चतुर्थः पाद: - सूत्र ३४

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


सर्वथाऽपि त एवोभयलिङ्गात् ॥३४॥

सर्वथाऽपि त एवोभयलिङगात् ॥ सर्वथाऽप्याश्रमकर्मत्वपक्षे विद्यासहकारित्वपक्षे च त एवाग्निहोत्रादयो धर्मा अनुष्ठेया: ।
त एवेत्यवधारयन्नाचार्थ: किं निवर्तयति ।
कर्मभेदाशङ्कामिति ब्रूम: ।
यथा कुण्डपायिनामयने मासमग्निहोत्रं जुव्हतीत्यत्र नित्यादग्निहोत्रात्कर्मान्तरमुपदिश्यते नैवमिह कर्मभेदोऽस्तित्यर्थ: । कुत: ।
उभयलिङ्गात् ।
श्रुतिलिङ्गात्स्मृतिलिङ्गाच्च ।
श्रुतिलिङ्गं तावत्तमेतं  वेदानुवचनेन ब्राम्हाण विविदिषन्तीति सिद्धवदुत्पन्नरूपाण्येव यज्ञादीनि विविदिषायं विनियुङक्ते न तु जुव्हतीत्यादिवदपूर्वमेवैषां रूपमुत्पादयतीति स्मृतिलिङ्गमप्यनाश्रित: कर्मफलं कार्यं कर्म करोति य इति विज्ञातकर्तव्यताकमेव कर्म विद्योत्पत्त्यर्थं दर्शयति ।
यस्यैते चत्वारिंशत्संस्कारा इत्याद्या च संस्कारत्वप्रसिद्दिर्वैदिकेषु कर्मसु तत्संस्कृतस्य विद्योत्पत्तिमभिप्रेत्य स्मृतौ भवति तस्मात्साध्विदमभेदावधारणम् ॥३४॥

N/A

References : N/A
Last Updated : December 21, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP