागरम् ॥१२२८॥
प्रावृषेण्यघनश्यामैर्वराहैः सेवितान्तरम् ।
चक्रवाकवियोगाग्निधूमपुञ्जैरिवामृतम् ॥१२२९॥
लोलाम्बुजदलभ्रान्तैर्मुक्ताभैर्जलबिन्दुभिः ।
दर्शयन्तमिवाश्चर्यं संसारे तरलां स्थितिम् ॥१२३०॥
मुहुः करिकुलाकृष्टबिसदण्डविपाण्डुरम् ।
कुमुदाकान्तचन्द्रांशुसहस्त्रैरिव पूरितम् ॥१२३१॥
तद्विलोक्य जहुः क्लान्तिं ते हर्षविकचेक्षणाः ।
दृष्टमात्रा दिशन्त्येव संतोषं विपुलाशयाः ॥१२३२॥
पश्चिमे तस्य विस्तीर्णं तीरे शाखासहस्त्रिणम् ।
विशालं फलपुष्पाढ्यं ददर्श वरपादपम् ॥१२३३॥
ऐश्वर्यमिव सच्छायमभिमानमिवोन्नतम् ।
सौहार्दमिव संश्लिष्टं संतोषमिव सौख्यदम् ॥१२३४॥
तं वीक्ष्य संपदां पात्रं सेव्यसंतापवारणम् ।
सर्वाशापूरणे शक्तमभिजातमिवेश्वरम् ॥१२३५॥
मृगाङ्कदत्तसचिवाः सहसा श्रुतधिं विना ।
हर्षादारुरुहुर्भूरिफलं भोजनवाञ्छया ॥१२३६॥
शाखान्तरालं संप्राप्ताः क्षिप्रमन्तर्हितास्ततः ।
मृगाङ्कदत्तो विक्रोशन्नापश्यत्सुहृदोऽथ तान् ॥१२३७॥
स तद्विरहविधुरो मुमोह पतितः क्षितौ ।
वीजमानः श्रुतधिना पल्लवैर्धृतिमाप्तवान् ॥१२३८॥
ततः शरीरमुत्स्रष्टुं राजपुत्रं समुद्यतम् ।
दुःखार्तस्य सरित्तीरे वागुवाचाशरीरिणी ॥१२३९॥
देवो गणाधिनाथोऽयं स्वेच्छातरुवराकृतिः ।
एतदुल्लङ्घनात्तस्य शाखाः सुफलतां गताः ॥१२४०॥
तपसाराध्य हेरम्बं तत्सङ्गं समुपेश्यसि ।
अन्यथा दुर्लभा मुक्तिस्तेषां वर्षशतैरपि ॥१२४१॥
इति दिव्यवचः श्रुत्वा धॄतिं प्राप नृपात्मजः ।
पूजयित्वा नृपवरं तुष्टाव प्रथमप्रभुम् ॥१२४२॥
गजेन्द्र जयति स्फुरत्पृथुलकान्तिसद्दैर्घ्यभृ -
च्छशीय विशदो रदस्तव मुखोदयाद्रेस्तटे ।
विलासरसफूत्कृताकुलकपोलभृङ्गावली
निशाप्रणयिसीकरप्रकरहारतारागणः ॥१२४३॥
गणेश्वरमिति स्तुत्वा द्वादशाहमुपोषितः ।
स्वप्ने तद्वरमासाद्य वाञ्छितं प्राप्स्यसीत्यथ ॥१२४४॥
प्रीतः प्रबुद्धः सचिवान्ददर्श प्रणतान्दश ।
तान्दृष्ट्वा विस्मयाविष्टो हृष्टः प्राह मुदान्वितान् ॥१२४५॥
अहो नु विपुलो लाभः कोऽप्यरण्ये ममोदितः ।
यदहं सुहृदो लब्ध्वा प्रीतः शेशैः सहाभरैः ॥१२४६॥
दृढमुष्टे मेघबलस्थूलबाहो सुदुःसहः ।
व्याघ्रसेन क्क युश्माभिर्मद्वियोगोऽतिवाहितः ॥१२४७॥
सप्तभिः सहितेनेति चतुर्षु नृपसूनुना ।
पृष्ठेषु तेषु मतिमान्व्याघ्रसेनोऽभ्यभाषत  ॥१२४८॥
स्वस्ति देव वयं तत्र तेन नागेन शापिताः ।
क्षिप्ताः पारापताक्षेण दिक्षु मोहविमूर्च्छिताः ॥१२४९॥
ततोऽहं निशि नीरन्ध्रे नीलशैलशिलाघने ।
तिमिरे शोकतिमिरैरभवं नष्टचेतनः ॥१२५०॥
सहस्रयामेव चिरात्त्रियामा यमकाङ्क्षिणा ।
अटव्यां सा मया नीता दुर्नीतेनेव दुःखदा ॥१२५१॥
ततः प्रभाते संप्राप्य सरो विकचपङ्कजम् ।
निषण्णोऽहं कृतस्नानस्तीरे चिन्तानलाकुलः ॥१२५२॥
तत्रापश्यमथायातान्क्रन्दितोच्छूनलोचनान् ।
दृढमुष्टिं मेघबलं स्थूलबाहुं च संगतान् ॥१२५३॥
ततो दुःखात्तनुत्यागसंभृता मुनिसूनुना ।
वयं नीताः समाश्वास्य शुभच्छायं तपोवनम् ॥१२५४॥
तत्र कण्वमुनिः साक्षात्कृशानुरिव तेजसा ।
ब्रह्मलोक इवानेकैः सेव्यमानो मुनीश्वरैः ॥१२५५॥
अरौद्ररूपः सततं जितकालमनोभवः ।
अकृष्णचरितः पुण्यसमाधानपदाच्च्युतः ॥१२५६॥
कृष्णाजिनोत्तरासङ्गस्तेजसा पिङ्गलच्छविः ।
अब्जासन इवाब्जोत्थभङ्गमालारजःश्रितः ॥१२५७॥
दृष्टोऽस्माभिः कुलगृहं शमसंतोषसंपदाम् ।
स हस्ततलविन्यस्तमुक्तायितजगत्त्रयः ॥१२५८॥
सोऽस्मान्विलोक्य शोकार्तानाकर्ण्यास्मान्कथां च ताम् ।
उवाच करुणासिन्धुः पीयूषं विकिरन्निव ॥१२५९॥
तेन दन्तांशुनिवहैः पूरिता विबभुर्दिशः ।
सोमपानसमुद्गीर्णैरिव शीतांशुसंचयैः ॥१२६०॥
विचित्रकर्मनिर्माणैर्भवन्त्येव भवे नृणाम् ।
संयोगैश्च वियोगैश्च सुखदुःखे विपर्ययाः ॥१२६१॥
मा निमज्जत निश्पारे विस्फारे शोकसागरे ।
तूर्णं मृगाङ्कदत्तेन भविता वः समागमः ॥१२६२॥
पुरा सुन्दरसेनस्य राजसूनोरभूच्चिरात् ।
भार्यया च सुहृद्भिश्च हारितैरिह संगमः ॥१२६३॥
श्रुत्वेति पृष्टः सोऽस्माभिर्मुनिभिश्च सकौतुकैः ।
तत्कथां प्राह भगवान्कृत्वा निखिलमाह्निकम् ॥१२६४॥
अलका नाम नगरी निषधेष्वस्ति विश्रुता ।
यस्यां पौरवधूवक्त्रैर्जायते दिनकौमुदी ॥१२६५॥
यस्याः सुरगृहश्वेतपताकापङ्क्तिभिर्मुहुः ।
बहुधा विप्रकीर्णेव दृश्यते व्योम्नि जाह्नवी ॥१२६६॥
शक्तिमानभवत्तस्यां महासेनाभिधो नृपः ।
शक्रशङ्कास्पदोत्साहो महासेन इवापरः ॥१२६७॥
पाणिबाधारुणान्तेषु कपोलेश्वरियोषिताम् ।
नेत्रेषु चाश्रुताम्रेषु यत्प्रतापोऽभजत्स्थितिम् ॥१२६८॥
का निशा नेन्दुतिलका को नु गौरीगुरुर्गिरिः ।
यद्यशोभिरभूच्छुभ्रैः को वा देवो न धूर्जटिः ॥१२६९॥
लक्ष्मीरक्षामणिस्तस्य गुणपालित इत्यभूत् ।
मन्त्री सर्वोपधाशुद्धः षाङुण्यनयभूषणः ॥१२७०॥
राज्ञः शशिप्रभा तस्या पौलोमीव शतक्रतोः ।
भार्या बभूव सौभाग्यवसन्तोपवनस्थली ॥१२७१॥
स तस्यासदृशं लेभे सशरीरमिव स्मरम् ।
पुत्रं सुन्दरसेनाख्यं विलाससदनं द्युतेः ॥१२७२॥
बभूवुः सचिवास्तस्य श्रीपरिष्वङ्गसाक्षिणः ।
चत्वारश्चारुकटका मुरारेरिव बाहवः ॥१२७३॥
चण्डप्रभादिभिर्मित्त्रैः स तैः सह नृपात्मजः ।
कदाचित्पुरयात्रायां निर्ययौ द्रष्टुमुत्सवम् ॥१२७४॥
पूजयित्वा द्विजवरान्मणिकाञ्चनमौक्तिकैः ।
सुहृदत्साहितो दाता विचचार पुरोत्सवे ॥१२७५॥
स तत्र विबबहु मत्तकुञ्जरेन्द्रघटा इव ।
संपूर्ण इव शेतांशुर्मेघमालाविनिर्गतः ॥१२७६॥
गोरोचनापत्त्रभङ्गैस्तस्योरुयुगलं बभौ ।
हरेरिव चिरोत्पिश्तकैटभासृक्छटाङ्कितम् ॥१२७७॥
रराज तारहारेण लक्श्मीलीलास्मितेन सः ।
निर्झरेणेव गाङ्गेन स्फटिकाचलशेखरः ॥१२७८॥
शौर्यद्विपालाननिभौ जयतोरणविभ्रमौ ।
प्रतापमद्निरस्तम्भौ भुजौ तस्य विरेजतुः ॥१२७९॥
स लोलकुण्डलासक्तलसन्मरकतांशुभिः ।
बभौ विभूषितो भोगिभोगैरिव महेश्वरः ॥१२८०॥
व्यूढोरस्कं हरिस्कन्धं प्रांशुं कमललोचनम् ।
तं वीक्ष्य पौरललना बभूवुर्मन्मथाकुलाः ॥१२८१॥
मोट्टायितैः कुट्टमितैर्जॄम्भितैः किलकिञ्चितैः ।
तासां तद्दर्शनोद्भूतैरयं किल सखीजनः ॥१२८२॥
महोत्सवं समालोक्य कामिनीनयनोत्सवः ।
अपरेद्युर्मृगरणक्रीदायै सानुगो ययौ ॥१२८३॥
तं व्रजन्तं ददर्शाथ यदृच्छासंगता पथि ।
प्रौढा कात्यायनी नाम तापसी कौतुकाकुला ॥१२८४॥
आश्चर्यशालिनीं पृथ्वीं भ्रान्त्वा सा वीक्ष्य तं पुरः ।
विस्मयस्तब्धनयना लिखितेवाभवत्क्षणात् ॥१२८५॥
अभिनन्द्य तमाशीर्भिः प्रहृष्टा गन्तुमुद्यता ।
अनेकसेवकासक्तदृशा तेन न वीक्षिता ॥१२८६॥
सदर्पमिव तं मत्वा किम्चिदुच्चैरुवाच सा ।
अहो नु रूपसंमत्तो राजपुत्रो मदाकुलः ॥१२८७॥
हंसद्वीपपतेः पुत्रीं कान्तां दारवतीं यदि ।
प्राप्नोति तन्न जानीमः कीदृशोऽयं भविष्यति ॥१२८८॥
इति तद्वचनं श्रुत्वा सेवका गर्वमन्थरम् ।
न्यवेदयन्समभ्येत्य राजपुत्राय विस्मिताः ॥१२८९॥
स तामानाय्य पप्रच्छ प्रणम्य विनयानतः ।
यथोक्तमवदत्सा च पृष्टा तेन पुनः पुनः ॥१२९०॥
नानभोजनसन्मानैः पूजनीयेयमित्यथ ।
आदिश्य मन्त्रिणं प्रायान्मृगयायै नृपात्मजः ॥१२९१॥
ततः परिनिवृत्याशु राजधानीमुपेत्य ताम् ।
पप्रच्छ पुनरेकान्ते सचिवैः सह निर्वृतः ॥१२९२॥
सा प्राह राजपुत्रास्ति हंसद्वीपनराधिपः ।
श्रीमान्मन्दरदेवाख्यो राजसागरमन्दरः ॥१२९३॥
तस्य मन्दारवत्याख्या तनयास्ति सुलोचना ।
यां विधाय विधेर्मन्ये चिरादुच्छ्वसितं मनः ॥१२९४॥
मासि मासि समभ्यस्य विधिः शङ्के शशिक्रियाम् ।
तन्मुखाशेषसादृश्येनैवाद्यापि प्रगल्भते ॥१२९५॥
वन्द्रस्पर्धैव लज्जायै दूरे जलजसंकथा ।
तन्मुखस्योपमापात्रं स्वबिम्बं यदि दर्पणे ॥१२९६॥
सौन्दर्यवसनं लोके सा च संवननं दृशः ।
तथा च पश्य चित्रस्थं तदाकारं ददाम्यहम् ॥१२९७॥
मयेयं लिखितां तत्र तत्सौन्दर्यानुरक्तया ।
एवंविधा सुधामूर्तिर्नेत्राभ्यां लभ्यते कुतः ॥१२९८॥
इत्युक्त्वा कौतुकज्ञाय राजपुत्राय तां ददौ ।
चित्रस्थां वीक्ष्य तां सोऽपि चित्रन्यस्त इवाभवत् ॥१२९९॥
साक्षादिव स्थितां दृष्ट्वा किंचिद्वक्तुमिवोद्यतः ।
स तां प्रदध्यादाक्रान्तौ विस्मयेन स्मयेन च ॥१३००॥
यस्याः कान्तितरङ्गिणी स्तनतटे हारांशुकेनोज्ज्वले
भ्रूवीचीचटुले विलाससुभगे वक्त्रे रुचिस्यन्दिनि ।
लावण्यामृतविभ्रमे कृतमहावर्ते च नाभीह्रदे
मज्जन्तीव मयार्पिता स्मरभरादानन्दगुर्व्या दृशः ॥१३०१॥
इत्युक्त्वा सर्ववृत्तीनां निर्दिशन्नेव नेत्रताम् ।
योगीव तन्मयः क्षिप्रं निर्विकल्पो बभूव सः ॥१३०२॥
तं वीक्ष्य पुलकापूर्णं स्वेदबिन्दुविराजितम् ।
ध्यात्वा तत्सचिवाः प्राहुस्तापसीं विस्मयाकुलाः ॥१३०३॥
आर्ये तत्सदृशी कन्या चित्रस्था कैः प्रतीयते ।
लिख्यतां राजपुत्रोऽयं सादृश्ये कुशलासि चेत् ॥१३०४॥
इत्युक्त्वा तैर्लिलेखाथ तापसी भूमिपात्मजम् ।
अविसंवादिलावण्यं संक्रान्तमिव दर्पणे ॥१३०५॥
ते दृष्ट्वा लिखितं चित्रे तुल्यं राजसुतं तथा ।
साधु साध्वित्यभाषन्त प्रहर्षोत्फुल्ललोचनाः ॥१३०६॥
तापस्यां प्रतियातायां राजपुत्रस्ततोऽभवत् ।
अरतिस्मरतापानां करात्करमिवागतः ॥१३०७॥
श्वासताम्राधरदलो ध्यानस्तिमितलोचनः ।
आपाण्डुगण्डः कदलीदलशय्यां ततोऽभजत् ॥१३०८॥
विज्ञाय तत्सुहृद्वाक्यात्पुत्रं कामज्वरातुरम् ।
तापसीकथितं कन्यावृत्तान्तं च निशम्य त त् ॥१३०९॥
महासेनोऽथ दूतेन हंसद्वीपाधिपं सुताम् ।
योग्यां सुन्दरसेनाय ययाचे दिक्षु विश्रुताम् ॥१३१०॥
लिखितं चित्रफलके राजपुत्रमदर्शयत् ।
महासेनविसृष्टोऽसौ दूतस्तत्र महीभुजे ॥१३११॥
हंसद्वीपाधिपः पुत्र्यै चित्रस्थं भूमिपात्मजम् ।
प्रदिश्य तत्प्रयाणाय प्रति दूतं समादिशत् ॥१३१२॥
मन्दारवत्यथालोक्य तं कान्तं प्रतिमापदम् ।
बभूवाभोनवोद्भिन्नमनोभवविभूषिता ॥१३१३॥
ततस्तच्चिन्तनैकाग्रा तत्सौन्दर्यकथादरा ।
भेजे प्रलापिनी तापं हृदयान्ते मुखश्रिया ॥१३१४॥
कान्तां विज्ञाय तां तुल्यवरव्यासक्तमानसाम् ।
आपादसहमानां च कालं परिणयोत्सवे ॥१३१५॥
विससर्ज प्रवहणैर्महासेनपुरीं स्वयम् ।
पुत्रीं मन्दरदेवोऽथ हृष्टो दासीशतैर्वृताम् ॥१३१६॥
रत्नपूर्णं प्रवहणं सा समारुह्य सोत्सुका ।
अवाप जलधेर्मध्यं तरङ्गावर्तभीषणम् ॥१३१७॥
अथोदतिष्ठव्द्यालोलविद्युत्पिङ्गललोचनः ।
तमालज्जालमलिनो गर्जञ्जलदराक्षसः ॥१३१८॥
तदुद्भूतमहावातवलयावर्तनर्तितः ।
कैलासशिखराकारतरङ्गः सागरोऽभवत् ॥१३१९॥
तेन कल्पान्तसंरम्भगम्भीरेण नभस्वता ।
अभज्यत प्रवहणं राजपुत्र्याः कृतश्रम म् ॥१३२०॥
किमेतदिति निस्पन्दचेतनामोहविप्लवैः ।
वीचिहस्तैस्ततो न्यस्ता भवितव्यतयैव सा ॥१३२१॥
तत्र संज्ञां समासाद्य चिरात्तरललोचना ।
एकाकिनी त्रासशोकशङ्कातङ्काकुलाभवत् ॥१३२२॥
तालतालीवनश्यामे निर्जने जलधेस्तटे ।
बभ्राम चक्रवाकीव बाला तारप्रलापिनी ॥१३२३॥
स्तनस्तबकिनी तस्याः साञ्जनैर्बाश्पबिन्दुभिः ।
आलीनभृङ्गमालेव बभूव तनुवल्लरी ॥१३२४॥
वीक्ष्य शून्य दश दिशो निश्चलोत्पललोचना ।
त्रस्तेव बालहरिणी क्षिप्रमुत्कन्धराभवत् ॥१३२५॥
हा तात हा प्रियतम क्क नु व्यग्रोऽसि पश्य माम् ।
इति चक्रन्द सा तन्वी दृषदामपि दारणम् ॥१३२६॥
अत्रान्तरे महाम्भोधिवेलाबिरचिताश्रमः ।
तं देशमागतः स्नातुं मतङ्गो मुनिपुंगवः ॥१३२७॥
यमुनाभिधया पुत्र्या सहितस्तां ददर्श सः ।
विलापक्षामवदनां निःश्वासग्लपिताधराम् ॥१३२८॥
तां वीक्ष्य करुणासिन्धुः सान्त्वयन्मुनिरब्रवीत् ।
समाश्वसिहि मा भैषीः पुत्रि मा विक्लवा भव ।
अस्यां तनौ न विपदश्चिरं तिष्ठन्ति सुन्दरि ॥१३२९॥
इत्युक्त्वा तेन सा पृष्टा कारुण्याद्दुःखकारणम् ।
उवाच तत्समाश्वाससुधया लब्धजीविता ॥१३३०॥
हंसद्वीपपतेः पुत्री हताशा भगवन्नहम् ।
पित्रा सुन्दरसेनाय विसृष्टाम्भोधिवर्त्मना ॥१३३१॥
अचिरप्रस्तुतोद्वाहा भग्ने प्रवहणे विभो ।
तीरेऽस्मिन्सलिलैः क्षिप्ता जीवामि कठिनाशया ॥१३३२॥
निषधाधिपतेः पुत्रः प्राप्तो नाधन्यया मया ।
श्रीमान्सुन्दरसेनोऽसौ वरो दिव्यवरोचितः ॥१३३३॥
इत्युदश्रुदृशस्तस्या निशम्य वचनं मुनिः ।
निनाय पुत्र्या सहितस्तामाश्वास्य निजाश्रम म् ॥१३३४॥
भविष्यत्यचिरादेव तवेप्सितसमागमः ।
इति तत्र त्दादिष्टा कंचित्कालमुवास सा ॥१३३५॥
अस्मिन्नवसरे तीव्रमन्मथानलतापितः ।
दूतैः सुन्दरदेनोऽपि ज्ञात्वा पुत्रीं प्रतिश्रुताम् ॥१३३६॥
राज्ञा मन्दरदेवेन कृतार्ह्तोऽस्मीति वादिना ।
अक्षमः कालसहने सामात्यः पितुराज्ञया ॥१३३७॥
प्रतस्थे विपुलानीकैर्विवाहोचितया श्रिया ।
हंसद्वीपं हरिखुरोट्टङ्कितावनिमण्डलः ॥१३३८॥
स शशाङ्कपुरं प्राप्य क्रमेण जलधेस्तटे ।
राज्ञा महेन्द्रादित्येन पूजितः सादरं गृहम् ॥१३३९॥
तमेवाग्रे समाधाय सोत्साहं सचिवैः सह ।
आरुरोह प्रवहणं तूर्णं परिणयोत्सुकः ॥१३४०॥
ततः संहारपुशिनैरकाण्डोच्चण्डमारुतैः ।
समुद्भूतैर्महाम्भोधावभज्यत सचेटकः ॥१३४१॥
बाहुभ्यां तरणोद्युक्ताः पवनप्रेरितैर्जलैः ।
पृथक्तीरेषु विन्यस्ताः सर्वे प्रवहणाश्रयाः ॥१३४२॥
एकेन सुहृदा सार्धं तीरं प्राप्य नृपात्मजः ।
अचिन्तयद्विलसितं भुजङ्गकुटिलं विधेः ॥१३४३॥
हा सुन्दरि न लब्धासि यत्नेरेवंविधैरपि ।
कुतो वा हीनपुण्यानां संकल्पाः फलयोगिनः ॥१३४४॥
तैः सुहृद्भिर्वियुक्तस्य निष्फलोद्योगदुःखिनः ।
ममास्मिन्व्यसनापाते निधानान्नापरं सुखम् ॥१३४५॥
इति प्रलापमुखरः सुहृदाश्वासितो मुहुः ।
तापसाभ्यां समादिष्टं शनैः प्राप तपोवनम् ॥१३४६॥
अत्रान्तरे महासेनो विज्ञाय निषधेश्वरः ।
रहितं राजपुत्रेण प्रतीपं सैन्यमागतम् ॥१३४७॥
श्रुत्वा समुद्रवृत्तान्तं घोरं कुलिशदारुणम् ।
हा पुत्रेति विलप्योच्चैर्निपपात महीतले ॥१३४८॥
भूपतौ शोकपतिते रुरोदेव वसुंधरा ।
अन्तःपुरवधूच्छिन्नहारमुक्ताश्रुबिन्दुभिः ॥१३४९॥
देवी शशिप्रभा तत्र पुत्रशोकप्रलापिनी ।
चक्रे केलिकुरङ्गीणां मुहुः साश्रुलवा दृशः ॥१३५०॥
अस्मिन्नवसरे ज्ञात्वा हंसद्वीपाधिपः सुताम् ।
निमग्नां सागरावर्ते सोऽभ्ययादलकां स्वयम् ॥१३५१॥
तूर्णं समुद्रमुत्तीर्य संबन्धिनि नराधिपे ।
पुत्रीवियोगविधुरे संप्राप्ते वल्लभासखे ॥१३५२॥
महसेनपुरं तारं चचाराक्रोशनारवः ।
समानदुःखसङ्गेन बाष्पग्रन्थिर्हि भिद्यते ॥१३५३॥
शनैराश्वासितास्तेऽथ वृद्धामात्यपुरःसरैः ।
बहवः सागरे तीर्णा दृष्टा इति निदर्शनैः ॥१३५४॥
ततस्तौ भूपती तत्र सभार्यौ शोककर्शितौ ।
अभूतां नियताहारौ शिवार्चनपरायणौ ॥१३५५॥
अत्रान्तरे राजपुत्रः सुहृदा सह दुःखितः ।
प्राप्तः सुन्दरसेनस्तं मतङ्गाश्रमकाननम् ॥१३५६॥
प्रसन्नसुभगच्छायमञ्जुगुञ्जद्विहङ्गमे ।
मृदुलानिललोलाग्रफुल्लवल्लीमनोहरे ॥१३५७॥
तत्राश्रमोपान्तनदीतीरे तरललोचनाः ।
जलकेलिकलालोला ददर्श मुनिकन्यकाः ॥१३५८॥
तासां मध्ये ततोऽपश्यत्ताराणामिव रोहिणीम् ।
शोककञ्चुकसंवीतां कन्यां कुवलयेक्षणाम् ॥१३५९॥
निर्दोषेणातिकान्तेन शतपत्त्रविकाशिना ।
अभिभूतेन्दुबिम्बेन वदनेन विराजिताम् ॥१३६०॥
निषिद्धमावयोरैक्यं श्रोत्राभ्यां नासया तथा ।
रोषादतीव रक्तान्तं बिभ्राणां लोचनद्वयम् ॥१३६१॥
नागवल्लीकिशलयैर्भूषितामधरांशुभिः ।
लक्श्मीमिवाब्धिसंक्रान्तबालविद्रुमपल्लवाम् ॥१३६२॥
अत्युच्चकुचसंरुद्धं न पश्याम्येतदाननम् ।
इतीव चिन्तया मध्यं दधती क्षामतां गतम् ॥१३६३॥
फुल्लोत्पलवरामोदां कुन्ददन्तां हिमस्मिताम् ।
अशोकपल्लवकरां मल्लीमुकुलकोमलाम् ॥१३६४॥
केतकीकलिकाकोटितीक्ष्णान्तनयनच्छटाम् ।
स तां विलोक्य साकारमिव सर्वर्तुदेवताम् ॥१३६५॥
बभूव विस्मयोत्तालनयनः सुहृदा सह ।
अग्राम्यमधुरं तस्याः प्रशंसन्नेष विभ्रम म् ॥१३६६॥
साथ तत्र जलक्रीदाव्यग्रा ग्राहेण हारिणी ।
गृहीता मोहमगमत्त्रासकम्पिपयोधरा ॥१३६७॥
तां विलोक्य तदाक्रान्तां मुनिकन्याः प्रचुक्रुशुः ।
हा हा मन्दारवत्येषा सखी ग्राहेण कृष्यते ॥१३६८॥
इति प्रयतमानामश्रवणोत्फुल्लकाननः ।
क्षिप्रं सुन्दरसेनस्तु हत्वा ग्राहं ररक्ष ताम् ॥१३६९॥
सखीभिर्वीज्यमानाथ सा बाला कदलीदलैः ।
लब्धसंज्ञा नृपसुतं पुरो दृष्ट्वा व्यचिन्तयत् ॥१३७०॥
अहो बत स एवायं यश्चित्रस्थो मया पुरा ।
दृष्टः सैवेयमम्लाना रेखा सौन्दर्यशालिनी ॥१३७१॥
इति लज्जाकुले तस्याः कान्तिदर्शनसंशये ।
लेभे मनोभवः क्षिप्रं दोलारोहणविभ्रम म् ॥१३७२॥
ततः सुन्दरसेनस्तां पप्रच्छ मुनिकन्यकाम् ।
लावण्यललिताकारा कस्येयमिति सादरम् ॥१३७३॥
इयं मन्दरदेवस्य हंसद्वीपपतेः सुता ।
ख्याता मन्दारवत्याख्या प्रस्थिता पितुराज्ञया ॥१३७४॥
वरं सुन्दरसेनाख्यं निषधाधीशितुः सुतम् ।
तरीतुं जलयानेन ततार जलधिं ततः ॥१३७५॥
भग्ने प्रवहणे वातैर्दैवात्तटमधिश्रिता ।
न्यस्तेयं वीचिहस्तेन भग्ने प्रवहणेऽब्धिना ॥१३७६॥
प्राप्ता मतङ्गमुनिना कन्येव प्रतिपालिता ।
इति स श्रुतवृत्तान्तस्तस्थावानन्दसंप्लुतः ॥१३७७॥
पृष्टो मन्दारवत्याथ तत्सखा प्राह तत्कथाम् ।
यथावृत्तं तदाकर्ण्य प्रपेदे निर्वृत्तिं पराम् ॥१३७८॥
इति श्रुत्वा परिज्ञाय मिथो वृत्तान्तविस्तरम् ।
दयितौ जग्मतुर्मूर्च्छां तौ बाश्पपिहितेक्षणौ ॥१३७९॥
स्वयं ततः समभ्येत्य भगवाञ्ज्ञात््कथः ।
मतङ्गमुनिरानन्दाद्ददौ तां नृपसूनवे ॥१३८०॥
अथ संप्राप्तदयितो राजपुत्रो मुनीश्वरम् ।
यमुनं च समामन्त्र्य प्रतस्थे सुहृदा सह ॥१३८१॥
किंचिन्मार्गं समुल्लङ्घ्यततः स जलधेस्तते ।
आलुलोके प्रवहणं वणीजो वल्लभासखः ॥१३८२॥
वणिक्सोऽपि विलोक्यैव दूरात्तां हंसगामिनीम् ।
आरुह्यतां प्रवहणं प्रोवाचेति नृपात्मजः ॥१३८३॥
तदाकर्ण्य प्रियां पूर्वमारोप्य स समीहते ।
यावत्स्वयं समारोढुं वणिक्तावज्जहार ताम् ॥१३८४॥
क्रोशन्तीं तां समादाय याते तस्मिन्नदृश्यताम् ।
मूर्च्छान्धकारितः क्षिप्रं निपपात नृपात्मजः ॥१३८५॥
हा प्रिये क्क नु यातासि वद दृष्टासि पश्य माम् ।
इत्युन्मत्त इवानेकं विललाप मुहुर्मुहुः ॥१३८६॥
भृङ्गावलीषु कबरीमुत्पलेषु विलोकितम् ।
लीलां च बालवल्लीषु स शुशोच मृगीदृशः ॥१३८७॥
तन्व्या संभाषितोऽस्मीति स वदन्बालवल्लरीम् ।
मञ्जुसिञ्जानमधुपामालिलिङ्गानिलाकुलाम् ॥१३८८॥
कान्ताकटाक्षमालेयमिति बर्हिशिखावलीम् ।
मोहाद्बाल इवाधावद्बालेन्दुफलकाम्यया ॥१३८९॥
तस्मिन्र्पियावियोगाग्निदह्यमाने दिनेश्वरः ।
चित्रमस्ताद्रिमारुह्य ममज्ज जलधेर्जले ॥१३९०॥
अथाभूत्सांध्यरागेण मञ्जिष्ठपटशोभिना ।
चक्राह्वशोकशिखिना मूर्तेनेवावृतं जगत् ॥१३९१॥
ततः सुन्दरसेनोऽग्रदुःखानिलसमुच्छ्रितैः ।
सान्द्रधूमैरिव ध्वान्तैर्बभूव पिहिता दिशः ॥१३९२॥
ततश्चन्द्रोदयारम्भपाण्डुरा रजनी बभौ ।
वियोगिनीव संसिक्ता कर्पूरहरिचन्दनैः ॥१३९३॥
अथादृश्यत शीतांशुर्नूतनोदयलोहितः ।
दह्यमानः स संतापैः प्रोषितावीक्षितैरिव ॥१३९४॥
व्योमलक्ष्मीः शशिकरैः करिणीदन्तपाण्डुरैः ।
बभूव स्मरतप्तेव मण्डिता विषमण्डलैः ॥१३९५॥
तत्र सुन्दरसेनोऽभूत्कौमुदीधवलत्विषि ।
कटाह इव विन्यस्तः शोचन्हरिणलोचनाम् ॥१३९६॥
ज्योत्स्नाट्टहासधवलो वेताल इव चन्द्रमाः ।
प्राणान्समुद्यतो हन्तुं ममेत्युक्त्वा पपात सः ॥१३९७॥
तं मूर्च्छितं निपतितं दृष्ट्वा साश्रुविलोचनः ।
विललापातिकरुणं तद्वयस्योऽपि विह्वलः ॥१३९८॥
ततः प्रभाते शनकैः संज्ञामासाद्य दुःखितः ।
राजपुत्रोऽविशद्धोरामटवीं विस्खलद्गतिः ॥१३९९॥
ददर्श तत्र चमरीवालैराच्छादितां पुरः ।
पुलिन्दपल्लीं शार्दूलकृत्तिप्रालम्बिभीषणाम् ॥१४००॥
गजेन्द्रमांसकूटेषु काकरक्षाविराविभिः ।
विकृतैर्वृद्धशबरैः पिशाचैरिव सेविताम् ॥१४०१॥
लम्बमानोरुतूणीरां संसक्तमृगवागुराम् ।
सारमेयकृतारावां तां पश्यन्प्रययौ द्रुतम् ॥१४०२॥
तत्र दुर्गोपहाराय शबरैश्चापपाणिभिः ।
निहतानेकशबरो बद्धो राजसुतस्ततः ॥१४०३॥
वयस्यसहितो नीतः स तैः कारागृहोदरम् ।
प्रविश्य सुचिरं वृद्धान्सचिवान्स्वान्ददर्श च ॥१४०४॥
तांश्चण्डप्रमुखान्दृष्ट्वा निबद्धान्निगडैर्दृढैः ।
उवाच संगता दिष्ट्या वयमस्मिन्वधक्षणे ॥१४०५॥
इति ब्रुवाणं शबरा निन्युस्तं चण्डिकालयम् ।
सहापरैस्तैः सचिवैः सायकव्रणपीडितम् ॥१४०६॥
तत्र कात्यायिनीं दृष्ट्वा स प्रणम्य निराकुलः ।
तुष्टाव विरहात्क्षामः पदैरस्खलिताक्षरैः ॥१४०७॥
जय देवि नमश्चन्द्रचूदाचूडाशशित्विषा ।
संपूर्यमाणपादाम्बुप्रवृद्धनखचन्द्रिके ॥१४०८॥
इत्यादि पार्वतीं स्तुत्वा स्थिते तस्मिन्नसंभ्रमे ।
हन्तुं पुलिन्दराजस्तान्विन्ध्यकेतुः समाययौ ॥१४०९॥
निर्विकारं तमालक्ष्य स तत्र निधनक्षणे ।
हा धिङ नः स्वामितनुभूरयमित्याह संभ्रमात् ॥१४१०॥
अहमाटविको राजा महासेनेन भूभुजा ।
कृतः सुन्दरसेनोऽयं पुत्रस्तस्योर्जिताशयः ॥१४११॥
इत्युक्त्वा पादयोः सास्रं राजसूनिर्निपत्य सः ।
तैः सुहृद्भिः परिवृतं तं निनाय निजालयम् ॥१४१२॥
तत्र विज्ञातवृत्तेन तेन प्रणयशालिना ।
पूज्यमानः स्मरन्कान्तां कंचित्कालमुवास सः ॥१४३३॥
ततः कदाचिदासीनं शबरेन्द्रं तदन्तिके ।
व्यजिज्ञपत्समभ्येत्य सेनानीर्विहिताञ्जलिः ॥१४१४॥
देवादेशान्निरुद्धोऽसौ सार्थो बहुधनो वने ।
संयम्य समरे जित्वा समानीतश्च तत्पतिः ॥१४१५॥
पश्चात्स्थिता तस्य कन्या हरिणीहारिलोचना ।
शङ्के शशाङ्को यत्कान्त्या क्षीणः क्षीणोऽपि पूर्यते ॥१४१६॥
श्रुत्वेति भिल्लराजेन राजपुत्रमतेन सः ।
दर्शयेति समदिष्टः सेनानीरानिनाय तम् ॥१४१७॥
तस्यानुगां ततो दृष्ट्वा तां सौन्दर्यसुधानदीम् ।
राजपुत्रः परिज्ञाय मुमोह विरहातुरः ॥१४१८॥
मन्दारवत्यपि पुरो विलोक्य हृदयप्रियम् ।
सहसा शोकहर्षाभ्यां निष्पन्देवाभवत्क्षणात् ॥१४१९॥
ततः पुलिन्दराजेन स पृष्टो दुष्टचेष्टितः ।
वणीक्प्रोवाच पापेन पर्याप्तं सदृशं फलम् ॥१४२०॥
वञ्चितो राजपुत्रोऽयं हृतेयं राजकन्यका ।
स्ववेश्मनि विधास्यामि विवाहं विभवोचितम् ॥१४२१॥
इति निश्चितसंकल्पो बद्धोऽहं भवता वने ।
प्राप्नुवन्ति कथं नाम परद्रोहरताः सुखम् ॥१४२२॥
पुलिन्दराजः श्रुत्वेति हन्यतामेष दुर्मतिः ।
इत्यादिदेश सेनान्यं भृकुटीभीमविक्रमः ॥१४२३॥
राजपुत्रस्ततः प्राह धनमेवास्य गृह्यताम् ।
वणीजां द्रविणं प्राणः शरीरं तृणमेव यत् ॥१४२४॥
इति सुन्दरसेनेन रक्षितः करुणाब्धिना ।
निरम्बरो वणिक्प्रायात्कृतकोलाहलः श्वभिः ॥१४२५॥
ततो दिदेश संदेशं विन्ध्यकेतुर्महीभुजे ।
महासेनाय तनयप्राप्तिपीयूषनिर्भरम् ॥१४२६॥
शबराधिपलेख्येन निषधाधिपतिस्ततः ।
विज्ञाय सुतवृत्तान्तं तदग्रे सानुगो ययौ ॥१४२७॥
हंसद्वीपाधिनाथेन सहामात्यसुतैस्तथा ।
स चक्रे कुञ्जरानीकैर्व्रजन्भुवि घनागम म् ॥१४२८॥
ततः सुन्दरसेनोऽपि सानुगो दयितासखः ।
समेत्य दृष्ट्वा पितरं ववन्दे साश्रुलोचनः ॥१४२९॥
ततः प्रविश्य ते सर्वे पुरीं कोलाहलाकुलाम् ।
अलकां हर्षसंपूर्णामिव चक्षुर्महोत्सवम् ॥१४३०॥
अथोचिता विवाहश्रीर्मुहूर्ते शुभलक्षणे ।
मन्दारवत्या राजेन्द्रसूनोः क्षिप्रमवर्तत ॥१४३१॥
चिरं महोत्सवे तस्मिन्नानन्दामृतनिर्भरः ।
हंसद्वीपपतिः पुत्रीं परिष्वज्य पुनः पुनः ।
स्वपुरीं प्रययौ हृष्टः सानुगो वल्लभासखः ॥१४३२॥
इति सुन्दरसेनेन प्राप्तास्ते सुहृदश्चिरात् ।
प्रिया च सा सुवदना नेत्रामृततरङ्गिणी ॥१४३३॥
इत्येवमुद्भुता धातुर्विलासकुटिला गतिः ।
युष्माकमपि संकल्पः फलिष्यति न संशयः ॥१४३४॥
इति कण्वेन मुनिना कृपयैवोपवर्णिताम् ।
कथामेतां समाकर्ण्य धैर्यं वयमुपागताः ॥१४३५॥
इति मन्दारवत्याख्यायिका ॥२८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-10-25T20:53:14.8500000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

tabulator

  • न. (as a machine) सारणीयंत्र 
  • पु. कोष्टककार 
  • पु. कोष्टककार 
  • न. कोष्टकीकरण यंत्र 
More meanings
RANDOM WORD

Did you know?

विवाहासाठीच्या मुहूर्तांची नांवे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site