संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
अथ श्रीगायत्रीपुरश्चरणपद्धतिप्रारंभः

अथ श्रीगायत्रीपुरश्चरणपद्धतिप्रारंभः

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम् ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


॥ श्रीगणेशाय नमः ॥ श्रीगुरुभ्यो नमः ॥ श्रीसरस्वत्यै नमः ॥
श्रीभद्रकाल्यै नमः ॥ श्रीकुलदेव्यै नमः ॥
॥ अथ श्रीगायत्रीपुरश्चरणपद्धतिर्लिख्यते ॥ तत्रादौ मंगलाचरणम् ॥
मुक्ताविद्रुमहेमनीलधवलच्छायैर्मुखैस्त्रीक्षणैर्युक्तामिन्दुनिबद्धरत्नमुकुटां तत्त्वार्थवर्णात्मिकाम् ॥ गायत्रीं वरदाभयांकुशकशाः शुभ्रं कपालं गुणं शंखं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे ॥ प्रणम्य पार्वतीनाथं विष्णुं सूर्यं तथाऽम्बिकाम् । गणेशं विघ्नहर्तारं गुरूणां चरणाम्बुजम् ॥१॥
ओझावटंकविख्यातः कच्छमांडविसंभवः ॥ भाणजीतनुजो विद्वत्पुष्कर्णाज्ञात्यलंकृतः ॥२॥
विद्वत्संगमसंप्राप्तकिञ्चिज्ज्ञानामृताप्लुतः ॥ नाम्ना जीवणरामोऽहमात्मनस्तुष्टिहेतवे ॥३॥
ग्रन्थान्तरेभ्य उद्धृत्य कुसुमेभ्यो यथा मधु ॥ रम्यां ग्रन्थामि गायत्रीपुरश्चरणपद्धतिम् ॥४॥
अङ्गीकुर्वन्तु तां सन्तो विद्वांसो हंसवन्मुदा ॥ नीरक्षीरविवेकेन वेति संप्रार्थये सदा ॥५॥

N/A

References : N/A
Last Updated : December 13, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP