संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि|
गणेशार्तिक्यम्

गणेशार्तिक्यम्

महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’


जय देव जय देव गजमुख सुखहेतो
नेतर्विघ्नगणानां जाड्यार्णवसेतो -ध्रुव० ॥
येन भवदुपायनतां नीता नवदूर्वा
विद्या संपत् कीर्तिस्तेनाप्तापूर्वा
मुक्तिर्लभ्या सुखतस्तव नित्यापूर्वा
धार्या जगतः स्थितये भूमौ दिवि धूर्वा । जय देव० ॥१॥
प्रथमनमस्कृतिभाक् त्वं तव लोकप्रथितम्
दृष्टं सव्द्यवहारे गुरुभिरपि च कथितम्
यः कश्चन विमुखस्त्वयि निजसिद्धेः पथि तम्
विविधा विघ्ना भगवन् कुर्वंति व्यथितम् । जय देव० ॥२॥
बालं सकृदनुसरति त्वद्दृष्टिश्चेता -
मनु राज्षीमिव दास्यो विद्याः स हि वेत्ता
पविपाणिरिव परं परपक्षाणां भेत्ता
भवति मयूरोऽहेरिव मोहस्य च्छेत्ता । जय देव० ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP