TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि|
मुक्तामाला

मुक्तामाला

महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’


मुक्तामाला
( गीतिवृत्तम् )
पुण्यश्लोकशिखामणिचरणं शरणं सतामतापकरम्
वंदे नतनरकपिसखमखलजितं मखभुजां महः प्रथमम्. ॥१॥
वरदानव्रतवित्तं वंदे करुणासुधैकघनचित्तम्
निस्पृहनिर्भयवित्तं श्यामलमतिशयितदयितमनिमित्तम्. ॥२॥
बहुभिः कृतं, चतुर्भिः पंक्तिरथः पुत्रिणामभूत्प्रथमः
बहुदानामपि, पुत्रौ धर्मार्थमसौ ददौ यदौदार्यात्. ॥३॥
गाधिज ! भवतोऽधीतं शिष्यैः कतिभिर्न गालवप्रमुखैः
वरमेको दाशरथिः पिबतामुदधेरपोंऽबुदो ह्यधिकः. ॥४॥
मातरहल्ये ! स्पृष्टा येन पदा तमपि पूजयसि बालम्
नूनं स तव सतीर्थ्यः पदाहतोऽप्युरसि यो ननाम भृगुम्. ॥५॥
अबलाकृष्टमपि सदसि धनुरैशं हा कथं नु भग्नमिति
भीतिमिवानतकंधरमाश्लिष्य ददाविवाभयं भगवान्. ॥६॥
सर्वंसहापि धनुषस्तस्य चकंपे रवेण घोरेण
बालापि भृशं मुमुदे सीता मृदुनेव वेणुनादेन. ॥७॥
गुरुणा योगं कर्तुं संजीविन्येव सीतयातुलया
सर्वमतेन विनाशश्चापेनांगीकृतः कचेनेव. ॥८॥
बहुभुजमरिमजयमिति किमनेन दैवं तु हेतुरत्रैकम
ग्रसते सहस्रकरमपि काले राहुर्हि बाहुविकलोऽपि. ॥९॥
भगवन्वसिष्ठ ! कथमिदमधुनैव मुहूर्तमीदृश दत्तम्
क्क वनप्रयाणमहह क्क च युवराज्याभिष्येकमहकालः ? ॥१०॥
पंकेरुहदृशमध्वनि तं केवलमंगनानुजानुगतम्
शंके धावितमीक्षितुमंके विस्मृत्य शिशुमपि स्त्रीभिः. ॥११॥
नृत्यन्मयूरपरिवृतमेणकुलानुगतमलिभिरुपस्पृष्टम्
तं घनदूर्वापुंजश्यामलमब्जाननं भजेऽध्वन्यम्. ॥१२॥
सौरावप्यमृतकरौ यौ राजवौः सदा शिरोधार्यौ
गौरासितौ वरमणी पौरा बत ! हारितौ प्रमादेन. ॥१३॥
मात्रा माऽत्राऽऽस्वेति प्रहितो वनमालयान्निजं धर्मम्
पित्रापि त्रातुं यस्तं धर्मज्ञोत्तमं जगुः कवयः. ॥१४॥
किमिति निषाद ! विषादः पश्य कुमारोऽयमर्ककुलपालः
वनमागतोऽपि वल्क्यपि जटिलोऽपि नृपोत्तमश्रिया श्लिष्टः ॥१५॥
कुशली तेऽस्ति कुमारो मा रोदीरम्ब तं बहोः कालात् ।
तृषिताः पिबन्तु वन्याः संन्यासिन उत्सुकाः सुकार्श्यमिताः ॥१६॥
वर्ते पितुरुत्संगे संगे मातुः पुरे पुरेव सुखम्
इति भवदात्मजमतमत आत्मानं देवि ! काननेऽमंस्थाः. ॥१७॥
नंदन वनं व्रजेति त्वमवोचः सत्यमजकुलोत्तंस !
स तु वनमगात्तमीक्षितुमविचार्य गतोऽसि नंदनं हंत ! ॥१८॥
अमृतमपि नाम पिबतस्तापो बहुलीभवत्यदः किमिति
प्रष्टुं नु दशरथ ! त्वं दस्रावस्राकुलेक्षणो यातः. ॥१९॥
स्त्रैणं त्वामूचुरहो रहोगता मन्त्रिणो न मुनयोऽपि
साकममरपतिना के नाकेऽपि भवन्तमागतं वीक्ष्य. ॥२०॥
शोच्यासि त्वमयोध्ये ! ऽपहृतमटव्या त्वदीयसौभाग्यम्
पतिमिच्छन्त्या भाव्यं त्वयापि मातर्विपक्षवेषयुजा. ॥२१॥
मा मातरमवसंस्था भरत ! स्वगुणप्रकाशहेतुमिमाम्
सेकादधिकमशोके कुशलं पादाहतेर्यदि वरं सा. ॥२२॥
विषयविरक्तिर्गुरुपदभक्तिरखिलसज्जनेषु महितत्वम् !
क्कत्यं सत्यं वच पदपद्मं मा जातु मातुरवमंस्थाः. ॥२३॥
मातः कैकेयि ! जगति कृतिषु कृतोपकृतिषु त्वमेव वरम्
यदखिललोकहितं कृतमुररीकृत्यापि दुसहं व्यसनम्. ॥२४॥
कास्यान्यास्याब्जासवमधुपी त्वत्तो नृपस्य बहुमान्या
दास्या हास्यास्पदतां सरले ! नेवेतासि देवि ! मन्थरया. ॥२५॥
उदितं नीतिमदमतं मुदितं सिद्धिं समीक्ष्य भोक्तुमलम्
उदितं फलमनयतरो रुदितं बत मंथरे ! त्वया किमिति ? ॥२६॥
शोकदवज्वलनावृतशुद्धांतवनैकसंश्रया मृग्यः ?
बाष्पस्रातास्तिष्ठत जीवनदः क्क नु स सांप्रतं मृग्यः ? ॥२७॥
दीपक इव निःश्वासैर्नहि शोकशिखी प्रयाति निर्वाणम्
बत ! वर्धतेऽश्रुसलिलैरपि तूष्णीकैस्त्वयं सुखं जेयः. ॥२८॥
चिंते ! किं ते विषयैर्ध्यातैः क्षणभंगुरैर्विषादफलैः
दास्यति लब्ध्वा कामं कामं का मंगला मुदं संपत्. ॥२९॥
मूर्तः सदयः सदयः सरसः सुधैकपरिपूर्णात्
शमयन्नमतां ममतां शमलं शमलं ददाति कोऽपि जटी. ॥३०॥
कापि तपस्विजनानां तपसां सिद्धिर्महेशगलमाला
नीलापीलाधरमुपहसति गुणैरिदुमपि पयोधिमपि. ॥३१॥
अवने पटुस्त्रिजगतामवनेराद्यः प्रियोऽपि जामाता
भवने विधातुरीड्यः स वने सवनेतृनायको जयति. ॥३२॥
रक्षोबलदलनविधौ दक्षो वक्षोजगिरिहरिर्लक्ष्म्याः
पक्षो जयति वलक्षोऽस्माकमधिक्षोणि शक्रनीलनिभः. ॥३३॥
अव्ययमदस्युगोचरमुर्वपि न मदप्रदं पदं प्रमुदाम्
वित्तमनीहमनोहरमस्माकं चित्तमात्मसात्कुरुते. ॥३४॥
अंकरहितममृतकरं शंकरहितमनिशमेधमानकलम्
मित्रं स्वया श्रियाप्युपकुर्वाणमहं भजे चकोरशिशुः. ॥३५॥
कति न जटिला वटा इव धन्वधराः कति न कानने शबराः ?
एकः कोऽप्यजकुलजः कपर्दिसुमधुन्वनोः श्रियं हरति. ॥३६॥
यामे रजनेश्चरमे या मेघनिभा सुनिस्पृहैश्चिंत्या
सामेतरैरुपायैः सा मे भूतिर्न कैश्चिदपि लभ्या. ॥३७॥
द्यावाभूमिभ्यामिव याभ्यां स्त्रीभ्यामपि प्रजाः सुचिरम्
निर्भयमराजकेऽपि त्राता वां पादुके नमस्यामः. ॥३८॥
भरत ! भगवता गुरुणा सुशिक्षितनयो युवाप्यधीरस्त्वम्
मन्ये धन्ये त्वत्तो जडेऽपि खलु पादुके समे व्यसने. ॥३९॥
भो याज्ञवल्क्यशिष्य त्वां नैव यथा जहाति सन्निष्ठा !
जामातरं तथा ते कन्यानन्या सती वने भवने. ॥४०॥
लब्धा विराध ! भवता सीताऽपात्रेण मृत्यवे न मुदे
कपटपटुना क्षणं सुरपंक्ताविव राहुणा सुधाधारा. ॥४१॥
जंगमनिर्जरतरुणा तरुआण्रुणपादपल्लवेन सह
दृष्टा कनकव्रततिर्व्रततीर्थतपःफलप्रदा वनिभिः. ॥४२॥
धन्वी जटी फलाशी तन्वीरत्नेन सादरं सततम्
अन्वीयमान् ईदृक्सन्वीतभयः सतामगादुटजम्. ॥४३॥
अभ्रामलदीप्ति महो बभ्राम चिराय दंडकाभूर्मौ
दभ्रामधश्चकार श्वभ्रामयमलिनशशधरज्योत्स्राम्. ॥४४॥
सहसैव पंचवट्यां हरिणा हरिणानुयायिना स्वगुहा
सापि च मुक्ता मुक्ता नीता बत ! वंचकेन केनापि. ॥४५॥
नीता शुनाशु नाशायात्मन एवासि पुत्रिके ! मोहात्
हास्यति नो निधनमृते न मृते स्वयमत्र किं तवोत्कर्षः ? ॥४६॥
तदिदमुपस्थितमचिराद्यदवोचोऽनागसं किमप्यंब !
पात्रे दानं क्षेत्रे बीजं बहु भवति गुप्तमुप्तमपि. ॥४७॥
तप्तो वाचा लतया विषमय्या भुक्तयेव बालमृगः
शप्तो वाचालतया कथमनघोऽप्येष देवरो देवि ! ॥४८॥
एकं क्षणमपि धीरैरपि नूनमसह्यवेदना वाचः
स यदपससार सहसा सौमित्रिः साश्रुराश्रमादाशु. ॥४९॥
दस्यो ! क्क त्वं यास्यसि हृत्वा रत्नं जगन्निवासस्य ?
कुत्र निलीय स्थेयं मत्स्येनागस्कृता पयोराशेः ? ॥५०॥
श्रद्दध्यां कथमनया त्यक्तां छायामिव स्ववत्सलताम्
गरलप्रसवां कथयस्यमृतमयीमादितोऽपि वत्स ! लताम्. ॥५१॥
सा कुत्र पर्णशाले ! मालेहाद्यैव या मया निहिता ?
लब्धा मिथिलाजानेर्जाने न्यासापहारिणीं त्वाहम्. ॥५२॥
गोदावरि ! सा क्क गता ? जगता सत्येति संस्तुता त्वमसि.
तमसि च्युतरत्नं जनमंजनदानेन मामनुगृहाण. ॥५३॥
कासारकुंदकदलीकीरकेसरिकृष्णसारकेकिपिकैः
अलिचंपकबंधूकैः शून्ये बत ! सुंदरी विभज्य हृता. ॥५४॥
अयि ! ते दयिते ! मयि तेमऽमी संति कृतप्रतिक्रियाः कृतिनः
गुणलवजितोऽम्रुतद्युतिहरिणः करिणस्तथैव केसरिणः. ॥५५॥
यद्यपि गणरात्रं गतमद्यैवाहं समागतोऽस्मि वनम्
यद्गहितो भद्रहितोत्सवसुवसत्या श्रिया तया सत्या. ॥५६॥
मृग ! यामीक्षणविजितः शक्ष्यसि नोदीक्षितुं बत ! त्रपया
मृगयामि क्क नु तां वद मित्रमहं ते वनेचरो रामः. ॥५७॥
लीनासि किमेकांते कांते ! कां ते व्यलंघयं वाचम् ?
विरहज्वरविपदयि ! ते देयिते ! दयितेऽतिदुःसहाऽधीरे. ॥५८॥
सत्यंतकेऽप्यरातौ सत्यं सोढुं तमप्यहं धीरः
सत्यंचितांगि ! दूये सत्यंचलतोंऽतरेऽपि किं विरहे ? ॥५९॥
दृष्टं यत्सत्यागो वत्स ! त्यागोचितं मयि प्रियया
तत्किं त्वया न लक्षितमक्षि तवाप्यनलसं मदाचरणे ? ॥६०॥
वीजय मामंचलतः पंचलतः पल्लवोऽमृतव्रततेः
सुदति ! शयस्ते व्यजनान्मुदतिशयस्यैकहेतुरब्जकृतात्. ॥६१॥
कानन ! तदासि नंदनमधुना पितृकाननं सुविस्पष्टम्
अहमपि हरिरभवं तामृते त्विदानीं श्रियं महाभूतः. ॥६२॥
नित्यं निरंतराभ्यां सुदति ! गुरुभ्यां निसर्गकठिनाभ्याम्,
ध्रुवमुपदिष्टं हृदयं तव स्तनाभ्यां स्वभावमृदुलमपि. ॥६३॥
किं दोषकर ! वच्म्यहमिंदो ! निंदोचितं कुरु स्वैरम्
यस्य श्रियासै सुभगस्तस्मिन्मित्रे गतेऽस्तमुल्लससि. ॥६४॥
वत्स ! न यदि ललना किं लोलेनालिंगिता मया लतिका
अस्तु तदनुकृतिदयितामहमेनां झटिति नोत्सहे हातुम्. ॥६५॥
असवः क्क स वः प्रियसख एकाकी जन इतो गतो दूरम्
अलसा जलसारसयोर्नहि शोभा जीवनं मिथो विरहे. ॥६६॥
नीता वधूर्न दस्योस्त्रातेत्यलमार्य ! तेन तापेन
शापेनेव सखा तेऽधर्मेण हतोऽस्यनेन पापेन. ॥६७॥
कश्चन युवा तपस्वी विरही परिषस्वजे तरुव्रततीः
व्रततीर्थपरा मुनयोऽनुनयोदारोक्तयस्तमानर्चुः. ॥६८॥
अमृतममृतफलमदरं बदरं प्रेम्णा बभक्ष चित्रमिदम्
तदपि च शबरीदतं मत्तं मन्ध्वं न मामियं मुनिवाकः. ॥६९॥
किमधिकमतोऽस्ति चित्र मित्रं विपिनौकसां श्रुतिरहस्यम्
यद्दर्शनाय यतिभिः पतिभिः पृथ्व्या मृगायितमरण्ये. ॥७०॥
वासववैभवमूनं चक्रुः कपयोऽप्यहोऽद्भुतं शृणुत
पपुरमृतमागलं ददुरगनगखगमृगरिपुभ्य उत्सवतः. ॥७१॥
पत्युः करतस्त्वामप्युटजान्मामिव कथं बलाद्धृतवान्
न स मुद्रेऽत्र समुद्रे नौ नौवन्त्रातुमागतः कस्मात् ? ॥७२॥
स्वपतिस्त्वसतां हंता हंताहं तापमनुभवाम्यबला
तुल्यैवाधिसमुद्रे मुद्रे मुद्रेखया लिखितयाप्सु. ॥७३॥
अखिलप्रश्रयमात्रं सखि ! लक्ष्मीवान्स लक्ष्मणः कुशली.
नखिलक्षगुरुर्हरिरिव मखिलब्धास्त्रः स चापि वीरमणिः. ॥७४॥
स्वं भागविवादातुं हरिरिव हरिणेष्विहागमिष्यति किम्
मां सांत्वयितुमनाथां नूनं त्वं प्रेषितासि दयितेन. ॥७५॥
द्रष्टुं मातरिह त्वामार्यप्रहितोऽहमागतो दूतः ।
सूतः प्रथमं रविणा नलिनीमिव जयति सोऽस्त्रिपुरुहूतः ॥७६॥
ग्रीष्मे गज इव सरसीं त्वां सीतां काननेष्वनासाद्य
श्रांतस्वांतः श्रांत कांतः कां तव्द्यथां ब्रवीम्यंब ! ॥७७॥
गोष्पदमिव तीर्ण उदधिमयमहमबलोऽपि यस्य दासचरः
कथमर्णवभेकमरिं पत्रिपतिजवस्तरेन्न तस्य शरः. ॥७८॥
अदहदजभवप्रहितोऽ‍नंतबलोऽरिपुरमाशुगः स हरिः
अयमपि तथैव दूतः पश्यत पीतांबरश्रिया श्लिष्टः. ॥७९॥
को‍ऽप्याह यतो धर्मस्ततो जयः सत्यमिति कविप्रवरः,
यत्खलु विजितः सदनुगकपिना स पिनाकिवरसुरोन्मत्तः. ॥८०॥
न कपिरनुक्तोऽग्निरपि न परवान्वनभंगमरिपुरीदाहम्
किं तु क्षुब्धाः सत्या निश्वासा एव चक्रुरत्युष्णाः. ॥८१॥
असुरप्रियाभिरारात्पाखंडोक्तिभिरशंकमशिवाभिः
रुद्धा वने कलावुपनिषदिव कुटिलाशयाभिरेकसती. ॥८२॥
रक्षति कथमपि तन्वी देहादधिकं श्रुती दृशावपि सा
अरिसुंदरीविलापं मधुरं त्वामपि च पातुममृतमिव. ॥८३॥
कपयः स पयः केवलमब्धेस्तीर्णः सखा न बाहुभ्याम्
व्यक्तं नक्तंचरवरबलमपि कपिसैन्यदैन्यहरतेजाः. ॥८४॥
आर्यामपश्यमहितस्त्रीरुद्धां तां नितांततांततनुम्
अधिकंटकारिकावृति धर्मं इवोत्खातरोपितां जातिम्. ॥८६॥
बंधुरपि दस्यवे यः संश्रयदः स जडधी रिपोरिष्टः
किं प्रार्थ्यतेऽतिवेलं बध्यो लंध्यस्त्वया जनैश्चान्यैः. ॥८७॥
राज्ञा गुरुणा त्यक्तो न विषयसक्तः सतां मतोऽत्यर्थम्
दैवात्खलु समशीलव्यसनः प्रपतः सखा बिभीषण ! ते. ॥८८॥
जीवेत्याशीरुचिता दातुं नमतेऽविचार्य दत्ता श्रीः
न मनाक्पात्रविचारो नमनात्सर्वस्वदानमाश्चर्यम्. ॥८९॥
राम ! त्वया त्वयात्खलु समदुःखसुखः सखा समासादि
व्यसनमुदधिं सुदुस्तरमन्योन्यबलेन यत्सुखं तीर्णौ. ॥९०॥
अविलंधितमर्यादं बबंध बंधुं गुरुं ललंघ बली
भक्तं जघान शंभोर्मुनिसुतमपि कोऽपि हंत ! दारकृते. ॥९१॥
वंदे तं देवीनां हृतशोकं राक्षसीविलापगुरुम्
जगुरुंच्छवृत्तयो यं तापापहमस्त्रभोगिनामगुरुम्. ॥९२॥
जटिलस्तमालनीलो वनवासिसखः पतंगकुलपालः
कश्चन ददाह खेचरभूभृतमधिजलधि तापहा दावः. ॥९३॥
मेघेन केनचिदहो ! धनुष्मता भूगतेन शरवृष्टया
जलपूर्णा वाहिन्यः खगमा निर्जीवनीकृताः सिंधौ. ॥९४॥
तृणकाननं ददाह न कीलालनदीः ससर्ज तापहरः
कश्चन पतंगकुलजस्तमालनीलस्तनूनपात्तरुणः. ॥९५॥
कपिसख एकः कश्चन चक्रे नाकौकसां क्षणात्कुशलम्
यत्कुलिशकरसुदुष्करमकालकूटाशशूलशिखिसाध्यम्. ॥९६॥
आस्तां यद्वधमकरो रक्षोधिपते रणे पपेन त्वम्
सोऽपि प्राज्यं राज्यं प्राणान्प्रजहौ न तु प्रतिज्ञां स्वाम्. ॥९७॥
आपदमाप्तुं स्पृष्टस्तापदमुग्रं कथं परकलत्रम्
पापदवानलदग्धो हा ! पदमखिलश्रियां त्वमपि वीर ! ॥९८॥
अन्यकलत्रं विषमं विषवह्नेरपितमां यदामूलम्
स्पृष्ट्वैकदैव दग्धो गुणदोषज्ञोऽपि बत ! समंत्रिकुलः ॥९९॥
नक्तमिवाशोकवनेऽप्यनिरीक्ष्य प्रियतमं तमांतांता
दृष्ट्वा तु वह्निकुंडेऽप्यहनीव सरोजनी बभौ कांता. ॥१००॥
सुहृदो वियोगयोगौ नान्यौस्तस्तापतोषयोर्हतुः
प्रमदवने ग्लानिमिता तुष्टिं दहनेऽपि यत्प्रिये दृष्टे. ॥१०१॥
विमलकनकमूर्तिरिव ज्वलनेऽप्यसि देवि ! लब्धपरभागा
मा गा विषादमधिकां नुतिमाप्ता त्वं जगत्सु यदनागाः. ॥१०२॥
अवताद्बिभीषणस्त्वां लंके ! यं केसरीव मेरुगुहाम्
आकल्पमचलपदभागेष पतिर्ध्रुवसखस्तवास्तु सुखी. ॥१०३॥
भवमिव दुस्तरमुदधिं तीर्णास्त्वां देवि ! सुगतिमिच्छंतः
अवलंब्य स्वोत्पादितमचलात्मानं सुपुत्रमिव सेतुम्. ॥१०४॥
सुषमाजितघनशंपे पंपेयं पेयवाणि चिरमस्याम्
सुदति ! रुदितमयि शिखिभिर्नृत्यद्भिरसद्भिरिव भृशं मुमुदे. ॥१०५॥
पंचवटि ! त्वय्युषिताः शमयोध्यायामिवांब ! लब्धाः स्मः
मामियमितारिकीर्त्या सह सिंधुं स्वरपगेव कालिंद्या. ॥१०६॥
भो मातर्गोदावरि ! यावरिकरिहरिपती सतीसहितौ
सुचिरमुषितौ त्वदंके कौसल्याया इवांब ! तावेतौ. ॥१०७॥
तुभ्यं बद्धोंऽजलिरयमीशशिरःसारसासने देवि !
गुर्वीमुल्लंघ्य त्वां तीर्णाः कथमापदं प्रतिज्ञां स्वाम्. ॥१०८॥
तृषितोऽसि बालचातक ! तात ! करुणयागतोऽद्य जीवनदः
पश्योन्मीलय नयने नय नेहामृतमनेहसं पातुम्. ॥१०९॥
शृणुत मयूरा यं प्रियमीक्षितुमत्यंतमुत्सुका मुदिरम्
स महाभागत आगत उत्सव एकान्तिकेऽध नृत्यध्वम्. ॥११०॥
सिंहासन किं हा ! स न पतिरद्य स्मर्यते महेंद्रसखः
येनास्यखिलनृपतिपतिनतिभाजनममृतपायिपीतयशः. ॥१११॥
नाके साकेतयशोऽरुचिममृतरसेऽमृतांधसामकरोत्
सत्ये रत्येकपदं स्वं तांडवपंडितं मृडानीशम्. ॥११२॥
पस्पर्श पदा साध्वीं विश्वस्तं वीरमपि जघान वने
तत्याज सतीं कोऽपीनवंशजानां सतां मतः कुंपीतः. ॥११३॥
यदमृतममृतजुषामपि यच्च सुखं योगसंपदामतुलम्
उपनिषदां यत्तत्वं तदयोध्यावासिनां विधेयमहो ! ॥११४॥
मातरयोध्ये ! भुक्ताः पतयः पारेशतं त्वया सत्या
स्मरसि कथं न तदधुना मधुना ननु मोहितामुना पत्या. ॥११५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:42.7100000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

classical theermodynamics

  • अनाधुनिक ऊष्मागतिकी 
RANDOM WORD

Did you know?

Wife disgracing, defaming her husband, what is the solution ?
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.