संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
अथ स्थापितदेवतानां होमः

अथ स्थापितदेवतानां होमः

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


एवं प्रधानहोमं समाप्यान्तिमदिने तद्दशांशेन तर्पणं तर्पणदशांशेन मार्जनञ्च कृत्वा प्रधानदेवताया भगवत्याः श्रीगायत्रीदेव्या अङ्गदेवतात्वेन स्थापितानां वास्त्वादिक्षेत्रपालदेवतान्तानां तथा च सर्वतोभद्रमण्डलदेवतासहितश्रीगायत्रीपीठदेवतानां गायत्रीयन्त्रदेवतानाञ्च स्थापनक्रमेण प्रतिदैवतमेकैकाम् आज्याहुतिं दद्यात् । यजमानो हस्ते जलं गृहीत्वा । मया प्रारब्धस्य सग्रहमखश्रीगायत्रीपुरश्चरणकर्मणः साङ्गतासिद्ध्यर्थं भगवत्याः श्रीगायत्रीदेव्या अङ्गत्वेन वास्त्वादिस्थापितदेवतानां तथा च सर्वतोभद्रमण्डलदेवतासहितगायत्रीपीठदेवतानां यन्त्रदेवतानां च स्थापनक्रमेण प्रत्येकमेकैकयाऽऽज्याहुत्या यक्ष्ये ॥

N/A

References : N/A
Last Updated : December 13, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP