TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि|
रामस्तुतिः

रामस्तुतिः

महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’


रामस्तुतिः
( औपच्छंदसिकं वृत्तम् )
रघुनाथ ! दयां कुरु प्रपन्ने मयि दीनेऽलसमेनमद्य मुंच
सदयः सदयस्त्वमेव किं ते मुनिगीतं न यशः श्रुतं पवित्रम्. ॥१॥
असदंतकराः शराः खरास्ते यमदंडात्सततं सतां सहायाः
किमदो विमदो न यन्मनोभूरतनुः सह्र्वदृगग्निना कृतोऽपि. ॥२॥
ग्रसते त्वदिषुर्द्विषं न राहुः स तथेंदुं कवयो नरेश्वराहुः
जहि रोपमरिं सतामलं का सरुषो हंत धियोऽपि राम ! लंका. ॥३॥
यदि वानरसख्यमेवमीड्यं कुमु वक्तव्यमहा नरैस्तदेभिः
अधिसंसृतिसिंधु सेतुमेकं कुरु भोः ! किं स्वकृते कृतेन तेन ? ॥४॥
विरहे न पितापि सांत्वितो यो विलपन्नेव मृतस्त्वदेकचित्तः
अहमज्ञतमस्तमद्य याचे तृणवत्त्यक्तसदंगनानुजं त्वाम् ॥५॥
न हि तन्न हितं नतैर्यदीश ! स्मृतमेकं खलु तावकं पदाब्जम्.
अमरैर्भ्रमरैरिवातिलुब्धैः परिपीतं मुनिभिश्च राजहंसैः. ॥६॥
न फलं विषयाः फलं तु दास्यं तव जंतोर्वरमत्र जीवनस्य
तदृते न दृतेरिवास्य राम ! क्षणमप्युच्छसितं सतां प्रशस्यम्. ॥७॥
दुरितोदधितो दरप्रयत्नान्मुनिदारान्दयया यदुज्जहार,
पदपद्मरजस्तवास्तु तन्मे नतरक्षाविकलं कलंकनुत्यै. ॥८॥
विषयप्लवगैश्चलस्वभावैः सह सख्यं गतमेनमात्मतुल्यम्
रहितं प्रिययापि शुद्धवृत्या बत सत्या व्यसनेऽव मां नृपाल ( म् ? ) ॥९॥
वितरत्वमृतं करैरनेकैर्न जडात्मानमहं भजेऽपि तप्तः
अमृतं तव नाम पातुमीहे यदभूच्छूलभृतोऽपि तापशांत्यै. ॥१०॥
बहवः सवितुः कुले प्रसूतास्त्वमलं तेभ्य उतापि गोत्रकर्तुः
द्विकरो‍ऽप्यकरोः समूलमेको जगतां तापतमःक्षयं स्वयं यत्. ॥११॥
सुधियो युधि योधमूर्धरत्नं विकिरंतं विशिखानरिष्वसुघ्नान्
करुणं तरुणं पुराणमाहुर्नरमीशं कथमुग्रमक्रुधं त्वाम् ? ॥१२॥
परिपालय मामनाथमार्तं भवरोगेण नसोढवेदनेन
सुखयत्युदितश्चकोरमिंदुः कमलं भानुरथो मयूरमब्दः ॥१३॥
तव भक्तजनेन मत्सदृक्षाः शुचिनोदारतरेण निस्तुलेन
विपदोऽत्र समुद्धृताः प्रभूताः किमदो राघव ! विस्मृतोऽहमेकः ? ॥१४॥
अहिषूग्रमरं गरं तमस्ते न परोत्कर्षसहाः सुराः समते
भुवने परिदर्शितः समस्ते समनुक्रोशभरः प्रभो ! नमस्ते. ॥१५॥
कृपया नृप ! याः स्वधाम नीता विरहं सोढुमनिष्ठुराः प्रजास्ताः
अयि भो ! मयि भोगलालसे तत्कठिनत्वं त्वयि वा किमत्र युक्तम् ? ॥१६॥
यशसा विमलेन सन्मतेनापि च गीतेन मुनीश्वरेण तेन
कथमार्यमुखात्तदादृतोऽहं परिपीतेन न पावितोऽस्मि पापः ? ॥१७॥
कलिना प्रबलेन राहुणेंदोरिव तेजो यशसस्तवापि पीतम्,
कथमेवमहं ब्रवीम्यशंकं बुधशिष्योऽपि च सत्स्वदो विगीतम् ? ॥१८॥
यशसाप्यचिकित्स्य एक आहोस्विदहं निस्तुल एवमेव दोषी,
न सतां मतमेतदप्यसारं विषहेद्धाम तमो न गाढमार्कम्. ॥१९॥
कुरु यत्सदृशं व्रतस्य लोके यशसश्चापि सुविश्रुतस्य तस्य
किमतोऽधिकमेष दीनबंधो ! गतिम्धो गहने न वेत्ति दीनः ॥२०॥
शमनं न हि पश्यति प्रभो ! त्वां शमनं तं लभते जनः प्रपन्नः
असकृच्छ्रुतमित्थमार्यवक्त्रात्सदसि स्वादुवचः सतां सुधातः. ॥२१॥
अनवद्यगुणार्य राम ! भोः ! किं बहुनोक्तेन पदोपकंठमेत्य,
स्वदृशः सदृशः प्रभो ! भवेद्यः कृपणे त्वं मयि तं कुरु प्रसादम्. ॥२२॥
नमदुद्धरणं सुदुष्करं ते मृतमुज्जीवयतः शिशुं द्विजातेः
दृशदप्यतिसुंदरी कृतैव प्रभुणा किं न वचः श्रुतं शुनोऽपि. ॥२३॥
वशमादृतमिंगितज्ञमाज्ञाकरमप्याकुलयंति मामनाथम्
अनयं जनयंति राम ! कामप्रमुखा हंत कथं भवत्पुरेऽपि ॥२४॥
ज जने भजनेऽलसः प्रमादीत्यपटुर्वेत्यघदृग्वरं मयीश !
न हि तैरहितैरयं न बद्धः कथमेव सति किंकरः करोतु. ॥२५॥
द्विषता दशकंधरेण रुद्धा पुरि शुद्धा दयितापि सा तदानीम्
भवतो भजनं किमीश ! चक्रे स च नक्रेण वशीकृतः करींद्रः. ॥२६॥
चरणस्मरणं सदा न दासस्तव कर्तुं क्षम उत्सुकोऽप्यभाग्यः
सुतनप्तृमुखानुवर्तिना यन्मनसांतर्बत यंत्रितोऽस्वतंत्रः. ॥२७॥
स्मरणं शरणं ममेति युष्मच्चरणाब्जस्य न चान्यदस्ति जाने
बहिरंतरपि द्विषन्निरुद्धोऽप्यहमार्तोऽर्तिहरं क्कचित्स्मरामि. ॥२८॥
द्विरदे चिरदेवनाभितप्तेऽत्युचितश्चेत्करुणाकटाक्षपातः
पद एव स शत्रुणा गृहीतः प्रबलैः षड्भिरयं तु सर्वतोऽषि. ॥२९॥
बहुवारमहं द्विषद्भिरुग्रैरसहे पातित एव गर्भगर्ते
शृणु देव ! तदेव कृच्छ्रमाप्तोऽमितकल्पानधुनापि तत्र वर्ते. ॥३०॥
द्विषतोऽप्यनुजे कृतः प्रपन्नेऽथ च सुग्रीववलीमुखे प्रसादः
दरसादरसात्त्वया तथा मय्यपि दीने स सदार्य ! कार्य एव. ॥३१॥
रिपुभिः कृतगंजनं जनं कः कृपणं स्वं शरणं भियाप्तमार्यः
सदयः परिपालयेन्न शक्तः स्वनुरक्तः सुकृते नये यशोर्थी. ॥३२॥
कुपितोऽसि किमागसा न साधुः कृतमंतौ प्रणते जनेऽप्रसन्नः
नमनादितरन्निसर्गसिद्धं किमिवार्येश ! न पापिनामसन्नः ॥३३॥
शरदा वरदाधिराज ! कृस्नः पयसो वार्यत एव मंक्षु पंकः
तव तूदितया दृशाऽतमस्कः क्रियते चंद्रिकयेव सर्वरंकः ॥३४॥
पिबतोऽखिलतापपापहंत्री तव कीर्तिर्द्रुतमेव सत्सुधातः
अपि चेशशिरोधिदेवतातः श्रुतमुच्चैरिति हंत सत्सुधातः ॥३५॥
जहि मामहिमावहं विभो ! मां जनमेवंविधमन्यमप्यवद्यम्
अयसा हि विना सुवर्णहेतोर्न गुणः स्पर्शमणेः प्रसिद्धिमेति. ॥३६॥
सुकृतं न किमस्य पंकमग्नामबलां गां विपदः समुद्दिधीर्षोः
मृतिभीतमरिं तृणास्यमाजौ जयिनस्त्वादृश एव पालयंति ॥३७॥
करुणावरुणालय ! प्रभो ! स्यान्मम किं स्वर्गसदां जडेन तेन
तरुणा तरुणार्कतप्तमूर्तेः सरसाल्पेन गजस्य वा भवेत्किम् ॥३८॥
शिलया कपिभिर्निशाचरेण द्विजराजेन महेश्वरेण सेव्यः
त्वमितीश ! भवंतमाश्रितोऽ‍हं ससुरा मुक्तिमितास्त्वयैव देव्यः. ॥३९॥
सहितं प्रियया श्रियात्तमूर्त्या महितं भूपमुनींद्रदेववृंदैः
रहितं विगुणैः सदा गुणाढ्यं स्वहितं राम कमन्यमाश्रयामि. ॥४०॥
अयि ! तं श्रित एष इंदिराया दयितं त्वामहमाद्यमीश्वराणाम्
मयि तंत्र इहाप्यशर्महासं शयितं तर्तुमघाब्धिमद्य विश्वम्. ॥४१॥
मनसि स्मृतिरस्तु तापहंत्री वदने नाम भवामयौषधं च
श्रवसी च वशीकरोतु कीर्तिस्तव सीतादयितेति मे मनीषा. ॥४२॥
वरदेश्वर ! देव ! देहि दास्यं दयया दर्शय पादपद्ममाशु,
अयनं नयनं विपक्ष्मपातं तव गोर्वत्सवदेव पश्यतीश ! ॥४३॥
स्पृशता दृषदं पदेन युक्तं दयितां भूमिभुवं सदा हृदा ते
बत बाहुयुगेन धन्व चैशं कुत आप्तं कठिनत्वमार्यदृग्भ्याम्. ॥४४॥
न जनं व्यजनं प्रियागृहीतं सरसोशीरसरोजपत्रक्लप्तम्
सुखयत्यतितापतप्तमाप्तोत्तम ते नाम यथा कथोपनीतम्. ॥४५॥
सततं यदि दीनबंधुरेतद्बहु ते संमतमात्मनाम राम !
अयि ! किं मयि किंकरेऽपि दीने करुणां कर्तुमियान्कृतो विलंबः. ॥४६॥
नवतामरसेन भृंगपोतास्तृषितो राम ! यथा व्यथाहरेण
भवताऽमरसेव्यपादुकेन स्वगुणैस्तोषकरैर्वशीकृतोऽ‍हम्. ॥४७॥
तव नाम भवदृते सुदूरादपि चेत्कर्णमुपैति सज्जनेन
उदितं मुदितं करोति चेतो दयिताया एव वाचिकं प्रियस्य. ॥४८॥
धनिनः सुखिनस्तवैव नाम्ना परतः प्राकृततो धनादनित्यात्
धनिका न निकाममोदपात्रं जठराद्बिभ्यति य स्वकादपीश ! ॥४९॥
भवतो भवतोषदेन नाम्ना भिदुरेणामृतगर्वपर्वतस्य
भवतोऽभव तोकमात्मनोऽहेरिव मोच्यः स्वहितेच्छुनाहमज्ञः. ॥५०॥
तव सद्भिरुपासकैरुदारैः सदयैराप्ततमैरुपेक्षितः किम्
न विनश्यदुपेक्ष्यमस्य कार्यं त्विति यत्सा खलु पत्युरत्युपास्तिः ॥५१॥
रहसीश निपीयते प्रसादामृतमाकंठमिता मुदं हि संतः
वितरंति न मह्यमीषदेते बत कुक्षिंभरिरीतिमाद्रियंते. ॥५२॥
सकृपाः कथमार्तमत्यशक्तं कृपणं मां शरणागतं न पांति
अमितान्न दयामृतादुदारा अपि दातुं कथमीषदुत्सहंते. ॥५३॥
विभवेऽधिगतेऽमिते सुहृद्भिर्न समं केवलमेव साकमन्यैः
कृपणैरहितैरपि प्रकामं सुखमार्येश्वर ! सावधो भजंते. ॥५४॥
त्वमुदावरः कथं सखायस्तव सख्युर्ननु नो समानशीलाः
मयि तेऽत्रभवान्कपाविवार्ये बत बुद्धं ह्युभयेऽपि तुल्यलीलाः ॥५५॥
यदि नाथ ! गतोऽसि साकमिष्टैर्वरमस्मान्कृपणाञ्च्छ्रितान्स्वमेव
ननु पालयिता कृतोऽत्र कः स क्क च किं चानिलनंदनोऽपरो वा. ॥५६॥
स तु संप्रति गंधमादनाद्राविति नाथ ! श्रुतमस्तु नः किमूनम्
परमेकमिहान्यसर्वकार्यस्मृतिरोधि व्यसनं हि सद्भिरुक्तम्. ॥५७॥
स हि किंनरचारणादिगीतं मुनिभिः साकमुदश्रु मीलिताक्षम्
सततं चरितामृतासवं ते पिबति त्यक्तभयोऽस्मृताखिलेहः ॥५८॥
श्रुतमेवमपीह यत्र नाम्नस्तव संकीर्तनमेष तत्र तत्र
रचितांजलिरश्रुपूर्णदृक्चेत्यपि वाल्मीकिमुनेर्न गीरपार्था. ॥५९॥
अयि नाथ ! कथं नु तर्हि साधुर्बत सोऽद्यापि कपिर्मया न दृष्टः
यदि पातकनष्टदृष्टिरस्मि प्रतिमां तेऽहमहो कथं पिबामि ? ॥६०॥
स्वजनो वरमात्मनः प्रियत्वात्प्रतिमातः किमितीश ! चेत्तथास्ताम्
भवतो भवतोषदाच्च नाम्नोऽप्यधिकः किं श्रवणोत्सुकोऽस्मि दीनः. ॥६१॥
अधिको निजनामतो मतोऽयं स्वजनस्ते यदि तर्हि राम ! तेन
क्षमिणातिदयावताथ सद्योऽखिलतापापह ! कीर्तनेन भाव्यम्. ॥६२॥
अलमोमिति चेत्कथं न नाथ ! द्रुतमद्याप्युपयाति हंत पातुम्
असकृद्धि पुरा स्म्रुतस्तदास्ताम धुनैवापि तु चेतसा स्मरामि. ॥६३॥
अयि कीशवराप्तवर्य ! साधूत्तम ! सीताहृदयव्यथौषधोक्ते
रघुवीर ! यशःसुधाकरस्य त्वमनंतोऽस्यनवद्यपक्ष एषः ॥६४॥
अधुनापि च संस्तुतो न चास्यां स कवींद्रो मुदितः स्तुतौ कथं स्यात्
इति वाच्यमहो यतोऽधिकस्ते भजकस्त्वत्त उदार आशुतोषः. ॥६५॥
कृतयैव यया कयापि नुत्या मुदमाप्नोषि विभो ! भजज्जनेन
किमु योऽभ्यधिकः कृपालुरार्यो भवतो भागवतो मतोऽतिसाधुः. ॥६६॥
भगवन् ! स समीरसूनुरार्यस्त्वयि ते नाम्नि च साधुमोदधाम्नि
परमादृत इत्यवैमि तद्वत्स्मरतामुद्धरणेन नूनमद्य. ॥६७॥
स समीरसुतः कृतप्रयासः सुतरां संप्रति साधुविश्रमार्थम्
सखिभिश्चरितास्वं तवालं परिपीयाद्य सुखं समं नु सुप्तः. ॥६८॥
न कृतः खलु लक्ष्मणेन देव्या भवता वात्र सुहृन्मनौ प्रसादः
कथमेष न खिन्नमानसः स्यादनुरूपामनवाप्य सत्कृतिं स्वाम्. ॥६९॥
स हि कष्टभुगेव देव ! नीता इतरे तु स्वपदं सहैव सर्वे
न कुशस्य लवस्य वाप्यमात्येष्वपि ते हाप्तपदः कृतो महात्मा. ॥७०॥
अथ किं बहुना भवान् दयालुर्न कृतज्ञो न वरप्रदो न चाप्तः
त्यजतानुजदारमारुतींस्ते कृतिना किं सुकृतं कृतं कृपालो ! ॥७१॥
न भवान्न भवज्जनोऽपि दीनेष्वशुचिष्वद्य कलाववद्यकाले
करुणो वरदं कृतज्ञमेकं तव तेषामपि नाम राम ! कामम्. ॥७२॥
इति श्रीरामे स्तबोऽपिंतोऽयम् !

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:42.3670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

mapping

  • न. प्रतिचित्रण 
  • bijective mapping एकैक प्रतिचित्रण 
  • canonical mapping प्रमाणभूत प्रतिचित्रण, प्रमाण प्रतिचित्रण 
  • conformal mapping अनुकोन प्रतिचित्रण 
More meanings
RANDOM WORD

Did you know?

What is the Sati Practice?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.