संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
अथ गायत्रीपुरश्चरणभेदा होमद्रव्याणि च

अथ गायत्रीपुरश्चरणभेदा होमद्रव्याणि च

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


त्र्यष्टचतुर्विंशतिलक्षात्मकत्वेन गायत्रीमंत्रस्य पुरश्चरणे त्रयो भेदा दृश्यन्ते ॥ यथाआत्मत्वशोधनार्थाय लक्षत्रयं जपेद्बुधः ॥ अथवाऽप्यष्टलक्षं तु श्रुतिनोक्तेन पूर्वकम् ॥१॥
तथैव पारिजातोदाहृते ऋग्विधाने लक्षत्रयात्मकं पुरश्चरणमभिहितम् ॥ अथ वेदादिगीतायाः प्रसादजनकं विधिम् ॥ गायत्र्याः संप्रवक्ष्यामि धर्मकामार्थमोक्षदम् ॥१॥
मध्याह्ने मितभुड् मौनी त्रिःसुस्नानार्थतत्परः ॥ जपेल्लक्षत्रयं धीमान्परं सायुज्यमाप्नुयात् ॥२॥
तन्त्रान्तरे द्वात्रिंशल्लक्षात्मकं गायत्रीपुरश्चरणमतीवोत्तमोत्तममित्यभिहितम् ॥ यथाभूयस्त्वक्षरलक्षं गायत्रीं संयतात्मको जप्त्वा ॥ जुहुयात्पायसतिलघृतदूर्वाभिर्दुग्धचरुसमिद्भिरपि ॥१॥
एकैकं त्रिसहस्रं मन्त्री समभीष्टसिद्ध्ये मुक्त्यै ॥ अक्षरसहस्रसंख्यं मुख्यतरैः केवलैस्तिलैर्जुहुयात् ॥२॥
दुरितच्छेदनविषये दीर्घायुषे च विशदमतिः ॥ आयुष्कामो जुहुयात् पायसहविराज्यकेवलाज्यैश्च ॥३॥
दूर्वाभिः सतिलाभिः सर्वैस्त्रिसहस्रसंख्याकम् ॥ अथ त्रिमधुसहितैररुणैर्जुहुयात्सरोरुहैरयुतम् ॥४॥
नष्टश्रीरपि भूयो भवति मनोज्ञो मन्दिरं लक्ष्म्याः ॥ अन्नाद्यर्थं तैरपि पालाशैर्ब्रह्मवर्चसे जुहुयात् ॥५॥
’सर्वैरेतैर्जुहुयात्सर्वफलाप्त्यै द्विजेश्वरो मतिमान् ॥६॥
एवं प्रपञ्चसारोक्तविधिना कामनाभेदेन तत्तद्द्रव्यैर्होमो विधेयः । तथैव चतुर्विंशतिलक्षजपात्मके गायत्रीपुरश्चरणेऽ‍पि प्रपञ्चसारानुरोधिन्यां शिवरामकृतप्रकाशिकायामपि गव्यदुग्ध १ ओदन २ तिल ३ दूर्वा ४ अश्वत्थ ५ उदुम्बर ६ प्लक्ष ७ वट ८ समिधाख्याष्टद्रव्येण प्रतिद्रव्यं त्रिसहस्रं होममुक्त्वा चतुर्विंशतिसहस्रसंख्यात्मक एव होम उक्तः न तु जपदशांशको होमस्तर्पणादिकमपि ॥ तेनाष्टद्रव्यातिरिक्तकेवलतिलादिद्रव्यसाध्यहोमेऽप्येवमेवेति न भ्रमितव्यम् अष्टद्रव्यसाध्ये होमे विशिष्टशास्त्रार्थत्वात् ॥ अतस्तिलादिद्रव्यैः क्रियमाणे होमे तत्तद्दशांशविधिनैव होमतर्पणमार्जनब्राह्मणभोजनादिकं विधेयमिति सुधीभिर्ज्ञेयम् ॥
॥ इति गायत्रीपुरश्चरणमुहूर्तादिकं समाप्तम् ॥

N/A

References : N/A
Last Updated : December 13, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP