TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

चतुर्थः पाद: - सूत्र २०

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


सूत्र २०
विधिर्वा धारणवत् ॥२०॥

विधिर्वा धारणवत् ॥ विधिर्वाऽयमाश्रमान्तरस्य न परामर्शमात्रम् ।
ननु विधित्वाभ्युपगम एकवाक्यताप्रतीतिरुपरुध्येत प्रतीयते चात्रैकवाक्यता पुण्यलोकफलास्त्रयो धर्मस्कन्धा ब्रम्हासंस्थता त्वमृतत्वफलेति । सत्यमेतत् ।
सतीमपि त्वेकवाक्यताप्रतीतिं परित्यज्य विधिरेवाभ्युपगन्तव्योऽपूर्वत्वात् ।
विध्यन्तरस्यादर्शनात् ।
विस्पष्टाच्चाश्रमान्तरप्रत्ययाद्नुणवादकल्पनयैकवाक्यत्वयोजनानुपपत्ते: ।
धारणबतायथाऽधस्ता त्स्मिधं धारयन्ननुद्रवेदुपरि हि देवेभ्यो धारयतीत्यव सत्यामप्यधोधारणनैकवाक्यताप्रतीतौ विधीयत एवोपरिधारणमपूर्वत्वात् ।
तथा चोक्तं शेषलक्षणे विधिस्तु धारणेऽपूर्वत्वादिति ।
तद्वदिहाप्याश्रमपरामर्शश्रुतिर्विधिरेवेति कल्प्यते ।
यदापि परामश एवायमाश्रमान्तराणां तदापि ब्रम्हासंस्थता तावत्संस्तवसामर्थ्यादवर्श्यंविधेयाऽभ्युपगन्तव्या ।
सा च किं चतुर्ष्वाश्रमेषु यस्य कस्यचिदाहोस्वित्परिव्राजकस्यैवेति विवेक्तव्यम् ।
यदि च ब्रम्हाचार्यान्तेष्वाश्रमेषु परामृश्यमानेषु परिव्राजकोऽपि परामृष्टस्ततश्चतुर्णामपयाश्रमाणां परामृष्टत्वाविशेषादनाश्रमित्वानुपपतेश्च य: कश्चिञ्चतुर्ष्वाश्रमेषु ब्रम्हासंस्थो भविष्यति ।
अथ न परामृष्टस्तत: परिशिष्यमाण: परिव्रडिव ब्रम्हासंस्थ इति सेत्स्यति ।
तत्र तप:शब्देन वेखानसग्राहिणा परामृष्ट: परिव्राडपीति केचित् । तदयुक्तम ।
न हि सत्यां गतौ वानप्रस्थविशेषणेन परिव्राजको ग्रहणमर्हति ।
यथाऽत्र ब्रम्हाचारिगृहमेविनावसाधारणेनैव स्वेन स्वेन विशेषणेन विशेषितावेवं भिक्षुवैखानसावपीति युक्तम् ।
तपश्चासाधारणो धर्मो वानप्रस्थानां कायक्लेशाप्रधानत्वात् ।
तप: शब्दस्य तत्र रूढे: ।
भिक्षोस्तु धर्म इन्द्रियसंयमादिलक्षणो नैव तप: शब्देनाभिलप्यते ।
चतुष्ट्वेन च प्रसिद्धा आश्रमास्त्रित्वेन परामृश्यन्त इत्यन्याय्यम् ।
अपि च भेदव्यपदेशोऽत्र भवति त्रय एते पुण्यलोकभाज एकोऽमृतत्वभागिति ।
पृथक्त्वे चैष भेदव्यपदेशोऽवकल्पते ।
न हयेवं भवति देवदत्तयज्ञदत्तौ मन्दप्रज्ञावन्यतरस्त्वनयोर्महाप्रज्ञ इति ।
भवति त्वेवं देवदत्तयज्ञदत्तौ मन्दप्रज्ञौ विष्णुमित्रस्तु महाप्रज्ञ इति ।
तस्मात्पूर्वे त्रय आश्रमिण: पुण्यलोकभाज: परिशिष्यमाण: परिव्राडेवामृतत्वभाक् ।
कथं पुनर्ब्रम्हासंस्थशब्दो योगात्प्रवर्तमान: सर्वत्र संभवन्परिव्राजक एवावतिष्ठेत ।
रूढयभ्युपगमे वाश्रममात्रादमृतत्वप्राप्तेर्ज्ञानानर्थक्यप्रसङ्ग इति ।
अत्रोच्यते ब्रम्हासंस्थ इति हि ब्रम्हाणि परिसमाप्तिरनन्यव्यापारतारूपं तन्निष्ठत्वमभिधीयते ।
तञ्च त्रयाणामाश्रमाणां न संभवति ।
स्वाश्रमविहितकर्माननुष्ठाने प्रत्यवायश्रवणात् ।
परिव्राजकस्य तु सर्वकर्मसंन्यासात्प्रत्यवायो न संभवत्यननुष्ठाननिमित्त: ।
शमदमादिस्तु तदीयो धर्मो ब्रम्हासंस्थताया उपोद्वलको न विरोधी ।
ब्रम्हानिष्ठत्वमेव हि तस्य शमदमाद्युपबृंहितं कर्म स्वाश्रमविहितं यज्ञादि चेतरषां तव्द्यतिक्रमे च तस्य प्रत्यवाय: ।
तथा च न्यास इति ब्रम्हा ब्रम्हा हि पर: परो हि ब्रम्हा तानि वा एतान्यवराणि तपांसि न्यास एवात्यरेचयत् ।
वेदान्तविज्ञानसुनिश्चितार्था: संन्यासयोगाद्यतय: शुद्धसत्त्वा इत्याद्या: श्रुतय: ।
स्मृतयश्च तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणा इत्याद्या ब्रम्हासंस्थस्य कर्माभावं दर्शयन्ति ।
तस्मात्परिव्राजकस्याश्रममात्रादमृतत्वप्राप्तेर्ज्ञानानर्थक्यप्रसङ्ग इत्येषोऽपि दोषो नावतरति ।
तदेवं परामर्शेऽपीतरेषामाश्रमाणां पारिव्राज्यं तावदब्रम्हासंस्थतालक्षणं लभ्येतैव ।
अनपेक्ष्यैव जाबालश्रुतिमाश्रमान्तरविधायिनीमयमाचार्येण विचार: प्रवर्तित: ।
विद्यत एव त्वाश्रमान्तरविधिश्रुति: प्रत्यक्षा ।
ब्रम्हाचर्यं परिसमाप्य गृही भवेद्नृही भूत्वा वनी भवेद्वनी भूत्वा प्रव्रजेत् ।
यदि वेतरथा ब्रम्हाचर्यादेव प्रव्रजेद्नृहाद्वा वनाद्वेति ।
न चेयं श्रुतिरनधिकृतविषया शक्या वक्तुम् ।
अविशेषश्रवणात् ।
पृथग्विधानाच्चानधिकृतानामथ पुनरेव व्रती वाऽव्रती वा स्नातको वाऽस्नानको वोत्सन्नाग्निरनग्निको वेत्यादिना ।
ब्रम्हाज्ञानपरिपाकाङ्गत्वाच्च पारिव्राज्यस्य नानधिकृतविषयत्वम् ।
तच्च दर्शयति ।
अथ परिव्राडिववर्णवासा मुण्डोऽपरिग्रह: शुचिरद्रोही भैक्षाणो ब्रम्हाभूयाय भवतीति ।
तस्मात्सिद्धा ऊर्ध्वरेतसाश्रमा: ।
सिंद्ध चोर्ध्वरेत: सु विधानाद्विद्याया: स्वातन्त्र्यमिति ॥२०॥
Translation - भाषांतर
N/A

References : N/A
Last Updated : 2014-12-21T00:01:26.9800000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

बरसात

  • स्त्री. 
  • पावसाळा ; पाऊसकाळ . 
  • वर्षाव ; वृष्टि . 
  • घोड्यास होणारा शैत्य रोग ; घोड्याच्या चार खवाटयांवर होणारें दर्द . - अश्वप २ . २४० . 
More meanings
RANDOM WORD

Did you know?

Navchandi Paath explain why it should be done?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site