TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

पञ्चदशो वेतालः

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


पञ्चदशो वेतालः
सोऽथ स्कन्धस्थितः प्राह श्रृणु विश्वंभराप्रभो ।
त्वां विना संशयानेतान्को हि नश्छेत्तुमीश्वरः ॥७१७॥
नेपालविषये श्रीमान्यशःकेतुरभून्नृपः ।
पुत्री शशिप्रभा नाम तस्याभूद्भूषणं रतेः ॥७१८॥
तां वसन्तोत्सवे कान्तां कदाचिद्द्विजपुत्रकः ।
कुसुमावचयेऽपश्यन्मनःस्वामी सुलोचनाम् ॥७१९॥
यस्या लावण्यसलिलैरुह्यमान इवानिशम् ।
आलम्बते रोमलतां त्रिवलीकूलजां स्मरः ॥७२०॥
तां वीक्ष्य कान्तिसर्वस्वकोशं कुसुमधन्वनः ।
बिम्बाधररुचिस्फारसिन्दूरेणेव मुद्रिताम् ॥७२१॥
सोऽभवन्मन्मथाक्रान्तः संक्रान्थ स्वेदवारिणि ।
संभ्रान्तो मोहगहने विश्रान्तः पुलकोत्तरे ॥७२२॥
अत्रान्तरे मदक्रोधान्निहताधोरणो गजः ।
आययौ मण्डलाकारकरकृष्टमहाद्रुमः ॥७२३॥
प्रेर्यमाणः स पवनैरिव प्रलयवारिदः ।
जगर्जोग्रं गलगुहागर्भगम्भीरविभ्रम म् ॥७२४॥
ततस्तद्भयवित्रस्तां कम्पासिञ्जानमेखलाम् ।
दैवेन दत्तावसरः स युवा तामसादयत् ॥७२५॥
रक्षिता द्विजपुत्रेण तत्र सा तरलेक्षणा ।
स्थित्वा क्षणं विभ्रमभूर्जगामान्तःपुरं निजम् ॥७२६॥
सोऽफि स्मरशरासारपक्षाग्रपवनैरिव ।
कम्पमानः प्रचलितं बभार विरहानलम् ॥७२७॥
क्षीणेन्दुरिव बिभ्राणः शरकाण्डविपाण्डुरम् ।
सकान्तिं प्रययौ मित्रसदनं जीविताशयः ॥७२८॥
अवाप्य मूलदेवाख्यं शशिना सह संस्थितम् ।
बहुधूर्तशतावासं प्रणनाम स निःश्वसन् ॥७२९॥
विभ्रष्टवदनच्छायं मूलदेवोऽपि वीक्ष्य तम् ।
हसन्कंदर्पसप्रेण दष्टोऽसीति तमब्रवीत् ॥७३०॥
तद्वृत्तान्तमथाकर्ण्य स योगघटिकां ददौ ।
स्त्रीरूपकारिणीं तस्मै स्वयं वृद्धो बभूव ह ॥७३१॥
तं कान्तकन्यकारूपं समादाय द्विजात्मजम् ।
वृद्धर्षिरूपः प्रययौ मूलदेवो महीपतिम् ॥७३२॥
यथोचिताप्तसत्कारो यशःकेतुमुवाच सः ।
राजन्स्वपुत्रकायेयमानीता कन्यका मया ॥७३३॥
तरुणः क्कापि यातोऽसौ तमन्वेष्टुं व्रजाम्यहम् ।
न्यासभूतामिमां कन्यां जगद्रक्षाक्षम प्रभो ।
रक्षेत्युक्त्वा क्षणं दम्भादभवन्मीलितेक्षणः ॥७३४॥
शशिप्रभामथाहूय नरनाथो निजात्मजाम् ।
आदिदेश द्विजसुता रक्ष्येयमिति संभ्रमात् ॥७३५॥
मुनिवेषे प्रयातेऽथ तस्मिन्नन्तःपुरे स्थितः ।
स कूटकन्यकारूपो मनःस्वामी व्यचिन्तयत् ॥७३६॥
अहो नु धूर्तधुर्येण किमप्युपकृतं मम ।
यन्मयेयं सुवदना दृष्टा तैरेव लोचनैः ॥७३७॥
इति ध्यात्वा सविस्रम्भं तां कदाचिदुवाच सः ।
सखि त्वं सततोच्छ्वासा किमुद्विग्नेव लक्ष्यसे ॥७३८॥
ब्रूहीति कन्यारूपेण पृष्टा तेन सुमध्यमा ।
प्राह स्तनतटे हारं कुर्वाणा बाष्पनिर्झरैः ॥७३९॥
सखि दृष्टो मयोद्याने कुञ्जरत्रस्तया युवा ।
यदाकृतिसमुल्लेखे संकल्पोऽपि न पण्डितः ॥७४०॥
तस्य लोचनसंचारचतुरेण किमप्यहम् ।
विषेणेव भुजङ्गस्य मूर्च्छिता न लभे धृतिम् ॥७४१॥
स्वप्नेऽद्य तेन विहितो निर्वाच्यो मे रतोत्सवः ।
सखि सखेदपुलकैर्योऽङ्गैः किमपि सूच्यते ॥७४२॥
इत्याकर्ण्य मनःस्वामी धन्योऽस्मीति व्यचिन्तयत् ।
अपास्य योगगुटिकां बभूव पुरुषाकृतिः ॥७४३॥
प्रत्यभिज्ञाय तं सद्यः सुधासिक्तेव लज्जिता ।
तदालिङनसंजातकम्पा साभूदनङ्गभूः ॥७४४॥
मनोरथैर्यदभ्यस्तं हृदयेन यदार्थितम् ।
मन्मथेन यदादिष्टं तयोस्तदभवद्रतम् ॥७४५॥
तद्गाढसुरताश्लेषग्लपिताप्यथ सात्यजत् ।
संतापशान्तिं सहसा निर्वहन्हि मनःसुधाम् ॥७४६॥
सततं सेवमानस्तां स दिवा कन्यकाभवत् ।
राजपुत्री च कालेन गर्भमाधत्त पुष्पिता ॥७४७॥
अत्रान्तरे मातुलेयी स्वसा तस्याः सुमध्यमा ।
पित्रा मृगाङ्कवत्याख्या वितीर्णा मन्त्रिसूनवे ॥७४८॥
तदुत्सवे मातुलेन राजपुत्री निमन्त्रिता ।
कूटसख्या तया सार्धं प्रययौ जनकाज्ञया ॥७४९॥
तत्र मन्त्रिसुतो दृष्ट्वा कान्तां तां कूटकन्यकाम् ।
बभूव मन्मथोन्मादविधुरो नष्टचेतनः ॥७५०॥
तं तु मूर्खनृपो ज्ञात्व वल्लभं मन्त्रिणः सुतम् ।
विप्रनिःक्षेपितां कन्यां तस्मै सभ्यगिरा ददौ ॥७५१॥
वितीर्यमाणा सा प्राह क्रमः कोऽयं महीपते ।
न्यासीकृताहं विप्रेण यदन्यस्मै समर्पिता ॥७५२॥
अथवा बलिनो राज्ञः स्वाधीनैवास्मि किं त्वयम् ।
तीर्थयात्रां मन्त्रिसुतः कृत्वा स्पृशतु मामिति ॥७५३॥
ततस्तां प्राप्य तीर्थानि ययौ मन्त्रिसुतः क्षणात् ।
स्त्रीरूपः स तु तद्गेहे तस्थौ तद्भार्यया सह ॥७५४॥
तयापि जातविश्वासो दर्शयित्वा निजाकृतिम् ।
लेभे तत्सुरतं हृष्टो मनःस्वामी दिवानिशम् ॥७५५॥
मूलदेवोऽथ राजानं ययाचे निजकन्यकाम् ।
शापभीतस्ततो राजा कम्पमानो निरुत्तरः ।
विविच्य मन्त्रिभिस्तस्मै पुत्रार्थं स्वसुतां ददौ ॥७५६॥
ततः कपटपुत्राय शशिने तां नृपात्मजाम् ।
दापयित्वा प्रतिययौ मूलदेवो महामतिः ॥७५७॥
स व्रजञ्शशिना सार्धं राजपुत्र्या च वर्त्मनि ।
मनःस्वामिनमासाद्य तद्वृत्तान्तमथाश्रृणोत् ॥७५८॥
मनःस्वामी ततः प्राह धूर्तेश त्वदनुग्रहात् ।
अभीष्टं मम संपन्नं दीयतां मे नृपात्मजा ॥७५९॥
गान्धर्वेण विवाहेन प्राप्तैवा सुन्दरी मया ।
अन्तर्वत्नी च संजाता मत्त एव सुमध्यमा ॥७६०॥
इति श्रुत्वा शशी प्राह सेयं राज्ञा ममार्पिता ।
कन्यका जनकाधीना इति किं न श्रुतं मया ॥७६१॥
इत्थं तयोस्तद्विवादे मूलदेवोऽपि संशयम् ।
अवाप्य निर्णयस्थाने नो चेत्किंचिदधोमुखः ॥७६२॥
कथयित्वेति वेतालः पप्रच्छ वसुधाधिपम् ।
सा भार्या कस्य धर्मेण संशयो वार्यतां मम ॥७६३॥
इति पृष्टो नृपः प्राह शशी धर्मेण तत्पतिः ।
छन्नकामी मनःस्वामी पित्रा तस्मै न सार्पिता ॥७६४॥
श्रुत्वेत्यन्तर्हितः सोऽथ तरौ पुनरलम्बत ।
सोऽपि स्कन्धस्थितः प्राह कथां शृणु महीपते ॥७६५॥
इति पञ्चदशो वेतालः ॥१७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-10-25T20:36:29.2400000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

हात पाहणें

  • ज्योतिषी भविष्य सांगण्यासाठी व वैद्य नाडीवरुन रोगनिदान करण्यासाठी दुसर्‍याचा हात पहातो. ‘ मग मनिं म्हणे पित्याचा पहातसे हात काय नासत्य ll’-मो विराट १.१२१ 
RANDOM WORD

Did you know?

पापा पासून मुक्त होण्यासाठी काय उपाय करावेत?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site