संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
अथ भूम्यादिदेवानामावाहनं पूजनञ्च

अथ भूम्यादिदेवानामावाहनं पूजनञ्च

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


तत्र प्रथमं कुंडमंडपार्थे भूम्यादीनामावाहनं पूजनञ्च ॥ तत्र शुभेऽह्नि यजमानश्चंद्रसूर्यतारादिबलान्विते सुमुहूर्ते मंडपं कर्तुं यथोचितं मार्जनदहनखननसंप्लावनादिभिः स्मृत्योक्तैः शोधनोपायैर्भूमिं संशोध्य तत्र निर्विघ्नतासिद्ध्यर्थं वरुणपूजनादिगणपतिपूजनान्तं कर्म कृत्वा पञ्चवाक्यैः संपूर्णं वा पुण्याहवाचनञ्च विधाय भूम्यादीनां पूजनं कुर्यात् । तण्डुलैस्त्रीन्पुञान् कृत्वा तदुपरि पूगीफलानि निधाय तत्र वसुधां कूर्मं शेषं चावाह्य पूजयेत् । तद्यथा - आचम्य प्राणानायम्य देशकालौ स्मृत्वा अद्य गायत्रीपुरश्चरणोपयोगिकरिष्यमाणमंडपादीनां निर्विघ्नतासिद्ध्ये पृथिव्यादीनां पूजनमहं करिष्ये ॥ इति संकल्प्य अक्षतैरावाहयेत् ॥
तत्र प्रथमपुंजे भूम्यावाहनं कुर्यात् ॥ ॐ भूरसिभूमिरस्यदितिरसि व्विश्श्वधायाव्विश्श्वस्यभुवनस्यधर्त्त्री । पृथिवीxxच्छपृथिवीन्दृह पृथिवीम्माहिxसींx ॥१८/१३॥ ॐभू० भूम्यै नमः भूमिम् आवाहयामि स्थापयामि । अंजलिं बद्ध्वा प्रार्थयेत् ॥ शेषमूर्ध्नि स्थितां रम्यां नानासुखविधायिनीम् ॥ विश्वधात्रीं महाभागां विश्वस्य जननीं पराम् ॥१॥
यज्ञभागं प्रतीक्षस्व सुखार्थं प्रणमाम्यहम् ॥ तवोपरि करिष्यामि मंडपं सुमनोहरम् ॥२॥
क्षंतव्यं च त्वया देवि सानुकूला मखे भव ॥ निर्विघ्नं मम कर्मेदं यथा स्यात्त्वं तथा कुरु ॥३॥
ततो द्वितीयपुञ्जे कूर्मावाहनम् ॥ ॐ वस्यकुर्मो गृहेहविस्तमग्ग्ने व्वर्द्धया त्वम् ॥ तस्म्मै देवाऽअधिब्ब्रवन्नयञ्च ब्ब्रह्मणस्प्पतिx ॥५२/१७॥ ॐभू० कूर्माय नमः कूर्मम् आवाहयामि स्थापयामि । ततस्तृतीयपुञ्जे शेषावाहनम् ॥ ॐ स्योनापृथिविनोभवानृक्षरानिवेशनी ॥ यच्छानx शर्म्मसप्प्रथाx ॥१३/३६॥ ॐभू० अनंताय नमः अनन्तम् आवाहयामि स्थापयामि ॥ इत्यावाह्य । ॐ भूर्भुवः स्वः भूमिकूर्मानन्तदेवेभ्यो नमः गन्धाक्षतपुष्पाणि समर्पयामि इति संपूजयेत् । सत्यवकाशे षोडशोपचारैः पूजनं कार्यम् ॥ अथ विश्वकर्मपूजनम् ॥ ॐ व्विश्श्वकर्म्मन्नहुविषाव्वर्द्धनेन त्रातारमिन्द्रमकृणोरवद्ध्यम् ॥ तस्म्मैव्विश समनमन्त पूर्व्वीरयमुग्ग्रो व्विहव्वयो यथा सत् ॥ उपयामगृहीतोसीन्द्रायत्त्वा व्विश्श्वकर्म्मणऽएषतेयोनिरिन्द्रायत्त्वा व्विश्वकर्म्मणे ॥४६/८॥ ॐ भू० विश्व० नमः विश्वकर्माणम् आ० स्था० । इत्यावाह्य । ॐ भू० विश्वकर्मणे नमः इति गंधाक्षतपुष्पैः संपूज्य नमस्कारं कुर्यात् ॥ ततः सूत्रकारपूजनम् ॥ तं गंधाक्षतपुष्पैः संपूज्य नमस्कारः ॥ ततो गजपूजनम ॥ तद्यथा - हस्ते अक्षतान् गृहीत्वा तत्र देवानावाहयेत् ॥ ॐ भू० महादेवाय नमः महादेवमावाहयामि स्थापयामि ॥१॥
ॐ भू० वायवे नमः वायुमा० ॥२॥
ॐ भू० विश्वेभ्यो देवेभ्यो नमः विश्वान् देवाना० ॥३॥
ॐ भू० अग्नये नमः अग्निमा० ॥४॥
ॐ भू० ब्रह्मणे नमः ब्रह्माणमा० ॥५॥
ॐ भू० सूर्याय नमः सूर्यमा० ॥६॥
ॐ भू० रुद्राय नमः रुद्रमा० ॥७॥
ॐ भू० यमाय नमः यममा० ॥८॥
ॐ भू० विश्वकर्मणे नमः विश्वकर्मानमा० ॥९॥
ॐ भू० वसुभ्यो नमः वसूना० ॥१०॥
ॐ भू० गणेशाय नमः गणेशमा० ॥११॥
ॐ भू० वरुणाय नमः वरुणमा० ॥१२॥
ॐ भू० स्वामिकार्तिकाय नमः ॥ स्वामिकार्तिकमा० ॥१३॥
ॐ भू० इच्छायै नमः इच्छामा० ॥१४॥
ॐ भू० क्रियायै नमः क्रियामा० ॥१५॥
ॐ भू० ज्ञानाय नमः ज्ञानमा० ॥१६॥
ॐ भू० कुबेराय नमः कुबेरमा० ॥१७॥
ॐ भू० चंद्राय नमः चंद्रमा० ॥१८॥
ॐ भू० जयायै नमः जयामा० ॥१९॥
ॐ भू० वरुणाय नमः वरुणमा० ॥२०॥
ॐ भू० वासुदेवाय नमः वासुदेवमा० ॥२१॥
ॐ भू० बलभद्राय नमः बलभद्रमा० ॥२२॥
ॐ भू० कामाय नमः काममा० ॥२३॥
ॐ भू० विष्णवे नमः विष्णुमा० ॥२४॥
इत्यावाह्य । गजस्थावाहितदेवेभ्यो नमः इति तान् गन्धाक्षतपुष्पादिभिर्यथाविभवं षोडशोपचारैः पञोपचारैर्वा संपूज्य नमस्कारः ॥ ततः खनित्रपूजनम् ॥ त्वष्ट्रा विनिर्मितः पूर्वं लोकानां हितकाम्यया ॥ पूजयामि खनित्र त्वां सिद्धिदो भव मे सदा ॥ इत्यक्षतैराबाह्य । खनित्राय नमः इति तं गंधाक्षतपुष्पैः संपूज्य नमस्कारः ॥ ततो वास्तुपुरुषाय नमः इति वास्तुपुरुषं संपूज्य दशदिक्षु इन्द्रादिदिक्पतीन् संपूज्य भूम्याद्यावाहितेभ्यो दिक्पतिपर्यन्तेभ्यः सर्वेभ्यो देवेभ्य एकस्मिन् पात्रे पृथक् पृथग्वा पायसादिकं बलिं निधाय हस्ते जलं गृहीत्वा भूम्याद्यावाहितदेवेभ्यः अमुं बलिं समर्पयामि इति जलमुत्सृजेत् ॥

N/A

References : N/A
Last Updated : December 13, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP