TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि|
श्रीकृष्णस्तवनम्

श्रीकृष्णस्तवनम्

महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’


श्रीकृष्णस्तवनम्
( गीतिवृत्तम् )
केशव ! के शवतुल्या न त्वयि विमुखाः खला मलाकाराः ?
भक्तास्तव सक्ताः स्तवनतिपूजासु प्रभो ! न के धन्याः ? ॥१॥
माधव ! साधव एव त्वद्यशसि रता न दुर्जना मलिनाः,
हंसा इव नो दृष्टा मौक्तिककवलादृता बकाः काकाः. ॥२॥
यत्यादृतकथ ! भगवन्नत्यादरतस्त्वमुपगतांछरणम्,
नत्या सकृदपि कृतया सत्यानंदप्रदो भवसि सद्यः. ॥३॥
यत्साधुगीतया त्वं कीर्त्या निजयापि देव ! मुदमेषि,
तत्तां तव प्रियार्थं गातुमहः प्रेमतः प्रवृत्तोऽस्मि. ॥४॥
दत्त्वा मिषमपरिमितं लब्धं त्वत्तोऽमृतं नु पूतनया,
पूतनयाऽद्य वृतस्त्वं कीर्त्या तत एव नित्यनूतनया. ॥५॥
यः सति साधुः स तथा न यथाऽसति साधुरीड्य एष सताम्,
सदसि कथयंति कवयः पापोद्धृतिमेव विस्मरंति न ताम्, ॥६॥
अयि ! के त्वयि केशव ! न हि विनता विनतातनूजवाह ! जनाः,
कंसारे !कं सारे पीते ते यशसि न च पुमर्थमिताः. ॥७॥
अजगरमज गरनिधिमरिमत्युग्रं ग्रस्तसात्मशिशुवत्सम्,
अकरोरमृतनिधिं किं न करो दाता जनायते सुहृदे. ॥८॥
अमुना यमुनामिव मे मतिमपदोषां पदा कदा कर्ता,
वद भो मदभोगिमथन ! पृच्छामि यतस्त्वमादृतो यशसि. ॥९॥
कुरु कुरुवर इव पतिते मयि शरतल्प इव देव ! संसारे,
करुणां करुणावरुणालय ! वरदगुरो ! मुकुंद ! कंसारे ! ॥१०॥
जानन्नप्यहमहितैः प्रसभं विषयैर्जनैः सधर्म इव
क्रीडितमुलं प्रवृत्तस्त्वं दीनानां स एव बंधुरसि. ॥११॥
कामादिभिरहितैर्मे मतिरुग्रैः कौरवैरिव प्रसभम्.
धर्मस्य वधूरिव हाऽन्यायाद्विवशीकृता त्वया रक्ष्या. ॥१२॥
कंसाराते ! कीर्तिः कं सारा ते जनं न पातुमलम्,
वसुधाधाराद्य विभो ! न सुधाधारा क्षमावितुं रुग्णम्.  ॥१३॥
य उपायनं प्रदातुं पृथुकप्रसृतिं त उपगतो, भवता
अवता स दीनबंधोऽकारि सुदामा पदं मुदामाशु. ॥१४॥
कविना न विना व्रजति ख्यातिं, बह्वपि यशः प्रभोर्जातु
मुदितमतः कुरु मां कविमविगीतकथा यथासुखं गातुम्. ॥१५॥
पीतांशुक ! गीतां शुककविना वाल्मीकिनेव रामस्य
रसिकाः पिबंति भवतः कीर्तिं देवाः सुधामिवाजस्रम्. ॥१६॥
साधु शुकेनेव पुनर्गीतानि यशांसि ते मयूरेण
ख्यातिं प्रयांतु लोके भोः ! के बद्धादरा न नव्यरसे ? ॥१७॥
स्तोतुमनसमकरोः किल गल्ले स्पृष्ट्वा ध्रुवं ध्रुवं दरतः
तद्वन्मामादरतः कुरु पुरुकरुणार्थ निजनुतौ निपुणम्. ॥१८॥
नुतिकृतिकृतादरस्त्वं सदसि सतां श्रुतमिति श्रुतिज्ञानाम्.
त्वां तेन ते नमज्जनमंदारं प्रार्थये नमन्नंध्रिम्. ॥१९॥
ननु ते न नुतेरधिकं मतमन्यद्यदि तदिष्टमेव तव,
वितर वरं मय्याश्रितहित वररंजितजगत्स्ववंशेन. ॥२०॥
स्तुत्वास्तु त्वामयमिह संसारे भोः प्रभो ! जनो धन्यः,
याचे यतस्त्वमिच्छां पूरयसि सुखं वदान्यमूर्धन्यः. ॥२१॥
येनार्थिकामपूर्तिः क्रियते खलु झटिति पारिजातेन,
स मया कथं नु रमया पूजितमपहाय ते पदं सेव्यः ? ॥२२॥
भवदाश्रितैः स लभ्यस्त्वं तु न जात्वपि तदाश्रितैर्भगवन् !
भामाद्वारि स सततं न भवान् स्थित इंद्रमंदिरांतरपि. ॥२३॥
तं जडमविवेकिनमगमस्वाधीनं समाश्रयिष्यति कः
त्वां प्रभुमपास्य सर्वगमादिकयिं करुणमखिलकामकरम्. ॥२४॥
अंतर्बहिरपि कठिनश्चिंतामणिरुपल एव खल्वेषः
कामधुगपि पशुरशुभं भवतोऽन्यन्नाथ सर्वमस्माकम्. ॥२५॥
ब्रह्मादयोऽपि देवाः कृच्छ्रे त्वां देवदेवमुपयांति
सगदा जगदाधार ! प्राज्यामृतपाणिमिव गुरुं भिषजाम्. ॥२६॥
यः पुरदाहं चक्रे शक्रेण प्रार्थितः प्रभुः सपदि
सोऽपि वृकव्यसनात्किल विलयं गत एव रक्षितो भवता. ॥२७॥
भीतांस्त्रातुं दातुं वरमभिलषितं समस्तमर्थिभ्यः
अनलसमनलसमं खलशलभलये त्वां वदंति सत्कवयः. ॥२८॥
गजमंबुजंतुशक्रान्नक्राच्चक्रायुधावता भवता
दत्तमनुक्त्वाप्यभयं संसारग्राहपीडितेभ्यो नः. ॥२९॥
नारायणेत्यजामिल आक्रुश्यापत्यमत्यपत्यमतिः
त्वां प्राप पापनिलयः कुल यः शतकल्पनिरयवासार्हः. ॥३०॥
त्वामहमनिशं कलये कलये यद्दत्तसाध्वसोऽसि त्वम्
प्रणतेर्यत्ना अवमा अव मामित्यानतं दयालुमणे ! ॥३१॥
एकस्त्वमेव शाश्वत आस्से सुखमब्जनाभ ! यदनल्ये
कल्पेऽखिललोकानां भो भगवन् ! भोगिभोगमयतल्पे ॥३२॥
नाथ कथंकारं ते महिमानमगाधमिममहो ! ब्रूमः,
यत्त्वत्तत्त्वविचारेऽद्याप्यास्ते प्रभुरचंचल भ्रूमः. ॥३३॥
गोप्या कोऽप्याप्तस्ते पांसुलयापि प्रसाद ईश्वरतः
सत्याप्यत्यादृतया न मया न मयाद उच्यतेऽप्यखिलैः. ॥३४॥
बद्धोऽसुलूखले त्वं गोप्या हंत ! व्रजे स दाम्ना यम्
ज्ञातुं कवयो न वयोगतमपि पश्यंति खलु सदाऽऽम्नायम्. ॥३५॥
अवतारातिभ्यो जगदवतारा देव ! ये गृहीतास्ते
माधुरतः साधुरतः कोऽपि नतेष्विह तु सूद्धृता बहवः. ॥३६॥
इह गोकुलं व्रतं ते शिशवोऽप्यसवः कुमारिकाः श्रुतयः
गोपा गुरवः परमेश्वर किं बहुनारयः प्रियातिथयः. ॥३७॥
माथुरमवतारमिमं मन्येऽखिलकामकल्पतरुमेव
वस्तु सकलमेकरसीकर्तुं द्रुतमस्ति जगति न रुमेव. ॥३८॥
भुक्तं सह पशुपशिशुभिरुक्तं कृतमेव गोपवामदृशाम्
मुक्तं चाश्रु वियोगे युक्तं भगवत्यदः किमात्मरते ? ॥३९॥
भक्तानां पुरतस्त्वां नर्तयतीत्थं स्वभक्तवत्सलता
न व्यापृतो भवानिव कोऽपि कुटुंबी क्कचित् कुटुंबे स्वे. ॥४०॥
पार्थसहायस्य न ते का वा रीतिः कुटुंबिरीतिरिव ?
दूतत्वं सूतत्वं भजतो व्रजतोऽनृतेन चापि पथा. ॥४१॥
सक्तं सपत्नमथनं भक्तं भजता किरीटिनं पार्थम्
व्यक्तं निजमहितत्वं त्यक्तं स्वीकृत साधु सारथ्यम्. ॥४२॥
सोढ्वाप्यायासमरं समरं गत्वाऽसुसंशयं प्रपय
लुब्धेनेव स्वार्थः पार्थः परिरक्षितस्त्वया व्यसने. ॥४३॥
भंगे श्रीकांत ! नवे शांतनवे प्रकुपिते प्रतिज्ञायाः
प्राप्तस्तथा न कंपं त्वं पंकजनेत्र ! हृदि यथा सख्युः. ॥४४॥
उपनिषदां सर्वस्वं मूर्तं श्रेयः श्रियः सतां सत्वम्
वपुरापगेयसमरेऽनादृतमिषुविक्षतं न ते मित्रम्. ॥४५॥
श्रितमवतस्तव भीष्माद्रथचक्रभृतः क्षतप्रतिज्ञस्य
अद्यापि सत्यसंधैरप्युच्चैर्गीयते यशः सदसि. ॥४६॥
भगवन्नूनं नूनं श्रितसमवनतोऽन्यदखिलमपि कर्म
परिपालयन्यदेकलमर्जुनमसि सर्वथा सतामीड्यः ॥४७॥
भक्तं नक्तंदिवमपि कपिकेतुं नेतुमीप्सितां पदवीम्
किं किं न रक्षता कृतमुत किं किं कारितं न वान्यैस्ते. ॥४८॥
धर्मो यदवददनृतं यदकांडेऽदर्शनं जगाम रविः,
यदभजदिषुतल्पं कुरुगुरुरन्यद्यच्च तत्तवैव मतम्. ॥४९॥
धर्मद्विषोऽनुसरणे न रणेऽपि धनुर्भृतां गुरोर्विजयः
धर्मस्य तु ध्रुवं सोय़्शस्त्रस्यापीति त उपदिष्टमिह. ॥५०॥
यद्यत्कृतं त्वयेश्वर जीवानामाशु तत्समुद्धृतये
धृतयेच्छया नृमूर्त्या श्रीसख्या शृण्वतां सतां धृतये. ॥५१॥
यद्रोप्या राधिकयाराधि कयाधूसुतेन चाप्यंतः
हृतभवगदं पदं ते ध्यायंति विमुक्तिपदमपि न संतः. ॥५२॥
राधामाधायोरसि बाधा माधाम्नि कामजा हृत्वा
सुप्तं गुप्तं सतमःपुंजे कुंजे स्मरंति यतयस्त्वाम्. ॥५३॥
गोपीर्भुक्त्वापि विटैः कृत्वापि न दस्युभिः सम स्तेयम्
हत्वापि घातुकैस्त्वं जगति गुणस्तेऽद्भुतः समस्तेऽयम्. ॥५४॥
यासां त्वया सुसंचितमपहृतमेकांततोऽपि नवनीतम्
ताभिरबलाभिरपि वद मनसि हृते देव ! किं न तव नीतम् ? ॥५५॥
राधास्तननिहितदृशं गलदमलस्तन्यबिंदुवदनेंदुम्
त्वां ध्यायत्यंतःश्रीः साधुसभा साश्रु सात्मकुत्समपि. ॥५६॥
त्वामधिकदम्बमबलापटुपटपाटच्चरं विलिख्य यथा
सत्यः प्रत्यहमात्मव्रतसंसिद्ध्यै भजंति पतिमत्यः ॥५७॥
दीपमिव त्वां स्नेहादुद्भासितरूपसंपदं गोप्यः
अभजन्पतंगिका एव मरणभयमपास्य रुचिररुचिरुचयः. ॥५८॥
मृत्स्राशनागसि विभो ! भीताया विश्वदर्शनान्मातुः
स्वस्मिन्दुर्लभपुत्रस्नेहापायात्त्वमेव बहुभीतः. ॥५९॥
हा ! बत ! हंत ! पिबंतं त्वाममृतनिधिं द्रुतं निरस्य भुवि
याता माता बहुमतदुग्धा, मुग्धाः खलु स्त्रियो जात्या. ॥६०॥
दुग्धे मुग्धे किमधिकमंब ! त्वं बत ! सुवंचितासीति
ज्ञापयितुमेवमेव त्वं गिरसभाजनेऽकरोः कोपम्. ॥६१॥
गुरुभिरपि गुरुवरेण च भवता ये बोधिताः क्रतौ गुरवः
हंत कथं तेऽप्यंधा बंधावहमेव यैर्वृतं कर्म. ॥६२॥
धन्या मन्यामह इह ता राभां सत्कृतोऽसि याभिस्त्वम्
अज्ञपतीनां नौकाः सत्यः सत्यः स्तुतिर्न महिमासाम्. ॥६३॥
श्रीकरधुतो जडोऽपि प्राप यशो जगति पर्वतः स ततम
तद्दुर्दिनमप्यभवत्साधुमतं पुण्यपर्वतः सततम्. ॥६४॥
करुणामृतघन ! करुणामृतवृष्ट्या ते जितैव सा वृष्टिः
जडजाप्यधः पतंती हेतुः पंकस्य या च कंपस्य. ॥६५॥
गोवर्धनधर ! तव भुजवीक्षाक्षणविस्मृतात्मनां स्त्रीणाम्
अपि खरशब्दा अब्दाः शंपाः कंपाय नाभवन्मनसः. ॥६६॥
त्रासेन सहोत्खातः सुहृदां सममुद्धृतो गवां पुच्छैः
अवतारितः पुनर्गिरिरिंद्रमदभरेण साकमीश्वर ! ते. ॥६७॥
भूगोलभृद्भुजगमनमनुकुर्वन् लीलया धृताहार्यः
उच्चैर्बभौ भुजस्ते छत्रस्य महेंद्रनीलदंड इव. ॥६८॥
वपुषः कांत्या मेघास्तव करकाराशयः स्मितप्रभया
तडितोऽपि वाससा खलु पीता भीता भुजाद् ध्रुवं वाताः. ॥६९॥
पर्वतधरेण भवता वज्रधरो लीलयाद्रिभिद्विजितः
आस्तां गिरिरपि हरिरपि जेतुमलं त्वं तृणेन कालमपि. ॥७०॥
गोत्रारेर्वज्रभृतः क्रुद्धाद्गिरेरेकलोऽप्यपक्षोऽपि
प्राप्तो जयं न भङ्गं सत्पुरुषभुजाश्रितो न को विजयी ? ॥७१॥
अमितापराधशमनं नमनं तव पादयोः सकृद्विहितम्
किं द्रागिंद्राद्दूरीकर्तुमघमतोऽन्यदद्भुतं तीर्थम्. ॥७२॥
आगस्कृत्सु नमत्सु द्राक्कुरुषे त्वं क्षमां भृशं करुणः
अपराधिनां न चेत्किं कवचं तव चंडकालभीतिजुषाम्. ॥७३॥
त्रातो न कस्तृणादिर्जीवस्ते स्वपदरेणुना दरतः
कश्च चरः संसारान्मशकादिर्मधुरवेणुनादरतः. ॥७४॥
यश्चुंबितस्त्वयानिशमीश्वर ! परमादृतेन वंशस्तम्
मन्ये रमाधराद्वरमिह माधुर्यं सदा नवं शस्तम्. ॥७५॥
जगता सममनुभूतं माधुर्यं चुंबता त्वया यस्य
स वरं श्रियोऽधरादिति वदता कविना श्रियः किमपराद्धम् ? ॥७६॥
कास्ताः स्त्रियो न नीता वंशेन स्थाणुभावममुना याः
अन्यासां कैव कथा ? सुकविशुक स्तम्भमाह यमुनायाः. ॥७७॥
एणो न केवलं तव वेणो रवमोहितो भुजंगोऽपि
हिंस्रोऽपि देव ! बहुना किं स्रोतश्चारिजंतुनिकरोऽपि. ॥७८॥
द्युसदां सुमोहिता रवमधु पाययता च वेणुना सत्यः
पिदधे श्रुती शयाभ्यां यासां मुखमीक्ष्य मंक्षु नासत्यः. ॥७९॥
वंशो राकाजानेरंशोरपि तापनाशको मधुरः
कोऽप्योघ एष वहता गोप्यो दूरं हृता रसैर्येन. ॥८०॥
अगदं जगदंतर्बहिरस्तु समुत्तव यशोऽमृतं पीत्वा
इति भगवत्यपराद्धं विधिना खलु वत्सवत्सपान्हरता. ॥८१॥
तदनुभवोक्तेर्ब्रूमो वयमद्भुतमेव हंत मोहस्तम्
निन्ये वशमाकृष्य द्युमणिमिव निजं गृहं तमोहस्तम्. ॥८२॥
पित्रा गवां रसास्ते तव पुत्रेण तु सपालका वत्साः
तच्चरितेन तु सकला गोपा गोप्यो वय्ण सुराश्च हृताः. ॥८३॥
स कथं निंद्यः कविभिः संस्थापयितुं पदे प्रशस्ते नः
योऽमृतसागरफेनस्तेनमिह ततान ते यशस्तेनः. ॥८४॥
कृच्छ्राद्यददित्याप्तं दुर्लभमतुलैस्तपोव्रतैश्चीर्णैः
प्राप्ता गोप्यो गावस्तच्छ्वश्रूत्वं श्रियो जगन्मातुः. ॥८५॥
यद्गोगोप्यो गावस्त्वामापुरपत्यमीश्वरं जगतः
न गतः किमिहोत्कर्षं विध्यपराधोऽपि नाकिनां नगतः. ॥८६॥
अंगीकृता यदा ते गोगोपीनां जगद्गुरो ! सुतता
मूर्तिर्न केवलं तव जाता सत्कीर्तिरपि जगत्सु तता. ॥८७॥
विविधपशुपशुपसमदृशा गोपकरायत्तबंधमोक्षेण
वत्सायितेन भगवन् ! दाम्न्यर्पितकंधरेण तृणमशितम्. ॥८८॥
येषां यत्स्वतनुभुवा धनमपहृतमीश ! सत्यपतिनापि
तेषां तदनूनाधिकमात्मधनं तेऽर्पितं सदीड्येन. ॥८९॥
सवसंस्कृतहविषोऽपि प्रातितमुच्चैः पदं त्वया यवसम्
भवसंतरणेच्छुरहं हंत तृणेष्वपि तदा नतेष्ववसम्. ॥९०॥
हा हंत ! तं तमंतर्भावयतोऽनुग्रहं व्रजे भवतः
मम तदपाद्त्रस्य मनः किं तां चिंतां ब्रवीमि यां यातम्. ॥९१॥
वत्सीभूतं ब्रह्म ब्रह्मप्रमुखैर्महात्मभिश्चिंत्यम्
त्वां गोगोपीगोपाः पुपुषुः प्रेम्णा तनौ च रोमांचम्. ॥९२॥
स्वर्गाद्गुरु सत्यपदं सत्यपदाद्गुरुतरं च वैकुंठम्
वैकुंठादपि गुरुतममवनौ वृंदावनं वनं मन्ये. ॥९३॥
याः पूर्वं न क्कचिदपि कस्मैचिदपि प्रदर्शिताः प्रभुणा
अत्रैव पीतपट ! ता अटता नटता त्वया कलाः सकलाः. ॥९४॥
यौ कमलावक्षस्यपि वक्षोजस्पर्शभूरिरक्ततलौ
तौ तव वृंदावनभुवि चंक्रमणं चक्रतुश्चिरं चरणौ. ॥९५॥
वृंदावनेऽनुभूतं गिपैर्गोपीभिरपि च यद्गोभिः
तन्नंदनेऽपि न सुरैर्नानंदवनेऽपि पंडितैः शर्म. ॥९६॥
चरणसरोजरजोभिर्देवसरित्कतिपयैः पुरा प्राप्तैः
महिमानमियंतमिता वृंदावनभूः किमंकिता पदकैः. ॥९७॥
तृणगुल्मव्रततिद्रुमदृषदो वृंदावनेऽत्र धूलिरपि
सर्वं तीर्थशताधिकमीश्वर ! तीर्थांघ्रिणा कृतं भवता. ॥९८॥
भोः ! कतमो लोकतमो बाह्यं हर्तुं क्षमोऽन्य आदित्यात्
तेजस्विपूज्यपादात् आंतरमपि लोकबंधुतस्त्वत्तः. ॥९९॥
कुंभभुवांभोधिरिव स्वेन निरुपमेन तेजसा यशसा
शौरिभुवा भवता द्रागप्ययमप्ययमलं भवो नीतः. ॥१००॥
गोपोऽपि पंडितानां सर्वेषां संमतः सदा नंदः
यत्तैरलब्धगंधस्त्वमपि तदंकं गतः सदानंदः. ॥१०१॥
जगति यशोदानंदौ धन्यौ शिशुना त्वया जगद्गुरुणा
उक्तावाश्लिष्य गले यौ शतकृतास्त्वयांब ! तातेति. ॥१०२॥
वृद्धैरलमन्यैर्नो मैत्री भवतैव गोपशिशुनाऽस्ताम्
वृद्धसखा यामाप्तास्त्वत्तो मुदमाश्वपीह पिशुनास्ताम्. ॥१०३॥
यममृतमुचो वरं निजकिसलयतोऽमंस्त देवविटपी तम्
किं घोषयोषिदधरं धन्यं ब्रूमो न देव विटपीतम्. ॥१०४॥
द्राग्द्रवति धीः श्रुते ते यशसि यथा नस्तथा न वेदांते
लब्धरतिः स्वपिति भुवि न पल्यंकेऽपीतरा नवे दांते. ॥१०५॥
त्वां सगुणं ब्रह्म वयं निर्गुणमपि नाथ संश्रिताः कवयः
रुचिवैचित्र्यादेकेऽलंकृतिमिव हेम केवलमिवान्ये. ॥१०६॥
कैवल्यं पदमाप्ता ये भक्ता ये च विद्विषस्तव ते
तेन श्रिता वयं त्वां ब्रूमो भगवन् ! प्रभो ! नमो भवते. ॥१०७॥
सकलं स्ववयः कवयस्तव यत्र वयस्यममृतकरमहसः
सुयशः काले देशे व्यवहारे तन्नयंति तत्रैव. ॥१०८॥
सरसि सरोजमिव त्वयि हृदयमिदं नः सुजीवने वसतु
तत्र श्रीरिव भक्तिश्चात्रापि परंतु मात्र सेव चला. ॥१०९॥
गीत्या मृग इव कुशलैः कामी प्रभुरिव सुरूपयार्पितया
भक्त्या भागवतैस्त्वं भगवन् ! बहुभिर्वशीकृतोऽस्याशु. ॥११०॥
हृत्त्रस्तं कस्य कवेः कालाच्छ्रुतरत्नसानुकंपस्य
तव संश्रयेन्न पादौ श्रितचिंतारत्नसानुकंपस्य. ॥१११॥
इति श्रीरामानंदनमयूरविरचितं श्रीकृष्णस्तवनं संपूर्णम् ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:42.7570000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

PRASENAJIT I(प्रसेनजित्)

RANDOM WORD

Did you know?

In Hinduism, are women and men treated as equals?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site