संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
अथ जलयात्राप्रयोगः

अथ जलयात्राप्रयोगः

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


मण्डपे सपत्नीको यजमानः स्वासने उपविश्य आचमनं प्राणायामत्रयं कृत्वा । हस्ते जलमादाय देशकालौ सङ्कीर्त्य प्रारब्धस्य सग्रहमखगायत्रीपुरश्चरणकर्माङ्गत्वेन जलयात्रां करिष्ये ॥ इति सङ्कल्पं विधाय । कुरुष्वेति आचार्यादिभिरनुज्ञातो जलयात्रार्थं पूजनसंभारानेकीकृत्य रौप्यमयान् वा ताम्रमयान् वा षोडश कलशान् तत्परिमितानि कौशेयवस्त्राणि नालीकेराणि पुष्पमालादींश्चादाय “ आनोभद्राः, आशुः शिशानो ” इत्यादि शान्तिसूक्तं पठद्भिराचार्यादिसमस्तर्विग्भिः परिवृतः स्वकीयपुत्रपौत्रज्ञातिपरिवारजनसुवासिनीभिश्च संयुतो मङ्गलवाद्यघोषपुरःसरं जलाशयं गच्छेत् ॥ ततस्तत्र सपत्नीको यजमानो हस्तौ पादौ प्रक्षाल्य जलाशयस्य समीपस्थतीर पञ्चगव्येन ब्राह्मणद्वारा प्रोक्षयित्वाऽऽचार्यादिभिः परिवृतः पूर्वाभिमुख उदङ्मुखो वा उपविशेत् ॥ ततः आचार्यो यजमानस्य समीपे तण्डुलैर्यवैर्वा नवकलशानां स्थापनार्थं नवकोष्टात्मकं मण्डलं विरच्य तथैव तन्मण्डलस्य दक्षिणपश्चिमोत्तरदिक्ष्वपि एकैककलशस्थापनार्थम् एकैकं धान्यपुञ्जं कृत्वा तन्मडलस्येशानाग्नेयनैरृत्यवायव्यकोणेष्वपि प्रतिकोणमेकैककलशस्थापनार्थ चतुरो धान्यपुञ्जान्विधाय तदुत्तरे श्वेतं वस्त्रं प्रसार्य यवैस्तण्डुलैर्वा बृहच्चतुरस्रं मण्डलं विधाय तस्य मध्ये जलमातॄकाणां स्थापनार्थं दक्षिणत आरभ्योदक्संस्थान् सप्त पुञ्जान्कृत्वा तत्पूर्वेऽपि तथैव जीवमातॄकाणां स्थापनार्थं सप्तपुञ्जान्कृत्वा तथैव तत्पूर्वेऽपि स्थलमातॄकाणामपि स्थापनार्थं सप्त पुञ्जान्कृत्वा तदुपरि च सप्तसागराणां स्थापनार्थमप्येकं पुञ्जं सप्त वा पुञ्जान् विदध्यात् ॥
ततः सपत्नीको यजमनः आचमनः प्राण्यामत्रयञ्च कुर्यात् ॥ तत आचार्यो यजमानस्य भाले तिलकं कृत्वा शान्तिसूक्तं पठेत् ॥ ततः ॐ श्रीमन्म० इत्यारभ्य विष्णुर्विष्णुर्विष्णुः इत्यन्तं पठित्वा अत्राद्येति देशकालौ सङ्कीर्त्य प्रारब्धस्य सग्रहमख गायत्रीउरश्चरणकर्मणोऽङ्गतया करिष्यमाणेऽस्मिञ्जलयात्राकर्मणि निर्विघ्नार्थं चतुर्द्दिक्षु रक्षाबन्धनपूर्वक्म गणपतिपूजनं ( स्मरणं वा ) करिष्ये ॥ इति सङ्कल्पं विधाय ॥ वामहस्ते सर्षपान्गृहीत्वा दक्षाक्रेणाच्छाद्य  पठेत् ॥ ॐ इन्द्रघोषस्त्वाव्वसुभिx पुरस्तात्त्पातुप्प्रचेतास्त्वारुद्द्रैx पश्च्चात्त्पातुमनोजवास्त्वापितृभिर्द्दक्षिणतx पातुव्विश्श्वकर्म्मात्त्वादित्त्यैरुत्तरतx पात्त्विदमहंन्तप्प्तं व्वार्ब्बहिर्द्धायज्ञान्नि सृजामि ॥११/५॥ इति सर्षपान् चतुर्दिक्षु विकीर्य यथाशक्ति गणपतिपूजनं कुर्यात् ॥ एवं गणपतिपूजनं विधाय भूमिपूजनं कुर्यात् ॥

N/A

References : N/A
Last Updated : December 13, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP