संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
निर्णयसंग्रहः

निर्णयसंग्रहः

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


कर्मारंभप्रतिबन्धकनिमित्तकानामनेकत्वेऽप्यावश्यकप्रतिबन्धकप्रतिप्रसवोक्ति सहितो रुद्रकल्पद्रुमाद्यनुसारी निर्णयसंग्रहः ॥

न धार्मिककृत्येषु मुहूर्तादीनामीक्षणस्यावश्यकता ॥ नानध्यायकृतप्रतिबन्धः ॥ न कर्मारब्धे सत्याशौचसंपातज्ञातेऽपि मध्ये तस्य त्यागः ॥ इत्यादिविषये प्रमाणान्युपलभ्यन्ते ॥ स्वेष्टं समीक्षमाणेन केनापि विबुधेन “ मनुष्यशरीरस्य अस्थिरत्वात् किञ्चित्कालानन्तरं किं भविष्यतीत्यादिज्ञानस्याज्ञानाच्च श्वः श्वः करिष्यामि ” इति उपासनायां धार्मिकेषु कृत्येषु च कालान्तरप्रतीक्षा न कदापि कर्तव्येति मनुष्यस्य मुख्यो धर्मः, मनुष्याणां श्वःसंबन्धिज्ञानाभावात् न कोऽपि तद्वेत्तीति ज्ञानाच्च ॥ एवमायुषोऽस्थिरत्वं जीवनसंबन्धिज्ञानाभावञ्चैवं विचार्य परशुरामेणाप्युक्तम् ॥ “ यदैव जायते वित्तं चित्तं श्रद्धासमन्वितम् ॥ तदैव पुण्यकालोऽयं यतोऽनियतजीवितम् ॥ ” अतः सर्वेषु जपहोमादिकेष्वन्यसर्वधर्मकृत्येषु च न मुहूर्तावलोकनापेक्षा न तत्कालावध्यवस्थानं शरीरस्येति स्वतो दर्शनात् ॥ परञ्च सति संभवे तु सर्वं कर्म मुहूर्तादिकं दृष्ट्वैव कर्तव्यम् ॥ यत्तु - “ अल्पं जपेदनध्याये पर्वण्यल्पतरं जपेत् ॥ वेदॉंश्चैव तथा रुद्रान्स्वाध्याये केवलं जपेत् ॥ ” तथैव - “ इन्दोर्वृद्धिक्षये प्राप्ते ब्रह्मयज्ञं न कारयेत् ॥ न जपेद्वैदिकं जाप्यं गायत्र्यष्टोत्तरं शतम् ॥ ” इत्यादिपरशुरामप्रभृतिशिष्टवचनान्यनध्यायदिवसान् वर्जयित्वा स्वाध्याये एव विशिष्टजपपूजापराणि । तथैवानध्यायदिवसे तु अल्पाल्पतरं जपं वेदानध्ययनञ्चानुष्ठेयमिति चेन्न ॥ “ दशोत्तरोत्तरगुणः प्रकाशोपांशुमानसः ॥ जपो वेदोपनिषदां य उक्तः सर्वपापहा ॥ अनध्यायेऽप्ययं कार्य इत्याह भगवान् मनुः ॥ ” तथैव मनोर्द्वितीयं वचनम् ॥ “ वेदोपकरणे चैव जपे चैव तु नित्यके ॥ नानुरोधोऽस्त्यनध्याये होममंत्रेषु चैव हि ॥ ” ( अत्र वेदोपकरनशब्देन प्रतिवार्षिकं क्रियमाणं उपाकर्म ज्ञेयम् ॥ ) इति पूर्वोक्ताङ्गिरसवचनप्रामाण्यान्नित्यक्रियमाणस्य सहस्रप्रभृत्यष्टोत्तरशतगायत्रीमंत्रजपस्य सर्वथाऽनध्यायदिवसेऽपि अनुष्ठेयदर्शनात् ॥ “ अनध्यायेऽप्ययं कार्यः । जपे चैव तु नित्यके ॥ ” इत्यादिपूर्वोक्तेश्च ॥ परञ्चानध्यायवाचकानामष्टम्यादीनां नानध्यायवाचकत्वं किन्तु आत्मनोप देशस्य च यत्र अशुचित्वं तदेव द्वावनध्यायौ सर्वैर्ज्ञेयौ ॥ अतः सर्वत्र स्मृत्युक्ताः परशुरामेणोदाहृतश्चान्येऽप्यनध्यायाः स्वाध्याय विषया एव बोद्ध्याः ॥ परञ्च येन केनापि कादाचित्कमनियमतः श्रीमहारुद्रप्रभृतिजपहोमादिकं क्रियते चेत्तेन न कदाप्यनध्यायदिवसे तस्य प्रारम्भः स्वाध्यायो वा कार्य इत्येव निष्कर्षः ॥ अतस्तदर्थमेव मुहूर्तादिविधायकशास्त्रैरनध्यायदिवसे शुभे मुहूर्ते इत्यादिकं मुहूर्तप्रकरणे कथ्यते ॥ अपि च यैर्नियमेन जपहोमदेवार्चनादिधार्मिकं कर्म प्रत्यहं क्रियते तेषां तु आशौचप्रवृत्तेः प्राक् देवार्चनाद्युपक्रमे तदसमाप्तेर्मध्येऽ‍पि आशौचेऽ न्यद्वारा ज्ञाते सति तत्तज्जपहोमदेवार्चनादिकं समाप्यैव आशौचनिमित्तं स्नानादिकं कर्तव्यम् न त्वाशौचसंपातदर्शनादसमाप्यैव जपहोमदेवार्चनादीनां त्यागो विधेयः ॥ तैस्तु आशौचादिज्ञातेऽपि आशौचमध्ये सर्वमासमाप्ति नियमेनानुष्ठीयमानं जप होमदेवार्चनादिकं विधेयमेव ॥ नात्र तेषामपवित्रता शास्त्रोक्तिविरोधश्च ॥ लघुविष्णुस्तु नित्यनैमित्तिकेषु जपविवाहयज्ञयागादिसर्वकर्मसु नाशौचसंपात इति कथयति ॥ यथा“ व्रतयज्ञविवाहेषु श्राद्धे होमेऽर्चने जपे ॥ आरब्धे सूतकं न स्यादनारब्धे तु सूतकम् ॥ प्रारंभो वरणं यज्ञे संकल्पो व्रतसत्रयोः ॥ नान्दीश्राद्धं विवाहादौ श्राद्धे पाकपरिक्रिया ॥ ” यज्ञे ब्राह्मणादीनामामधुपर्कान्तं पूजनं वरणशब्देन ज्ञेयम् ॥ यथा - गृहीतमधुपर्कस्य यजमानाच्च ऋत्विज्ञः ॥ इति ॥ तथैव - ऋत्विजां दीक्षितानाञ्च यज्ञियं कर्म कुर्वताम् इत्यादियाज्ञवल्क्योक्तेश्च ॥ अतस्तत्र तत्र प्रारब्धकर्मणः स्वीयाद्यापदार्थावधारणमेव प्रारंभशब्देन ग्रहणीयम् ॥ यथा - विवाहे कन्यापितुः कन्याप्रदानसङ्कल्पः प्रारंभः ॥ वरस्य तदूर्द्ध्वं पाणिग्रहणहोमादिकं कर्म प्रारंभः ॥ श्राद्धकर्तुः श्राद्धार्थं पाकस्य निष्पत्तिक्रियारंभ एव प्रारंभः ॥ तथैव श्राद्धभोक्तुः भोजनार्थं लब्धनिमंत्रणं प्रारंभः ॥ इति पूर्वोक्ता सर्वव्यवस्था कालतत्त्वविवेचनकारादिभिरेव कृतेति ज्ञेया ॥ परञ्च स्वकृतधर्मप्रकाशे शंकरादयस्तु यदा आशौचज्ञानात्पूर्वं पाकनिष्पत्तिकृतसङ्कल्पतानिमंत्रणानां त्रयाणां समुच्चये जाते सत्येव श्राद्धे आशौचाभाव एवेति कथयन्ति ॥ एकेनापि न्यूने श्राद्धे सत्याशौचज्ञाते न कदापि श्राद्धं कर्तव्यम् ॥ तत्र आशौचाभावप्रतिषेधप्रतिपादकतत्तत्स्मृतिवचनेषु पाकनिष्पात्तिप्रभृतिनिमंत्रणान्तानां त्रयाणामेव समुच्चयेनोपादानात् ॥

N/A

References : N/A
Last Updated : December 13, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP