संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
अथ कर्मारम्भप्रतिबन्धकनिमित्तनिर्णयः

अथ कर्मारम्भप्रतिबन्धकनिमित्तनिर्णयः

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


“ सूनोर्मातरि गर्भिण्यां चूडाकर्म न कारयेत् ॥ पञ्चाब्दात्प्रागथोर्द्ध्वं तु गर्भिण्यामपि कारयेत् ॥ सहोपनीत्या कुर्याच्चेत्तदा दोषो न विद्यते ॥ ” पुत्रस्य मातरि गर्भिण्यां पञ्चाब्दात् प्राक् चूडाकर्म कारयेदूर्द्ध्वं तु न कारयेदित्येवार्थः ॥ तथा कैश्चिदुदाहृतस्य - “ सूनोर्मातरि गर्भिण्यां मौञ्जीचूडे न कारयेत् ॥ ” इति वचनस्य समूलत्वेऽपि सहितयोर्मौञ्जीचूडाकर्मणोर्न निषेधः कित्नु प्रत्येकं निषेधः ॥ प्रकारान्तरेण वशिष्ठोऽपि निषेधं वक्ति ॥ “ गर्भे मातुः कुमारस्य न कुर्याच्चौलकर्म च ॥ पञ्चमासादधः कुर्यादत ऊर्द्ध्वं न कारयेत् ॥ ” आपञ्चमासं कार्यमित्यर्थः । कात्यायनस्तु ॥ “ कुले ऋतुत्रयादर्वाङ् मण्डनान्न तु मुण्डनम् ॥ प्रवेशान्निर्गमो नेष्टो न कुर्यान्मङ्गलत्रयम् ॥ ” ऋतुत्रयशब्देन षण्मासा बोध्याः ॥ कुलशब्देन पुरुषत्रयपर्यन्तं स्वगोत्रिणः प्रतिकूलं ज्ञेयम् ॥ अत्र प्रवेशनिर्गमशब्दयोरर्थं कात्यायनः स्वयमेव कथयति ॥ “ पुत्रोद्वाहः प्रवेशाख्यः कन्योद्वाहस्तु निर्गमः ॥ मुण्डनं चौलमित्युक्तं व्रतोद्वाहौ तु मण्डनम् ॥ ” अयं निष्कर्षः ॥ एकस्य पुत्रस्य पूर्वं निर्वृत्तस्य मौञ्जीविवाहोभयान्ततरवाचकमण्डनकर्मणो द्वितीयस्य चूडाकर्मरूपं मुण्डनाख्यं ( चौलं ) कर्म षण्मासाभ्यन्तरे न विधेयम् । तथैव पुत्रोद्वाहनरूपं प्रवेशाख्यं कर्म कृत्वा पुत्र्युद्वाहरूपं निर्गमाख्यं कर्मापि षण्मासाभ्यन्तरे न विधेयम् ॥ तथैव विवाहमौञ्जीचूडाकर्मरूपमङ्गलत्रयमपि न कर्तव्यम् ॥ परञ्च ॥ “ मौञ्जी चोभयतः कार्या यतो मौञ्जी न मुण्डनम् । अभिन्नवत्सरेऽपि स्यात्तदहस्तत्र भेदयेत् ॥ अभेदे तु विनाशः स्यान्न कुर्यादेकमण्डपे ॥ ” वर्षभेदं विनापि दिवसभेदेनोभयतश्चौलात् प्रागूर्द्ध्वं मौञ्जीकर्मणो न दोषः ॥ “ भ्रातृयुगे स्वसृयुगे भ्रातृस्वसृयुगे तथा ॥ एकस्मिन्मण्डपे चैव न कुर्यान्मण्डनद्वयम् ॥ ” एतद्वचनमेकोदरप्रसूतविषयमित्यवगम्यते ॥ अथ विवाहादिशुभकर्मारंभदिवसे तदूर्द्ध्वं वा कर्मकर्तुः स्त्रियो रजोदर्शने सन्निहितमुहूर्तान्तरालाभे श्रीशान्तिं विधाय चौलादि सव विधेयम् ॥ तत्कारिकानिबन्धे स्पष्टीकृतम् ॥ यथा - “ सूतिकोदक्ययोः शुद्ध्यै गां दद्याद्धोमपूर्वकम् ॥ प्राप्ते कर्मणि शुद्धा स्यादितरस्मिन्न शुद्ध्यति ॥ तथैव अलाभे सुमुहूर्तस्य रजोदोषे ह्युपस्थिते । श्रियं संपूज्य तत् कुर्यात् वृत्रहत्याभयंकरीम् ॥ हैमीं माषमितां पद्मां श्रीसूक्तविधिनाऽर्चयेत् ॥ प्रत्यर्चं पायसं हुत्वाऽभिषिच्य शुभमाचरेत् ॥ ” इत्यादिवचनैः सूतिकोदक्ययोरपि शुद्धिः कथिता ॥ उदक्याशब्देन रजस्वला बोध्या । परञ्च सन्निहितमुहूर्तान्तरालाभे एव पूर्वोक्ता व्यवस्थेति बोध्यम् ॥ तथैव ॥ केचन भाविप्रतिबन्धकानां निवृत्त्यर्थं नान्दीश्राद्धम् अपकृष्य कुर्वन्ति परञ्च तस्यापि प्रयोगरत्नेऽवधिः कथितः ॥ “ एकविंशत्यहर्यज्ञे विवाहे दश वासराः । त्रिषट् चौलोपनयने नान्दीश्राद्धं विधीयते ॥ ” तथा च पारिजाते - सन्निहितमुहूर्तान्तरालाभे विवाहार्थमुपयोगिसामग्र्यां कृतायाञ्च सूतकिनोऽपि विष्णुनाऽधिकारार्थमुक्तम् ॥ “ अनारब्धविशुद्धर्थं कूष्माण्डैर्जुहुयाद्‍ घृतम् । गां दद्यात्पञ्चगव्याशी ततः शुद्ध्यति सूतकी ॥१॥
संकटे समनुप्राप्ते सूतके समुपस्थिते । कूष्माण्डीभिर्घृतं हुत्वा गाश्च दद्यात्पयस्विनीः ॥२॥
चूडोपनयनोद्वाहप्रतिष्ठादिकमाचरेत् ॥ यदैव सूतकप्राप्तिस्तदैवाभ्युदयक्रिया ॥३॥ ”
एवं संकटप्राप्तौ शुर्द्धि विधाय विवाहादौ सङ्कल्पितान्नभोजने‍ऽपि न दोषः ॥ तथैव कन्याया विवाहात्प्राग्‍ रजोदर्शने जाते तस्या विवाहयोग्यतासंपादनार्थमुपायमाहाश्वलायनः ॥ “ पिता ऋतून्स्वपुत्र्यास्तु गणयेदादितः सुधीः ॥ दानावधिं गृहे यत्नात् पालयेच्च रजोवतीम् ॥ दद्यात्तदृतुसंख्या गाः शक्तः कन्यापिता यदि । दातव्यैकाऽपि यत्नेन दाने तस्या यथाविधि ॥ दद्याद्वा ब्राह्मणेष्वन्नमतिनिः स्वः सदक्षिणम् ॥ तस्यातीतर्तुसङ्ख्येषु वराय प्रतिपादयेत् ॥ उपोष्य त्रिदिनं कन्या रात्रौ पीत्वा गवां पयः । अदृष्टरजसे दद्यात् कन्यायै रत्नभूषणम् ॥ तामुद्वहन्वरश्चापि कूष्माण्डैर्जुहुयाद् द्विजः ॥ ” इत्यादिवचनैः स्पष्टतया विवाहात्प्राग् दृष्टरजस्कायाः स्वकन्याया विवाहे शुद्ध्यर्थ तस्याः पिता शक्तश्चेदादित आविवाहं यावदृतुसंख्याः तावतीः पयस्विनीर्गाः दद्यात् । तावन्गोमूल्यं वा । अशक्तोऽपि यथाशक्त्येकां गां गोमूल्यं वा दद्यात् ॥ परञ्च तस्याः पिता अतिनिःस्वश्चेत् स्वकन्याया ऋतुसंख्येषु ब्राह्मणेषु सदक्षिणम् अन्नं दत्त्वा पश्चात्विवाहं कुर्यात् ॥ तथैव दृष्टरजस्कायाः स्वकन्यायाः शुद्ध्यर्थं स्वां कन्यां विवाहात्प्राक् दिनत्रयम् उपवासं कारयित्वा उपवासान्ते च गव्यं पयः पाययित्वा अदृष्टरजस्कायै कन्यायै ( कुमार्यै ) यथाविभवं वस्त्राभूषणादिकञ्च कन्याहस्तेन दापयित्वा स्वकन्याया विवाहयोग्यता पितुर्भवति कन्यायाश्च ॥ तथैव वरेणापि स्वस्य वृषलीपतित्वादिदोषनिवृत्त्यर्थं कूष्माण्डीभिर्मन्त्रैराज्येन होमं विधाय तया सह विवाहः कार्यः ॥ यज्ञपार्श्वे तु यदा विवाहासंबन्धिहोमकर्मणि प्रवृत्ते तदैव कदाचित् तस्या रजोदर्शने जाते - “ विवाहवितते तन्त्रे होमकाल उपस्थिते । कन्यामृतुमतीं दृष्ट्वा कथं कुर्वन्ति याज्ञिकाः । स्नापयित्वा तु तां कन्यामर्चयित्वा यथाविधि ॥ युंजानमाहुतिं हुत्वा ततस्तन्त्रं प्रवर्तयेत् ॥ ” “ अन्यच्च - पत्युद्वाहो नैव कार्यो नैकस्मै दुहितृद्वयम् ॥ नचैकजन्ययोः पुंसोर्ह्येकजन्ये च कन्यके ॥ नैवं कदाचिदुद्वाहो प्रदद्यात्तु कदाचन ॥ ” प्रत्युद्वाहशब्देन यस्य पुत्राय स्वकन्या दत्ता तस्य कन्यया सह स्वपुत्रस्योद्वाहः प्रत्युद्वाहो ज्ञेयः ॥ तथैव पारिजाते स्मृत्यन्तरे च । “ एकोदरीकरतलग्रहणं यदि स्यादेकोदरस्थवरयोर्जलनाशनञ्च । एकाद्बके तु विधवा नितरां तु कन्या नद्यन्तरेऽपि शुभदं पृथुशैलरोधे ॥ ” तथैव पारिजाते गार्ग्यः ॥ “ विवाहस्त्वेकजन्यानामेकास्मिन्नुदये जले । नाशं करोत्येकवर्षे स्यादेका विधवा तयोः ॥ तथैव । एकमातृजयोरकेवत्सरे पुरुषस्त्रियोः । न समानक्रियां कुर्यान्मातृभेदे विधीयते ॥ ” एतेन त्वेकास्मिन्दिवसे वत्सरे चैकस्मिन्गृहेऽपि भिन्नोदरमातृजयोः कर्त्रभेदेन नोद्वाहप्रतिषेधः ॥ परञ्च “ ऋतुत्रयस्य मध्ये चेदन्याद्बस्य प्रवेशनम् ॥ तदा ह्येकोदरस्यापि विवाहस्तु प्रशस्यते ॥ ” स्वपुत्र्याः विवाहानन्तरमृतुत्रयस्य मध्येऽन्याब्दस्य प्रवेशने तु स्वपुत्रस्य स्वपुत्र्या वा विवाहे न कश्चिच्छास्त्रोक्तिबाधः ॥ मदनरत्ने विशेषः ॥ “ मातृयज्ञक्रियापूर्वं ज्येष्ठं कृत्वा तु मङ्गलम् ॥ ऋतुत्रयं पुनर्यावन्न कुर्याल्लघुमङ्गलम् ॥ इति नारदस्य वचनसामर्थ्याज्ज्येष्ठमङ्गलानन्तरं विवाहभिन्नं भिन्नैकमातृकयोरपि यज्ञोपवीतादि लघुमङ्गलम् ऋतुत्रयस्य मध्ये न कुर्यादिति विशेषोक्तिः । परञ्च ऋतुत्रयस्य मध्ये चेदिति पूर्वोक्तवचनादेकोदरप्रसूतस्यापि ऋतुत्रयस्य मध्येऽब्दभेदे नोद्वाहस्य निषेध इत्यप्यवगम्यते । परञ्च तस्मिन्नेव श्लोके ‘ विवाहस्तु प्रशस्यते ’ इति चतुर्थपदस्य मध्ये तुशब्दोपादानाद्विवाहभिन्नमेकोदर प्रसूतस्य मङ्गलद्वयमब्दभेदेऽपि न भवतीति रुद्रकल्पद्रुमकाराः ॥ तत्रैव मिहिरस्तु - “ पुत्रीपयनादूर्द्ध्वं षण्मासाभ्यन्तरे तथा ॥ पुत्र्युद्वाहनं कुर्वीत विवाहाद्व्रतबन्धनम् ॥ ” अयं मिहिराचार्यस्य श्लोकोऽपि पूर्वोक्तस्य “ कुले ऋतुत्रयादर्वागि ”ति कात्यायनस्य श्लोकभावार्थेन सह सुसम्बद्ध एवेति दृश्यते ॥ मोञ्जीकर्मणस्तूभयतो न दोष इत्यपि ध्वन्यते ॥ ननु “ एकमातृकयोरेकवत्सरे० ” इत्यादिपूर्वोक्तवचनेनैकोदरप्रसूतानां समानक्रियाया एकवत्सरे षण्मासाभ्यन्तरे च निषेधस्य सत्त्वेऽपि तथैव ऋतुत्रयस्य मध्येऽन्याब्दस्य प्रवेशे प्रतिप्रसवेऽपि “ उद्वाह्य पुत्रीं न पिता विदध्यात्पुत्र्यन्तरस्योद्वहनं हि जातु ॥ यावच्चतुर्थीदिनमत्र सर्वं समाप्य चान्योद्वहनं विदध्यात् ” ॥ इति कपर्द्दिकारिकावचनं तथैव “ पुत्रीपरिणयादूर्द्ध्वं यावद्दिनचतुष्टयम् ॥ पुत्र्यन्तरस्य कुर्वीत नोद्वाह इति सूरयः ” इति वराहमिहिरस्य वचनञ्चैकवत्सरे षण्मासाभ्यन्तरेऽन्याब्दस्याप्रवेशनेऽपि पुत्र्युद्वाहानन्तरं व्यतीतेषु चतुर्षु दिनेषु द्वितीयपुत्र्या उद्वाहे न दोष इत्येतदर्थमेवेति चेन्न । “ विवाहस्त्वेकजातानां षण्मासाभ्यन्तरे यदि ॥ असंशयं त्रिभिर्वषैंस्तत्रैका विधवा भवेत् ॥ ” इति वराहमिहिरस्यैव ‘ षण्मासाभ्यन्तरे ’ इतिबलवत्तरनिषेधस्य जागरूकत्वात् तथैव पूर्वोक्तवचनानां वैयर्थ्यापत्तेश्च ॥ परश्च समानोदरस्य षण्मासाभ्यन्तरे स्वस्यैव निषेधवचनस्य सत्त्वेऽपि “ उद्वाह्य पुत्रीम्० ” इति कपर्द्दिकारिकाश्लोकस्य तथैव “ पुत्रीपरिणयादूर्द्ध्वम्० ” इति वराहमिहिरश्लोकस्य पुनरुच्चारणं षण्मासाभ्यन्तरेऽन्याब्दस्याप्रवेशेऽ प्यतिसङ्कटे चतुर्षु दिनेषु व्यतीतेषु पुत्र्युद्वाहनानन्तरं द्वितीयपुत्र्या उद्वाहप्रतिप्रसवार्थ मेवेति ज्ञायते ॥ अन्यथोभयोर्वचनयोर्वैयर्थापत्तेः ॥ अतिसङ्कटे समानोदरस्य कर्तृभेदेन मण्डपादिभेदेनाऽऽचार्यभेदेन च विवाहः प्रतिपादित एव ॥ यमलयोस्तु - “ एकस्मिन्वत्सरे चैकवासरे मण्डपे तथा ॥ कर्तव्यं मङ्गलं स्वस्रोर्भ्रात्रोर्यमलजातयोः ॥ तथैव । द्विशोभनं त्वेकगृहेऽपि नेष्टं शुभं तु पश्चान्नवभिर्दिनैस्तु ॥ आवश्यकं शोभनमुत्सुको वा द्वारेऽथ वाऽऽचार्यविभेदतो वा ॥ ” इति पूर्वोक्तानि नारदवशिष्ठादीनां वचनप्रमाणान्यालोच्य यथावकाशं देशकालाद्यानुसारं तत्र तत्र कार्यं न समग्रं शास्त्रसम्मतं कर्तुं कोऽपि समर्थ इत्येवास्माकं प्रतिभाति ॥ वरस्य कन्यायाश्चोभयोः कुले कस्य चिन्मृतिश्चेत् तत्र किं विधेयमित्यत्र मेधातिथिराह । “ वाग्दानानन्तरं यत्र कुलयोः कस्यचिन्मृतिः ॥ तदा संवत्सरादूर्द्ध्वं विवाहः शुभदो भवेत् ॥ पुरुषत्रयपर्यन्तं प्रतिकूलं स्वगोत्रिणाम् ॥ प्रवेशान्निर्गमस्तद्वत्तथा मण्डनमुण्डने ॥ प्रेतकर्माण्यनिर्वर्त्य चरेन्नाभ्युदयक्रियाम् ॥ आचतुर्थं ततः पुंसि पञ्चमे शुभदं भवेत् ॥ ” तथैव स्मृतिरत्नावल्याम् - “ पितुरब्दमिहाशौचं तदर्द्धं मातुरेव च ॥ मासत्रयं तु भार्यायास्तदर्द्धं भ्रातृपुत्रयोः ॥ अन्येषां तु सपिण्डानामाशौचं माससम्मितम् ॥ तदन्ते शान्तिकं कृत्वा ततो लग्नं विधीयते ॥ ” ज्योतिःशास्त्रे तु । “ प्रतिकूलेऽपि कर्तव्यो विवाहो मासमन्तरा ॥ शान्तिं विधाय गां दत्वा वाग्दानादि चरेद्बुधः ॥ ” स्मृत्यन्तरे । “ प्रतिकूले न कर्तव्यं लग्नं यावदृतुत्रयम् ॥ प्रतिकूलेऽपि कर्तव्यं केऽ‍प्याहुर्बहुसंप्लवे ॥ प्रतिकूले सपिण्डस्य मासमेकं विवर्जयेत् ॥ विवाहस्तु ततः पश्चात्तयोरेव विधीयते ॥ तथैव । दुर्भिक्षे राष्ट्रभङ्गे च पित्रोर्वा प्राणसङ्कटे ॥ प्रौढायामपि कन्यायां नानुकूल प्रतीक्ष्यते ॥ दीर्घरोगाभिभूतस्य दूरदेशस्थितस्य च । उदासीनस्थितस्यापि प्रातिकूल्यं न विद्यते ॥ सङ्कटे समनुप्राप्ते याज्ञवल्क्येन योगिना ॥ शान्तिरुक्ता गणेशस्य कृत्वा तां शुभमाचरेत् ॥ अकृत्वा शान्तिकं यस्तु निषिद्धे सति दारुणे ॥ प्रकरोति शुभं कर्म विघ्नस्तस्य पदे पदे ॥ ” अपि च । “ प्रतिकूले तु संप्राप्ते विवाहं नैव कारयेत् ॥ अन्ते दोषविनाशाय कुर्याच्छान्तिमिमां शुभाम् ॥ ” स्मृतिचन्द्रिकायाम् । “ कृते वाड्निश्चये पश्चान्मृत्युर्मर्त्यस्य गोत्रिणः ॥ तदा न मङ्गलं कार्यं नारीवैधव्यदं ध्रुवम् ॥ वाग्दानानन्तरं यत्र कुलयोः कस्यचिन्मृतिः ॥ तदोद्वाहो नैव कार्यः स्ववंशक्षयदोषतः ॥ ” पूर्वोक्तविवाहादिशुभकर्मप्रतिकूलप्रदर्शकश्लोकानां समीचीना रुद्रकल्पद्रुमकारैर्व्याख्या कृता परञ्च तस्या अतिविस्तृतत्वान्नात्र सर्वोद्धर्तुं शक्यते ॥ परञ्च विवाहादिशुभकर्मणः प्रारम्भे वाङ्निश्चये च जाते यदोभयोः कुलयोर्मध्ये कस्यचिन्मृतिरूपं प्रातिकूल्यं भाग्यवशाज्ज्तञ्चेदथवा दुर्भिक्षादिप्रातिकूल्ये प्राप्ते सर्वतः प्रतिकूलस्य समीक्षां कृत्वा प्रातिकूल्योत्पादककर्मणां यथाशक्ति तत्तत्कर्मणि शास्त्रोक्तं कर्म निर्वर्त्य शास्त्रसम्मतं देशकालसम्पतञ्चाचरेत् ॥ एवं प्रतिबन्धकनिर्णयविधायकशास्त्राणामालोचनेनास्माकं शास्त्रव्यवहारः सर्वथा लोकप्रकृतिप्रवृत्तिपर्यालोचनपुरःसरः सरतो बन्धनरूपोऽपि निर्बन्धः कुत्र कुत्र च सङ्कुचिततत्त्वसमृद्धोऽपि अबाधितराजमार्ग इव विस्तृतः प्रतिभाति ॥ तथैव च स्मृत्याद्यनेकधर्मनिर्णायकग्रन्थेषु सम्यङ्निर्णीतोऽपि दरीदृश्यते ॥
॥ इति कर्मारम्भप्रतिबन्धकनिर्णयसंग्रहः समाप्तः ॥

N/A

References : N/A
Last Updated : December 13, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP