चतुर्थः पाद: - सूत्र ३५-३८

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


अनभिभवं च दर्शयति ॥३५॥

अनभिभवं च दर्शयति ॥ सहकारित्वस्यैवैतदुपोद्वलकं लिङ्गदर्शनमनभिभवं च दर्शयति श्रुतिर्ब्रम्हाचर्यादिसाधनसंपन्नस्य रागादिभि: क्लेशैरेष हयात्मा न नश्यति यं ब्रम्हाचर्येणानुविन्दत इत्यादिना ।
तस्माद्यज्ञादीन्यास्रमकर्माणि च भवन्ति विद्यासहकारीणि चेति निश्चितम् ॥३५॥

अन्तरा चापि तद्दृष्टे: ॥३६॥

अन्तरा चापि तु तद्दृष्टे: ॥ विधुरादीनां द्रव्यादिसंपद्रहितानां चान्यतमाश्रमप्रतिपत्तिहीनानामन्तरालवर्तिनां किं विद्यायामधिकारोऽस्ति किं वा नास्तीति संशये नास्तीति तावत्प्राप्तम् ।
आश्रमकर्मणां विद्याहेतुत्वावधारणादाश्रमकर्मासंभवाच्चैतेषामिति ।
एवं प्राप्त इदमाह ।
अन्तरा चापि त्वनाश्रमित्वेन वर्तमानोऽपि विद्यायामधिक्रियते । कुत: । तदृष्टे ।
रैक्ववाचक्नवीप्रभृतीनामेवंभूतानामपि ब्रम्हावित्त्वश्रुत्युपलब्धे: ॥३६॥

अपि च स्मर्यते ॥३७॥

अपि च स्मर्यते ॥ संवर्तप्रभृतीनां च नग्नचर्यादियोगादनपेक्षिताश्रमकर्मणामपि महायोगित्वं स्मर्यत इतिहासे ॥३७॥

विशेषानुग्रहश्च ॥३८॥

ननु लिङ्गमिदं श्रुतिस्मृतिदर्शनमुपन्यस्तं का नु खलु प्राप्तिरीति साऽभिधीयते ॥
विशेषानुग्रहश्च ॥ तेषामपि च विधुरादीनामविरुद्धै: पुरुषमात्रसंबन्धिभिर्जपोपवासदेवताराधनादिभिर्धर्सविशेषैरनुग्रहो विद्याया: संभवति ।
तथा च स्मृति: - जप्येनैव तु संसिध्येदब्राम्हाणो नात्र संशय: ।
कुर्यादन्यन्न वा कुर्यान्मेत्रो ब्राम्हाण उच्यत इत्यसंभवादाश्रमकर्मणोऽपि जप्येऽधिकारं दर्शयति ।
जन्मान्तरानुष्ठितैरपि चाश्रमकर्मभि: संभवत्येव विद्याया अनुग्रह: ।
तथा च स्मृतिर्नेकजन्मसंसिद्धस्ततो याति परां गतिमिति जन्मान्तरसंचितानपि संस्कारविशेषानुग्रहीतृन्विद्यायां दर्शयति ।
द्दष्टार्था च विद्या प्रतिषेधाभावमात्रेणाप्यर्थिनमधिकरोति श्रवणादिषु ।
तस्माद्विधुरादीनामप्यधिकारो न विरुध्यते ॥३८॥

N/A

References : N/A
Last Updated : December 21, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP