चतुर्थः पाद: - सूत्र ४१-४३

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


न चाधिकारिकमपि पतनानुमानात्तदयोगात् ॥४१॥

न चाधिकारिकमपि पतनानुमानात्तदयोगात् ॥ यदि नैष्ठिको ब्रम्हाचारी प्रमादादवकीर्येत किं तस्य ब्रम्हाचार्यवकीर्णी नैऋतं गर्दभमालभेतेत्सेतत्प्रायश्चित्तं स्यादुत नेति । नेत्युच्यते ।
यदप्यधिकारलक्षणे निर्णीतं प्रायश्चित्तमवकीर्णिपशुश्च तद्वदाधानस्याप्राप्तक लत्वादिति तदपि न नैष्ठकस्य भवितुमर्हति ।
किं कारणम् ।
आरूढो नैष्टिकं धर्मं यरतु प्रच्यवते पुन: ।
प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महेत्यप्रतिसमाधेयपतनस्मरणाच्छिन्नशिरस इव प्रतिक्रियानुपपत्ते: ।
उपकुर्वाणस्य तु ताद्दक्यतनस्मरणाभावादुपपद्यते तत्प्रायश्चित्तम् ॥४१॥

उपपूर्वमपि त्वेके भावमशनवत्तदुक्तम् ॥४२॥

उपपूर्वमपि त्वेके भावमशनवत्तदुक्तम् ॥ अपि त्वेक आचार्या उपपातकमेवैतदिति मन्यते ।
यन्नैष्ठिकस्य गुरुदारादिभ्योऽन्यत्र ब्रम्हाचर्यं विशीर्येंत न तन्महापातकं भवति गुरुतल्पादिषु महापातकेष्वपरिगणनात् ।
तस्मादुपकौर्वाणवन्नैष्ठिकस्यापि प्रायश्चित्तस्य भावमिच्छन्ति ब्रम्हाचारित्वाविशेषादवकीर्णित्वाविशेषाच्च । अशनवत् ।
यथा ब्रम्हाचारिणो मधुमांसाशने व्रतलोप: पुन: संस्कारश्चैवमिमि ।
ये हि प्रायश्चित्तस्याभावमिच्छन्ति न तेषां मूलमुपलभ्यते ये तु भावमिच्छन्ति तेषां ब्रम्हाचार्यवकीर्णीत्येतदविशेषश्रवणं मूलम् ।
तस्माद्भावो युक्ततर: - तदुक्तं प्रमाणलक्षणे समा विप्रतिपत्ति: स्याच्छास्त्रस्था वा तन्निमित्तत्वादिति ।
प्रायश्चित्ताभावस्मरणं त्वेवं सति यत्नगौरवोत्पादनार्थमिति व्याख्यातव्यम् ।
एवं भिक्षुवैखानसयोरपि वानप्रस्थो दीक्षाभेदे कृच्छ्रं द्वादशरात्रं चरित्वा महाकक्षं वर्धयेद्भिक्षुर्वानप्रस्थवत्सोमवल्लिवर्जं स्वशास्त्रसंस्कारश्वेत्येवमादिप्रायश्चित्तस्मरणमनुसर्तव्यम् ॥४२॥

बहिस्तूभयथापि स्मृतेराचाराच्च ॥४३॥

बहिस्तूभयथापि स्मृतेराचाराच्च ॥ यद्यूर्ध्वरतेसां स्वाश्रमेभ्य: प्रच्यवनं महापातकं यदि वोपपातकमुबयथाऽपि शिष्टैस्ते बहि: कर्तव्या: ।
आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते पुन: ।
प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महेति ।
आरुढपतित्म विप्रं मण्डलाच्च विनि:सृतम् ।
उद्बद्धं कृमिदष्टं च स्पृष्टवा चान्द्रायणं चरोदिति चैवमादिनिन्दातिशयस्मृतिभ्य: ।
शिष्टाचाराच्च ।
न हि यज्ञाध्ययनविवाहादीनि तै: सहाचरन्ति शिष्टा: ॥४३॥

N/A

References : N/A
Last Updated : December 21, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP