संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
अथ गायत्रीपुरश्चरणमुहूर्तादिकम्

अथ गायत्रीपुरश्चरणमुहूर्तादिकम्

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम् ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


॥ अथ गायत्रीपुरश्चरणार्थं मुहूर्तादिकं पुण्यस्थळं पुरश्चरणभेदाश्च कथ्यन्ते ॥ अत्र मासादयो निषेधद्वारा उक्ता इति दृश्यन्ते ॥ यथा ॥ ज्येष्ठाषाढौ भाद्रपदं पौषं तु मलमासकम् ॥ गुरुभार्गवमौढ्यादि वर्जयेच्च प्रयत्नतः ॥१॥
अङ्गारकशनिवारौ व्यतौपातञ्च वैधृतिम् ॥ अष्टमीं नवमीं षष्ठीं चतुर्थीं च त्रयोदशीम् ॥२॥
चतुर्दशीममावास्यां प्रदोषञ्च तथा निशाम् ॥ यमाग्निरुद्रसार्पेन्द्रवसुश्रवणजन्मभम् ॥३॥
मेषकर्कतुलाकुम्भमकरालिकलग्नकम् ॥ सर्वाण्येतानि वर्ज्यानि पुरश्चरणकर्माणि ॥४॥
पुनस्तत्र पुरश्चरनकालोऽपि प्रदर्शितः ॥ चन्द्रतारानुकूले च शुक्लपक्षे विशेषतः ॥ पुरश्चरणकं कुर्यान्मन्त्रसिद्धिः प्रजायते ॥५॥
पर्वताग्रे नदीतीरे बिल्वमूले जलाशये । गोष्ठे देवालयेऽश्वत्थ उद्याने तुलसीवने ॥१॥
पुण्यक्षेत्रे गुरोः पार्श्वे चित्तैकाग्रस्थलेऽपि च । पुरश्चरणकृन्मन्त्री सिद्ध्यते च न संशयः ॥२॥
काशीपुरी च केदारो महाकालोऽथ नाशिकम् । त्र्यंबकञ्च महाक्षेत्रं पञ्च द्वीपा इमे भुवि ॥३॥
एवं त्रिभिः श्लोकैः गायत्रीपुरश्चरणोपयोगि पुण्यस्थलं वसिष्ठसंहितायां निर्दिष्टम् ॥ तथापि “ चित्तैकाग्रस्थलेऽपि ” इति वसिष्ठसंहितायां वदता महर्षिणा दर्शितानां काश्यादिपवित्रस्थलानां सत्वेऽपि कर्तुः स्वस्य चित्तैकाग्रतायां गृहमपि पवित्रस्थलं स्पष्टतयाऽभिहितम् ॥ एवं कालस्य पुण्यक्षेत्रस्य च निर्णयं कृत्वा जपाधिकारार्थं पूर्वोत्तराङ्गं प्रायश्चित्तं विधाय स्वस्य चन्द्रतारानुकूले शुभे मासे शुक्लपक्षे जपारंभं स्वयं ब्राह्मणद्वारा वा कुर्यादित्यर्थः ॥

N/A

References : N/A
Last Updated : December 13, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP