संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
अथोत्तराङ्गप्रायचित्तम्

अथोत्तराङ्गप्रायचित्तम्

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


ततः प्रायश्चित्ती आचमनं प्राणायामञ्च कृत्वा उत्तराङ्गप्रायश्चित्तं कुर्यात् ॥ हस्ते जलं गृहीत्वा देशकालौ संकीत्य मम करिष्यमाणगायत्रीपुरश्चरणकर्मण्यधिकारार्थं प्रारब्धस्यामुकप्रायश्चित्तस्य उत्तराङ्गानि करिष्ये ॥ इति संकल्पं विधाय पूर्ववत् यथाशक्ति विष्णुपूजनं तर्पणं विष्णुश्राद्धं च कृत्वा अह्स्ते जलं गृहीत्वा प्रायश्चित्तस्य उत्तराङ्गतया विहितं गोदानं करिष्ये इति संकल्पं कृत्वा गोनिष्क्रयद्रव्यं गृहीत्वा । देशकालौ संकीर्त्य इदं गोदानप्रत्याम्नायभूतं रजतद्रव्यम् अमुकशर्मणे ब्राह्मणाय तुभ्यमहं संप्रददे, इत्युक्त्वा ब्राह्मणाय दद्यात् ॥ ततो द्वितीये स्थण्डिले पञ्चभूसंस्कारपूर्वकमग्निं प्रतिष्ठाप्य ब्रह्मवरणाद्याज्यभागान्तं कृत्वा व्यस्तसमस्तव्याहृत्या आज्येन जुहुयात् ॥ ॐ भूः स्वाहा इदमग्नये न मम ॥ ॐ भुवः स्वाहा इदं वायवे न मम ॥ ॐ स्वः स्वाहा इदं सूर्याय न मम ॥ ॐ भूर्भुवः स्वः स्वाहा इदं प्रजापतये न मम ॥ इति व्यस्तसमस्तव्याहृत्याऽष्टाविंशतिवारम् आज्यं हुत्वा ततो भूराद्या नवाहुतीर्जुहुयात् ॥ यथासव्यकरे उपयमनकुशानादाय ब्रह्मणाऽन्वारब्धो दक्षिणं जान्वाच्य जुहुयात् ॥ ॐ भूः स्वाहा इदमग्नये न मम ॥ ॐभुवः स्वाहा इदं वायवे न मम ॥ ॐस्वः स्वाहा इदं सूर्याय न मम ॥ ॐ त्वन्नोऽअग्ने व्वरुणस्य० ॥३/२१॥ स्वाहा इदमग्नीवरुणाभ्यां न मम ॥४॥
ॐ सत्त्वन्नोऽअग्नेव्वमो० ॥४/२१॥ स्वाहा इदमग्नीवरुणाभ्यां न मम ॥५॥
ॐ अयाश्चाग्ने० ॥ स्वाहा इदमग्नये अयसे न मम ॥६॥
ॐ ये ते शतं वरुण० ॥ स्वाहा इदं वरुणाय सवित्रे विष्णवे विश्वेभ्यो देवेभ्यो मरुद्भ्यः स्वर्केभ्यश्च न मम ॥७॥
ॐ उदुत्तमं० ॥१२॥१२॥
स्वाहा इदं वरुआण्यादित्यायादितये च न मम ॥८॥
ॐ प्रजापतये स्वाहा इदं प्रजापतये न मम ॥९॥
अग्नये स्विष्टकृते स्वाहा इदमग्नये स्विष्टकृते न मम ॥ संस्रवप्राशनम् ॥ कुशपवित्राभ्यां मार्जनम् ॥ अग्नौ पवित्रप्रतिपत्तिः ॥ ब्रह्मणे पूर्णपात्रदानम् ॥ हस्ते प्रणितोदकं ग्रुहीत्वा ॥ मया कृतस्योत्तराङ्गप्राय्श्चित्तकर्मणः सांगतासिद्ध्यर्थ इदं पूर्णपात्रं ब्रह्मणे तुभ्यमहं संप्रददे न मम ॥ इति ब्रह्मणे पूर्णपात्रं दक्षिणां वा दत्वा अग्नेः पश्चात् प्रणीताविमोकः । तेनोदकेन यजमानस्य शिरसि “ आपः शिवाः शिवतमाः शान्ताः शान्ततमास्तास्ते कृण्वन्तु भेषजम् ” इत्यभिषेकं कुर्यात् ॥ ततो भोजनसङ्कल्पः । हस्ते जलं गृहीत्वा मयाऽऽचरितस्य पूर्वोत्तराङ्गप्रायश्चित्तकर्मणः साङ्गतासिद्ध्यर्थं यथासङ्ख्याकान्ब्राह्मणान्भोजयिष्ये तेन कर्माधीशः प्रीयतां न मम ॥ ( रुद्रकल्पद्रुमकारैस्तूत्तराङ्गप्रायश्चित्ते पञ्चगव्यस्य होमो नोक्तः ॥ ) ततो गोभूतिलहिरण्याज्यं वासो धान्यं गुडानि च ॥ रौप्यं लवणमित्याहुर्दश दानानि पण्डिताः ॥ इति प्रायश्चित्तिना यथाशक्ति अत्रावसरे दश दानानि देयानि ॥ पृथक् पृथक् दानाशक्तौ यथाशक्ति तत्तन्मूल्यं गृहीत्वा देशकालौ संकीर्त्य दशदानप्रतिष्ठासिद्ध्यर्थम् इदं यथाशक्ति तन्मूल्यं ब्राह्मणाय विष्णुरूपाय तुभ्यमहं संप्रददे ॥ इति दद्यात् ॥ ततः करसंपुटौ कृत्वा ब्राह्मणप्रार्थनां कुर्यात् ॥ मंत्रहीनं क्रियाहीनं भक्तिहीनं च यत्कृतम् ॥ भवत्प्रसादात्तत्सर्वमच्छिद्रं पूर्णमस्तु मे ॥ एवं प्रार्थनां विधाय ब्राह्मणान्वदेत् ॥ “ भो विप्राः ! करिष्यमाणगायत्रीपुरश्चरणकर्मण्यधिकारार्थं पूर्वोत्तराङ्गसहितं मया यत् प्रायश्चित्तं कृतं तत् अच्छिद्रमस्तु ॥ ” “ अच्छिद्रमस्त्वि”ति विप्राः प्रतिवचनं दद्युः ॥ तद्यथा । व्रतच्छिद्रं तपश्छिद्रं यच्छिद्रं यज्ञकर्मणि ॥ सर्वं भवतु तेऽच्छिद्रं यस्य चेच्छन्ति वै द्विजाः ॥ पुनः प्रायश्चित्ती करसंपुटौ कृत्वा विष्णुं प्रार्थयेत् ॥ यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु ॥ न्यूनं संपूर्णतां याति सद्यो वन्दे तमच्युतम् ॥ इति विष्णुं नत्वा अग्नेर्विसर्जनं मूर्तौ सत्यां विष्णोश्च विसर्जनं विधाय वृतानां ब्राह्मणानां यथाशक्ति पूजनं कृत्वा तेभ्यो दक्षिणां दद्यात् ॥ स्त्रीशूद्राणां तु पञ्चगव्यप्राशने विकल्पः ॥

N/A

References : N/A
Last Updated : December 13, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP