चतुर्थः पाद: - सूत्र ५०

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


अनाविष्कुर्वन्नन्वयात् ॥५०॥

अनाविष्कुर्वन्नन्वयात् ॥
तस्मादब्राम्हाण: पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेदिति बाल्यमनुष्ठेयतया श्रूयते ।
तत्र बालस्य भाव: कर्म वा बाल्यमिति तद्धिते सति बालभावस्य वयोविशेषस्येच्छया संपादयितुमशक्यत्वाद्यथोपपादमूत्रपुरीषत्वादिबालचरितमन्तर्गता वा भावविशुद्धिरप्ररूढेन्द्रियत्वं दम्भदर्पादिरहितत्वं वा बाल्यं स्यादिति संशय: ।
किं तावत्प्राप्तम् ।
कामचारवादभक्षणता यथोपपादमूत्रपुरीषत्वं च प्रसिद्धतरं लोके बाल्यमिति तदबहणं युक्तम् ।
ननु पतितत्वादिदोषप्राप्तेर्न युक्तं कामचारताद्याश्रयणम् । न ।
विद्यावत: संन्यासिनो वचनसामर्थ्याद्दोषनिवृत्ते: पशुहिंसादिष्विवेति ।
एवं प्राप्तिऽभिधीयते । न ।
वचनस्य गत्यन्तरसंभवात् ।
अविरुद्धे हयन्यस्मिन्बाल्यशब्दाभिलप्ये लभ्यमाने न विध्यन्तरव्याघातकल्पना युक्ता ।
प्रधानोपकाराय चाङ्गं विधीयते ।
ज्ञानाभ्यासश्च प्रधानमिह यतीनामनुष्ठेयम् ।
न च सकलायां बालचर्यायामङ्गीक्रियमाणायां ज्ञानाभ्यास: संभाव्यते ।
तस्मादान्तरो भावविशेषो बालस्याप्ररूढेन्द्रियत्वादिरिह बाल्यमाश्रीयते ।
तदाह अनाविष्कुर्वन्निति ।
ज्ञानाध्ययनधार्मिकत्वादिभिरात्मानमविख्यापयन्दम्भदर्पादिरहितो भवेत् ।
यथा बालोऽप्ररूढेन्द्रियतया न परेषामात्मानमाविष्कर्तुमीहते तद्वत् ।
एवं हयस्य वाक्यस्य प्रधानोपकार्यार्थानुगम उपपद्यते ।
तथा चोक्तं स्मृतिकारै: ।
यं न सन्तं न चासन्तं नाश्रुतं न बहुश्रुतम् ।
न सुवृत्तं न दुर्वृत्तं वेद कश्चित्स ब्राम्हाण: ।
गूढधर्माश्रितो विद्वानज्ञातचरितं चरेत् ।
अन्धवज्जडवच्चापि मूकवच्च महीं चरेत् ।
अव्यक्तलिङ्गोऽव्यक्ताचार इति चैवमादि ॥५०॥

N/A

References : N/A
Last Updated : December 21, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP