संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि|
श्रीविठ्ठलार्तिक्यम्

श्रीविठ्ठलार्तिक्यम्

महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’


जय जय विठ्ठल भगवन् करुणामयमूर्ते !
धूर्तेतरसकृदुपनतसर्वेप्सितपूर्ते ! -ध्रुव० ॥
श्रुतिशास्त्राचारानधिकारादतिमलिना
जीवास्तव दृष्टस्मृतवंदितपदनलिनाः
ते सांजलिना दूरान्नमिताः खलु कलिना
कालेनापि कवलिताखिलजगता बलिना. जय जय० ॥१॥
भवताधिष्ठितमनिशं भीमरथीतेरम्
वैकुंठीकृतमिह नो रमयति कं धीरम्
जडमपि कुरुषे सुपटुं वाचि यथा कीरम्
शिरसि बिभर्षि घृतं ते येन चरणनीरम्. । जय जय० ॥२॥
त्वां मेघमिव मयूरा दृष्ट्वा तव भृत्याः
प्रेमाश्रुप्लुतनयना भृशविस्मृतकृत्याः
व्यक्तं मंक्षु भवंति प्रमुदादृतकृत्या
मुक्तिर्वृणुते तानुरुगाय ! मनोवृत्त्या. । जय जय० ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP