TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

नैषधीयचरितम् - पञ्चदश सर्गः

महाकवि श्रीहर्षरचितं नैषधीयचरितम् हा ग्रंथ म्हणजे संस्कृत भाषेतील अतिउत्तम रचना होय.


पञ्चदश सर्गः
अथोपकार्या निषधावनीपतिः
निजामयासीद्वरणस्रजाञ्चितः ।
वसूनि वर्षन्सुबहूनि बन्दिनां
विशिष्यभैमीगुणकीर्तनाकृताम् ॥१॥
तथा पथि त्यागमयं वितीर्णवान्
यथातिभाराधिगमेन मागधैः ।
तृणीकृतं रत्ननिकाय मुच्चकैः
चिकाय लोकश्चिरमुञ्छमुत्सुकः ॥२॥
त्रपास्य न स्यात्सदसि स्त्रियान्वयात्
कुतोऽतिरूपः सुखभाजनं जनः ।
अमूदृशी तत्कविबन्दिवर्णनैः
अवाक्कृता राजकरञ्जिलोकवाक् ॥३॥
अदोषतामेव सतां विवृण्वते
द्विषां मृषादोषकणाधिरोपणाः ।
न जातु सत्ये सति दूषाणे भवे-
दलीकमाधातुमवद्यमुद्यमः ॥४॥
विदर्भराजोऽपि समं तनूजया
प्रविश्य हृष्यन्नवरोधमात्मनः ।
शशंस देवीमनुजातसंशयां
प्रतीच्छ जामातरमुत्सुके नलम् ॥५॥
तनुत्विषा यस्य तृणं स मन्मथा
कुलश्रिया यः पवितास्मदन्वयम् ।
जगत्त्रयीनायकमेलके वरं
सुतां परं वेद विवेक्तुमीदृशम् ॥६॥
सृजन्तु पाणिग्रहमङ्गलोचिता
मृगीदृशः स्त्रीसमयस्पृशः क्रियाः ।
श्रृतिस्मृतीनां तु वयं विदध्महे
विधीनिति स्माह च निर्ययौ च सः ॥७॥
निरीय भूपेन निरीक्षितानना
शशंस मौहूर्तिकसंसदंशकम् ।
गुणैररीणैरुदयास्तनिस्तुषां
तदा स दातुं तनयां प्रचक्रमे ॥८॥
अथावदद्दूतमुखः स नैषधं
कुलं च बाला च ममानुकम्प्यताम् ।
स पल्लवत्वद्य मनोरथाङ्क्रुर-
श्चिरेण नस्त्वच्चरणोदकैरिति ॥९॥
तथोत्थितं भीमवचःप्रतिध्वनिं
निपीय दूतस्य स वक्त्रगह्वरात् ।
व्रजामि वन्दे चरणौ गुरोरिति
ब्रुवन्प्रदाय प्रजिघाय तं बहु ॥१०॥
निपीतदूतालपितस्ततो नलं
विदर्भभर्तागमयांबभूव सः ।
निशावसाने श्रुतताम्रचूडवाग्
यथा रथाङ्गस्तपनं धृतादरः ॥११॥
क्वचित्तदालेपनदानपण्डिता
कमप्यहंकारमगात्पुरस्कृता ।
अलम्भि तुङ्गासनसंनिवेशना-
दपूपनिर्माणविदग्धयादरः ॥१२॥
मुखानि मुक्तामणितोरणोद्गतै-
र्मरीचिभिः पान्थविलासमाश्रितैः ।
पुरस्य तस्याखिलवेश्मनामपि
प्रमोदहासच्छुरितानि रेजिरे ॥१३॥
पथामनीयन्त तथाधिवासनान्
मधुव्रतानामपि दत्तविभ्रमाः ।
वितानतामातपनिर्भयास्तदा
पटच्छिदाकालिकपुष्पजाः स्रजः ॥१४॥
विभूषणैः कञ्चुकिता बभुः प्रजा
विचित्रचित्रैः स्नपितत्विषो गृहाः ।
बभूव तस्मिन्मणिकुट्टिमैः पुरे
वपुः स्वमुर्व्याः परिवर्तितोपमम् ॥१५॥
तदा निसस्वानतमां घनं घनं
ननाद तस्मिन्नितरां ततं ततम् ।
अवापुरुच्चैः सुषिराणि राणिताम्
अमानमानद्धमियत्तयाध्वनीत् ॥१६॥
विपञ्चिराच्छादि न वेणुभिर्न ते
प्रणीतगीतैर्न च तेऽपि झर्झरैः ।
न ते हुहुक्केन न सोऽपि ढक्कया
न मर्दलैः सापि न तेऽपि ढक्कया ॥१७॥
विचित्रवादित्रनिनादमूर्च्छितः
सुदूरचारी जनतामुखारवः ।
ममौ न कर्णेषु दिगन्तदन्तिनां
पयोधिपूरप्रतिनादमेदुरः ॥१८॥
उदस्य कुम्भीरथ शातकुम्भजाः
चतुष्कचारुत्विषि वेदिकोदरे ।
यथाकुलाचारमथावनीन्द्रजां
पुरन्ध्रिवर्गः स्नपयांबभूव ताम् ॥१९॥
विजित्य दास्यादिव वारिहारिताम्
अवापितास्तत्कुचयोर्द्वयेन ताः ।
शिखामवाक्षुः सहकारशाखिन-
स्त्रपाभरम्लानिमिवानतैर्मुखैः ॥२०॥
असौ मुहुर्जातजलाभिषेचना
क्रमाद्दुकूलेन सितांशुनोज्ज्वला ।
द्वयस्य वर्षाशरदां तदातनीं
सनाभितां साधु बबन्ध संध्यया ॥२१॥
पुरा प्रभिन्नाम्बुददुर्दिनीकृतां
निनिन्द चन्द्रद्युतिसुन्दरीं दिवम् ।
शिरोरुहौघेण घनेन वर्षता
क्वचिद्दुकूलेन सितांशुनोज्ज्वला ॥२२॥
विरेजिरे तच्चिकुरोत्कराः किराः
क्षाणं गलन्निर्मलवारिविप्रुषाम् ।
तमःसुहृच्चामरनिर्जयार्जिताः
सिता वमन्तः खलु कीर्तिमुक्तिकाः ॥२३॥
म्रदीयसा स्नानजलस्य वाससा
प्रमार्जनेनाधिकमुज्ज्वलीकृताः ।
अदभ्रमभ्राजत साश्मशाणनात्
प्रकाशरोचिःप्रतिमेव हेमजा ॥२४॥
तदा तदङ्गस्य बिभर्ति विभ्रमं
विलेपनामोदमुचः स्फुरद्रुचः ।
दरस्फुरत्काञ्चनकेतकीदलात्
सुवर्णमभ्यस्यति सौरभं यदि ॥२५॥
अवापितायाः शुचिवेदिकान्तरं
कलासु तस्याः सकलासु पण्डिताः ।
क्षणेन सख्यश्चिरशिक्षणैः स्फुटं
प्रतिप्रतीकं प्रतिकर्म निर्ममुः ॥२६॥
विनापि भूषामवधिः श्रियामियं
व्यभूषि विज्ञाभिरदर्शि चाधिका ।
न भूषयैषाधिचकास्ति किं तु सा
नयेति कस्यास्तु विचारचातुरी विधाय ॥२७॥
विधाय बन्धूकपयोजपूजने
कृतां विधोर्गन्धफलीबलिश्रियम् ।
निनिन्द लब्धाधरलोचनार्चनं
मनःशिलाचित्रकमेत्य तन्मुखम् ॥२८॥
महीमधोनां मदनान्धतातमी-
तमःपटारम्भणतन्तुसंततिः ।
अबन्धि तन्मूर्धजपाशमञ्जरी
कयापि धूपग्रहधूमकोमला ॥२९॥
पुनःपुनः काचन कुर्वती कच-
च्छटाधिया धूपजधूमसंयमम् ।
सखी स्मितैस्तर्किततन्निजभ्रमा
बबन्ध तन्मूर्धजचामरं चिरात् ॥३०॥
बलस्य कृष्टेव हलेन भाति या
कलिन्दकन्या घनभङ्गभङ्गुरा ।
तदार्पितैस्तां करुणस्य कुड्नलैः
जहास तस्याः कुटिला कचच्छटा ॥३१॥
धृतैतया हाटकपट्टिकालिके
बभूव केशाम्बुदविद्युदेव सा ।
मुखेन्दुसंबन्धवशात्सुधाजुषः
स्थिरत्वमूहे नियतं तदायुषः ॥३२॥
ललाटिकासीमनि चूर्णकुन्तला
बभुः स्फुटं भीमनरेन्द्रजन्मनः ।
मनःशिलाचित्रकदीपसंभवा
भ्रामीभृतः कज्जलधूमवल्लयः ॥३३॥
अपाङ्गमालिङ्ग्य तदीयमुच्चकै-
रदीपि रेखा जनिताञ्जनेन या ।
अपाति सूत्रं तदिव द्वितीयया
वयःश्रिया वर्धयितुं विलोचने ॥३४॥
अनङ्गलीलाभिरपाङ्गधाविनः
कनीनिकानीलमणेः पुनः पुनः ।
तमिस्रवंशप्रभवेन रश्मिना
स्वपद्धतिः सा किमरञ्जि नाञ्जनैः ॥३५॥
असेविषातां सुषमां विदर्भ-
जादृशाववाप्याञ्जनरेखयाऽन्वयम् ।
भुजद्वयज्याकिणपद्धतिस्पृशोः
स्मरेण बाणीकृतयोः पयोजयोः ॥३६॥
तदक्षितत्कालतुलागसा नखं
निखाय कृष्णस्य मृगस्य चक्षुषी ।
विधिर्यदुद्धर्तुमियेष तत्तयो-
रदूरवर्तिक्षतता स्म शंसति ॥३७॥
विलोचनाभ्यामतिमात्रपीडिते
वतंसनीलाम्बुरुहद्वयीं खलु ।
तयोः प्रतिद्वन्द्विधियाधिरोपयां-
बभूवतुर्भीमसुताश्रुती ततः ॥३८॥
धृतं वतंसोत्पलयुग्ममेतया
व्यराजदस्यां पतिते दृशाविव ।
मनोभुवान्ध्यं गमितस्य पश्यतः
स्थिते लगित्वा रसिकस्य कस्यचित् ॥३९॥
विदर्भपुत्रीश्रवणावतंसिका-
मणीमहःकिंशुककार्मुकोदरे ।
उदीतनेत्रोत्पलबाणसंभृति-
र्नलं परं लक्ष्यमवैक्षत स्मरः ॥४०॥
अनाचरत्तथ्यमृषाविचारणां
तदाननं कर्णलतायुगेन किम् ।
बबन्ध जित्वा मणिकुण्डले विधू
द्विचन्द्रबुद्ध्या कथितावसूयकौ ॥४१॥
अवादि भैमी परिधाप्य कुण्डले
वयस्ययाभ्यामभितः समन्वयः ।
त्वदाननेन्दोः प्रियकामजन्मनि
श्रयत्ययं दौरुधरीं धुरं ध्रुवम् ॥४२॥
निवेशितं यावकरागदीप्तये
लगत्तदीयाधरसीम्नि सिक्थकम् ।
रराज तत्रैव निवस्तुमुत्सुकं
मधूनि निर्धूय सुधासधर्मणि ॥४३॥
स्वरेण वीणेत्यविशेषणं पुरा
स्फुरत्तदीया खलु कण्ठकन्दली ।
अवाप्य तन्त्रीरथ सप्त मुक्तिका-
सरानराजत्परिवादिनी स्फुटम् ॥४४॥
उपास्यमानाविव शिक्षितुं
ततो मृदुत्वमप्रौढमृणालनालया ।
विरेजतुर्माङ्गलिकेन संगतौ
भुजौ सुदत्या वलयेन कम्बुनः ॥४५॥
पदद्वयेऽस्या नवयावरञ्जना
जनैस्तदानीमुदनीयतार्पिता ।
चिराय पद्मौ परिरभ्य जाग्रती
निशीव विश्लिष्य नवा रविद्युतिः ॥४६॥
कृतापराधः सुतनोरनन्तरं
विचिन्त्य कान्तेन समं समागमम् ।
स्फुटं सिषेव कुसुमेषुपावकः
स रागचिह्नश्चरणौ न यावकः ॥४७॥
स्वयं तदङ्गेषु गतेषु चारुतां
परस्परेणैव विभूषितेषु च ।
किमूचिरेऽलंकरणानि तानि तद्
दृथैव तेषां करणं बभूव यत् ॥४८॥
क्रमाधिकामुत्तरमुत्तरं श्रियं
पुपोष यां भूषणचुम्बनैरियम् ।
पुरः पुरस्तस्थुषि रामणीयके
तया बबाधेऽवधिबुद्धिधोरणिः ॥४९॥
मणीसनाभौ मुकुरस्य मण्डले
बभौ निजास्यप्रतिबिम्बदर्शिनी ।
विधोरदूरं स्वमुखं विधाय सा
निरूपयन्तीव विशेषमेतयोः ॥५०॥
जितस्तदास्येन कलानिधिर्दधे
द्विचन्द्रधीसाक्षिकमायकायताम् ।
तथापि जिग्ये युगपत्सखीयुग-
प्रदर्शितादर्शबहूभविष्णुना ॥५१॥
किमालियुग्मार्पितदर्पणद्वये
तदास्यमेकं बहु चान्यदम्बुजम् ।
हिमेषु निर्वाप्य निशासमाधिभिः
तदीयसालोक्यमितं व्यलोक्यत ॥५२॥
पलाशदामेतिमिलच्छिलीमुखै-
र्वृता विभूषामणिरश्मिकार्मुकैः ।
अलक्षि लक्षैर्धनुषामसौ तदा
रतीशसर्वस्वतयाऽभिरक्षिता ॥५३॥
विशेषतीर्थैरिव जह्नुनन्दिनी
गुणैरिवाजानिकरागभूमिता ।
जगाम भाग्यैरिव नीतिरुज्ज्वलै-
र्विभूषणैस्तत्सुषमा महार्धताम् ॥५४॥
नलात्स्ववैश्वस्त्यमनाप्तुमानता
नृपस्त्रियो भीममहोत्सवागताः ।
तदङ्घ्रिलाक्षामदधन्त मङ्गलं
शिरःसु सिन्दूरमिव प्रियायुषे ॥५५॥
अमोघभावेन सनाभितां गताः
प्रसन्नगीर्वाणवराक्षरस्रजाम् ।
ततः प्रणम्राधिजगाम सा ह्रिया
गुरुर्गुरुब्रह्मपतिव्रताशिषाः ॥५६॥
तथैव तत्कालमथानुजीविभिः
प्रसाधनासञ्जनशिल्पपारगैः ।
निजस्य पाणिग्रहणक्षणोचिता
कृता नलस्यापि विभोर्विभूषणा ॥५७॥
नृपस्य तत्राधिकृताः पुनः पुन-
र्विचार्य तान्बन्धमवापिपन्कचान् ।
कलापलीलोपनिधिर्गरुत्त्यजः
 स यैरपालापि कलापिसंपदः ॥५८॥
पतत्त्रिणां द्राधिमशालिना धनु-
र्गुणेन संयोगजुषां मनोभुवः ।
कचेन तस्यार्जितमार्जनश्रिया
समेत्य सौभाग्यमलम्भि कुङ्नलैः ॥५९॥
अनर्ध्यरत्नौघमयेन मण्डितो
रराज राजा मुकुटेन मूर्धनि ।
वनीपकानां स हि कल्पभूरुह-
स्ततो विमुञ्चन्निव मञ्जुमञ्जरीम् ॥६०॥
नलस्य भाले मणिवीरपट्टिका-
निभेन लग्नः परिधिर्विधोर्बभौ ।
तदा शशाङ्काधिकरूपतां गते
तदानने मातुमशक्नुवन्निव ॥६१॥
बभूव भैम्याः खलु मानसौकसं
जिघांसतो धैर्यभरं मनोभुवः ।
उपभ्रु तद्वर्तुलचित्ररूपिणी
धनुःसमीपे गुलिकेव संभृता ॥६२॥
अचुम्बि या चन्दनबिन्दुमण्डली
नलीयवक्त्रेण सरोजतर्जिना ।
श्रियं श्रिता काचन तारकासखी
कृता शशाङ्कस्य तयाङ्कवर्तिनी ॥६३॥
न यावदग्निभ्रममेत्युदूढतां
नलस्य भैमीति हरेर्दुराशया ।
स बिन्दुरिन्दुः प्रहितः किमस्य सा
न वेति भाले पठितुं लिपीमिव ॥६४॥
कपोलपालीजनिजानुबिम्बयोः
समागमात्कुण्डलमण्डलद्वयी ।
नलस्य तत्कालमवाप चित्तभूः
अथ स्फुरच्चक्रचतुष्कचारुताम् ॥६५॥
श्रितास्य कण्ठं गुरुविप्रवन्दना-
द्विनम्रमोलेश्चिबुकाग्रचुम्बिनी ।
अवाप मुक्तावलिरास्यचन्द्रमः
स्रवत्सुधातुन्दिलबिन्दुवृन्दताम् ॥६६॥
यतोऽजनि श्रीर्बलवान्बलं द्विषन्
बभूव यस्याजिषु वारणेन सः ।
अपूपुरत्तान्कमलार्थिनो घनान्
समुद्रभावं स बभार तद्भुजः ॥६७॥
कृतार्थयन्नर्थिजनाननारतं
बभूव तस्यामरभूरुहः करः ।
तदीयमूले निहितं द्वितीयवद्
द्ध्रुवं दधे कङ्कणमालवालताम् ॥६८॥
रराज दोर्मण्डनमण्डलीजुषोः
स वज्रमाणिक्यसितारुणत्विषोः ।
मिषेण वर्षन्दशदिङ्मुखोन्मुखौ
यशःप्रतापाववनीजयार्जितौ ॥६९॥
घने समस्तापघनावलम्बिनां
विभूषणानां मणिमण्डले नलः ।
स्वरूपरेखामवलोक्य निष्फली-
चकार सेवाचणदर्पणार्पणाम् ॥७०॥
व्यलोकि लोकेन न केवलं चलन्
मुदा तदीयाभरणाऋपणाद्युतिः ।
अदर्शि विस्फारितरत्नलोचनैः
परस्परेणेव विभूषणैरपि ॥७१॥
ततोऽनु वार्ष्णेयनियन्तृकं रथं
युधि क्षितारिक्षितिभृज्जयद्रथः ।
नृपः पृथासूनुरिवाधिरूढवान्स
जन्ययात्रामुदितः किरीटवान् ॥७२॥
विदर्भनाम्नस्त्रिदिवस्य वीक्षितुं
रसोदयादप्सरसस्तमुज्ज्वलम् ।
गृहाद्गृहादेत्य धृतप्रसाधना
व्यराजयन्राजपथानथाधिकम् ॥७३॥
अजानती कापि विलोकनोत्सुका
समीरधूतार्धमपि स्तनांशुकम् ।
कुचेन तस्मै चलतेऽकरोत्पुरः
पुराङ्गना मङ्गलकुम्भसंभृतिम् ॥७४॥
सखीं नलं दर्शयमानयाङ्कतो
जवादुदस्तस्य करस्य कङ्कणे ।
विषज्य हारैस्त्रुटितैरतर्कितैः
कृतं कयापि क्षणलाजमोक्षणम् ॥७५॥
लसन्नखादर्शमुखाम्बुजस्मित-
प्रसूनवाणीमधुपाणिपल्लवम् ।
यियासतस्तस्य नृपस्य जज्ञिरे
प्रशस्तवस्तूनि तदेवयौवतम् ॥७६॥
करस्थताम्बूलजिघत्सुरेकिका
विलोकनैकाग्रविलोचनोत्पला ।
मुखे निचिक्षेप मुखद्विराजता-
रुषेव लीलाकमलं विलासिनी ॥७७॥
कयापि वीक्षाविमनस्कलोचने
समाज एवोपपतेः समीयुषः ।
घनं सविघ्नं परिरम्भसाहसैः
तदा तदालोकनमन्वभूयत ॥७८॥
दिदृक्षुरन्या विनिमेषावीक्षणां
नृणामयोग्यां दधती तनुश्रियम् ।
पदाग्रमात्रेण यदस्पृशन्महीं
न तावता केवलमप्सरोऽभवत् ॥७९॥
विभूषणस्रंसनशंसनार्पितैः
करप्रहारैरपि धूननैरपि ।
अमान्तमन्तः प्रसभं पुराऽपरा
सखीषु संमापयतीव संमदम् ॥८०॥
वतंसनीलाम्बुरुहेण किं दृशा
विलोकमाने विमनीबभूवतुः ।
अपि श्रुती दर्शनसक्तचेतसां
न तेन ते शुश्रुवतुर्मृगीदृशाम् ॥८१॥
काश्चिन्निर्माय चक्षुःप्रसृतिचुलुकितं तास्वशङ्कन्त कान्ता
मौग्ध्यादाचूडमोघैर्निचुलितमिव तं भूषणानां मणीनाम् ।
साहस्रीभिर्निमेषाकृतमतिभिरयं दृग्भिरालिङ्गितः किं
ज्योतिष्टोमादियज्ञश्रुतिफलजगतीसार्वभौमभ्रमेण ॥८२॥
भवन्सुद्युम्नः स्त्री नरपतिरभूद्यस्य जननी
तमुर्वश्याः प्राणानपि विजयमानस्तनुरुचा ।
हरारब्धक्रोधेन्धनमदनसिंहासनमसा-
वलंकर्मीणश्रीरुदभवदलंकर्तुमधुना ॥८३॥
अर्थी सर्वसुपर्वणां पतिरसावेतस्य यूनः कृते
पर्यत्याजि विदर्भराजसुतया युक्तं विशेषज्ञया ।
अस्मिन्नाम तया वृते सुमनसः सन्तोऽपि यन्निर्जरा
जाता दुर्मनसो न सोढुमुचिता तेषां तु साऽनौचिती ॥८४॥
अस्योत्कण्ठितकण्ठलोठिवरणस्रक्साक्षिभिर्दिग्भटैः
स्वं वक्षः स्वयमस्फुटन्न किमदः शस्त्रादपि स्फोटितम् ।
व्यावृत्योपनतेन हा शतमखेनाद्य प्रसाद्या कथं
भैम्यां व्यर्थमनोरथेन च शची साचीकृतास्याम्बुजा ॥८५॥
मा जानीत विदर्भजामविदुषीं कीर्तिं मुदः श्रोयसीं
सेयं भद्रमचीकरन्मघवता न स्वं द्वितीयां शचीम् ।
कः शच्या रचयांचकार चरिते काव्यं स नः कथ्यता-
मेतस्यास्तु करिष्यते रसधुनीपात्रे चरित्रे न कैः ॥८६॥
वैदर्भीबहुजन्मनिर्मिततपःशिल्पेन देहश्रिया
नेत्राभ्यां स्वदते युवायमवनीवासः प्रसूनायुधः ।
गीर्वाणालयसार्वभौमसुकृतप्राग्भारदुष्प्रापया
योगं भीमजयानुभूय भजतामद्वैतमद्य त्विषाम् ॥८७॥
स्त्रीपुंसव्यतिषञ्जनं जनयतः पत्युः प्रजानामभू-
दभ्यासः परिपाकिमः किमनयोर्दाम्पत्यसंपत्तये ।
आसंसारपुरन्ध्रिपूरुषमिथःप्रेमार्पणक्रीडया-
प्येतज्जम्पतिगाढरागरचना प्राकर्षि चेतोभुवः ॥८८॥
ताभिर्दृश्यत एष यान्पथि महाज्यैष्ठीमहे मन्महे
यदृग्भिः पुरुषोत्तमः परिचितः प्राग्मञ्चमञ्चन्कृतः ।
सा स्त्रीराट् पतयालुभिः शितिसितैः स्यादस्य दृक्चामरैः
सस्ने माघमघातिघातियमुनागङ्गौघयोगे यया ॥८९॥
वैदर्भीविपुलानुरागकलनात्सौभाग्यमत्राखिल-
क्षोणीचक्रशतक्रतौ निजगदे तद्बृत्तवृत्तक्रमैः ।
किंचास्माकनरेन्द्रभूसुभगतासंभूतये लग्नकं
देवेन्द्रावरणप्रसादितशचीविश्राणिताशीर्वचः ॥९०॥
आसुत्राममपासनान्मखभुजां भैम्यैव राजव्रजे
तादर्थ्यागमनानुरोधपरया युक्तार्जि लज्जामृजा ।
आत्मानं त्रिदशप्रसादफलताम् पत्ये विधायानया
ह्रीरोषापयशःकथानवसरः सृष्टं सुराणामपि ॥९१॥
इत्यालेपुरनुप्रतीकनिलयालंकारसारश्रिया-
हंकुर्वत्तनुरामणीयकममूरालोक्य पौरप्रियाः ।
सानन्दाः कुरुविन्दसुन्दरकरस्यानन्दनं स्यन्दनं
तस्याध्यास्य यतः शतक्रतुहरित्क्रीडाद्रिमिन्दोरिव ॥९२॥
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
यातः पञ्चदशः कृशेतररसस्वादाविहायं महा-
काव्ये तस्य कृतौ नलीयचरिते सर्गो निसर्गोज्ज्वलः ॥९३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2013-01-19T05:26:44.8970000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

trilateral

  • त्रिपार्श्व 
  • त्रिपार्श्व 
  • तीन पृष्ठे असलेले किंवा लोलकासारखे (पान, खोड, फळ, बी) 
RANDOM WORD

Did you know?

वास्‍तुदोषावर आरसा काय करतो आरशांचा उपयोग कसा होतो
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.