चतुर्थः पाद: - सूत्र २२-२३

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


भावशब्दाच्च ॥२२॥

भावशब्दाच्च ॥ उद्नीथमुपासीत सामोपासीताहमुक्थमस्मीति विद्यादित्यादयश्च विस्पष्टा विधिशब्दा: श्रूयन्ते ते च स्तुतिमात्रप्रयोजनतायां व्याहन्येरन् ।
तथा च न्यायविदां स्नरणं कुर्यात्क्रियेत कर्तव्यं भवेत्स्यादिति पञ्चमम् ।
एतत्स्यात्सर्ववेदेषु नियतं विधिलक्शणमिति ।
लिङाद्यर्थो विधिरिति मन्यमानास्त एवं स्मरन्ति ।
प्रतिप्रकरणं च फलानि श्राव्यन्ते ।
आपयिता ह वै कामानां बवति ।
एष हयेव कामानस्येष्टे ।
कल्पन्ते हास्मै लोका ऊर्ध्वाश्चावृत्ताश्चेत्यादीनी ।
तस्मादप्युपासनविधानार्था उद्नीथादिश्रुतय: ॥२२॥

पारिप्लवार्था इति चेन्न विशेषितत्वात् ॥२३॥

पारिप्लवार्था इति चेन्न विशेषितत्वात् ॥ अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुर्मैत्रेयी च कात्यायनी च प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम ।
जानश्रुतिर्ह पौत्रायण:  श्रद्धादेयो बहुदायी बहुपाक्य आसेत्येवमादिषु वेदान्तपठितेष्वाख्यानेषु संशय: किमिमानि पारिप्लवप्रयोगार्थान्याहोस्वित्संनिहितविद्याप्रतिपत्त्यर्थनीति पारिप्लवार्था इमा आख्यानश्रुतय: ।
आख्यानसामान्यात् ।
आख्यानप्रयोगस्य च पारिप्लवे चोदितत्वात् ।
ततश्च विद्याप्रधानत्वं वेदान्तानां न स्यात् ।
मन्त्रवत्प्रयोगशेषत्वादिति चेत् । तन्न । कस्मात् ।
विशेषितत्वात् ।
पारिप्लवमाचक्षीतेति हि प्रकृत्य मनुर्वैवस्वतो राजेत्येवमादीनि कानिचिदेवाख्यानानि तत्र विशेष्यन्ते ।
आख्यानसामान्याच्चेत्सर्वगृहीति: स्यादनर्थकमेवेदं विशेषणं भवेत् ।
तस्मान्न पारिप्लवार्था एता आख्यानश्रुतय: ॥२३॥

N/A

References : N/A
Last Updated : December 21, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP