TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

नैषधीयचरितम् - अष्टादश सर्गः

महाकवि श्रीहर्षरचितं नैषधीयचरितम् हा ग्रंथ म्हणजे संस्कृत भाषेतील अतिउत्तम रचना होय.


अष्टादश सर्गः
सोऽयमित्थमथ भीमनन्दिनीं दारसारमधिगम्य नैषधः ।
तां तृतीयपुरुषार्थवारिधेः पारलम्भनतरीमरीरमत् ॥१॥
आत्मवित्सह तया दिवानिशं भोगभागपि न पापमाप सः ।
आहृता हि विषयैकतानता ज्ञानधौतमनसं न लिम्पति ॥२॥
न्यस्य मन्त्रिषु स राज्यमादरादारराध मदनं प्रियासखः ।
नैकवर्णमणिकोटिकुट्टिमे हेमभूमिभृति सौधभूधरे ॥३॥
वीरसेनसुतकण्ठभूषणीभूतदिव्यमणिपङ्क्तिशक्तिभिः ।
कामनोपनमदर्थतागुणाद्यस्तृणीकृतसुपर्वपर्वतः ॥४॥
धूपितं यदुदरान्तरं चिरं मेचकैरगरुसारदारुभिः ।
जालजालधृतचन्द्रचन्दनक्षोदमेदुरसमीरशीतलम् ॥५॥
क्वापि कामशरवृत्तवर्तयो यं महासुरभितैलदीपिकाः ।
तेनिरे वितिमिरं स्मरस्फुरद्दोःप्रतापनिकराङ्कुरश्रियः ॥६॥
कुङ्कुमैणमदपङ्कलेपिताः क्षलिताश्च हिमवालुकाम्बुभिः ।
रेजुरध्वततशैलजस्रजो यस्य मुग्धमणिकुट्टिमा भुवः ॥७॥
नैषधाङ्गपरिमर्दमेदुरामोदमाऋदवमनोज्ञवर्णया ।
यद्भुवः क्वचन सूनशय्ययाभजि भालतिलकप्रगल्भता ॥८॥
क्वापि यन्निकटनिष्कुटस्फुरत्कोरकप्रकरसौरभोर्मिभिः ।
सान्द्रमाद्रियत भीमनन्दनानासिकापुटकुटीकुटुम्बिता ॥९॥
ऋद्धसर्वऋतुवृक्षवाटिकाकीरकृत्तसहकारशीकरैः ।
यज्जुषः स्म कुलमुख्यमाशुगः प्राणवातमुपदाभिरञ्चति ॥१०॥
कुत्रचित्कनकनिर्मिताखिलः क्वापि यो विमलरत्नजः किल ।
कुत्रचिद्रचितचित्रशालिकः क्वापि चास्थिरविधैन्द्रजालिकः ॥११॥
चित्रतत्तदनुकार्यविभ्रमाधाय्यनेकविधरूपरूपकम् ।
वीक्ष्य यं बहु धुवञ्शिरो जरावातकी विधिरकल्पि शिल्पिराट् ॥१२॥
भित्तिगर्भगृहगोपितैर्जनैर्यः कृताद्भुतकथादिकौतुकः ।
सूत्रयन्त्रजविशिष्टचेष्टयाश्चर्यसञ्जिबहुशालभञ्जिकः ॥१३॥
तामसीष्वपि तमीषु भित्तिगै रत्नरश्मिभिरमन्द्रचन्द्रिकः ।
यस्तपेपि जलयन्त्रपातुकासारदूरधुततापतन्द्रिकः ॥१४॥
यत्र पुष्पशरशास्त्रकारिकासारिकाध्युषितनागदन्तिका ।
भीमजानिषधसार्वभौमयोः प्रत्यवैक्षत रते कृताकृते ॥१५॥
यत्र मत्तकलविङ्कशीलिताश्लीलकेलिपुनरुक्तवत्तयोः ।
क्वापि दृष्टिभिरवापि वापिकोत्तंसहंसमिथुनस्मरोत्सवः ॥१६॥
यत्र वैणरववैणवस्वरैर्हुंकृतैरुपवनीपिकालिनाम् ।
कङ्कणालिकलहैश्च नृत्यतां कुब्जितं सुरतकूजितं तयोः ॥१७॥
सीत्कृतान्यशृणुतां विशङ्कयोर्यत्प्रतिष्ठितरतिस्मरार्चयोः ।
जालकैरपवरान्तरेऽपि तौ त्याजितैः कपटकुड्यतां निशि ॥१८॥
कृष्णसारमृगशृङ्गभङ्गुरा स्वादुरुज्ज्वलरसैकसारिणी ।
नानिशं त्रुटति यन्मुखे पुरा किन्नरीविकटगीतिझंकृतिः ॥१९॥
भित्तिचित्रलिखिताखिलक्रमा यत्र तस्थुरितिहाससंकथाः ।
पद्मनन्दनसुतारिरंसुतामन्दसाहसहसन्मनोभुवः ॥२०॥
पुष्पकाण्डजयडिण्डिमायितं यत्रगौतमकलत्रकामिनः ।
पारदारिकविलाससाहसं देवभर्तुरुदटङ्कि भित्तिषु ॥२१॥
उच्चलत्कलरवालिकैतवाद्वैजयन्तविजयार्जिता जगत् ।
यस्य कीर्तिरवदायति स्म सा कार्तिकीतिथिनिशीथिनीस्वसा ॥२२॥
गौरभानुगुरुगेहिनीस्मरोद्वृत्तभावमितिवृत्तमाश्रिताः ।
रेजिरे यदजिरेऽभिनीतिभिर्नाटिका भरतभारतीसुधा ॥२३॥
शंभुदारुवनसंभुजिक्रियामाधवव्रजवधूविलासयोः ।
गुम्फितैरुशनसा सुभाषितैर्यस्य हाटकविटङ्कमङ्कितम् ॥२४॥
अह्नि भानुभुवि दाशदारिकां यच्चरः परिचरन्तमुज्जगौ ।
कालदेशविषायासहात्स्मरादुत्सुकं शुकपितामहं शुकः ॥२५॥
नीतमेव करलभ्यपारतामप्रतीर्य मुनयस्तपोर्णवम् ।
अप्सरःकुचघटावलम्बनात्स्थायिना क्वचन यत्र चित्रगाः ॥२६॥
स्वामिना च वहता च तं मया स स्मरः सुरतवर्जनाज्जितः ।
योऽयमीदृगिति नृत्यते स्म यत्केकिना मुरजनिस्वनैर्घनैः ॥२७॥
यत्र वीक्ष्य नलभीमसं भवे मह्यतो रतिरतीशयोरपि ।
स्पर्धयेव जयतोर्जयाय ते कामकामरमणीबभूवतुः ॥२८॥
तत्र सौधसुरभूधरे तयोराविरासुरथ कामकेलयः ।
ये महाकविभिरप्यवीक्षिताः पांसुलाभिरपि ये न शिक्षिताः ॥२९॥
पौरुषं दधति योषिता नले स्वामिनि श्रिततदीयभावया ।
यूनि शैशवमतीर्णया कियत्प्रापि भीमसुतया न साध्वसम् ॥३०॥
दूत्यसंगतिगतं यदात्मनः प्रागशिश्रवदियं प्रियं गिरः ।
तं विचिन्त्य विनयव्ययं ह्रिया न स्म वेद करवाणि कीदृशम् ॥३१॥
यत्तया सदसि नैषाधः स्वयं प्राग्वृतः सपदि वीतलज्जया ।
तन्निजं मनसिकृत्य चापलं सा शशाक न विलोकितुं नलम् ॥३२॥
आसने मणिमरीचिमांसले यां दिशं स परिरभ्य तस्थिवान् ।
तामसूयितवतीव मानिनी न व्यलोकयदियं मनागपि ॥३३॥
ह्रीसरन्निजनिमज्जनोचितं मौलिदूरनमनं दधानया ।
द्वारि चित्रयुवतिश्रिया तया भर्तृहूतिशतमश्रुतीकृतम् ॥३४॥
वेश्म पत्युरविशन्न साध्वसाद्वेशितापि शयनं न साऽभजत् ।
भाजितापि सविधं न सास्वपत्स्वापितापि न च संमुखाभवत् ॥३५॥
केवलं न खलु भीमनन्दिनी दूरमत्रपत नैषधं प्रति ।
भीमजाहृदि जितः स्त्रिया ह्रिया मन्मथोऽपि नियतं स लज्जितः ॥३६॥
आत्मनापि हरदारसुन्दरी यत्किमप्यभिललाष चेष्टितुम् ।
स्वामिना यदि तदर्थमर्थिता मुद्रितस्तदनया तदुद्यमः ॥३७॥
ह्रीभराद्विमुखया तया भियं सञ्जितामननुरागशङ्किनि ।
स स्वचेतसि लुलोप संस्मरन्दूत्यकालकलितं तदाशयम् ॥३८॥
पार्श्वमागमि निजं सहालिभिस्तेन पूर्वमथ सा तयैकया ।
क्वापि तामपि नियुज्य मायिना स्वात्ममात्रसचिवावशेषिता ॥३९॥
संनिधावपि निजे निवेशितामालिभिः कुसुमशस्त्रशास्त्रवित् ।
आनयद्व्यवधिमानिव प्रियामङ्कपालिवलयेन संनिधिम् ॥४०॥
प्रागचुम्बदलिके ह्रियानतां तां क्रमाद्दरनतां कपोलयोः ।
तेन विश्वसितमानसां झटित्यानने स परिचुम्ब्य सिष्मिये ॥४१॥
लज्जया प्रथममेत्य हुंकृतः साध्वसेन बलिनाथ तर्जितः ।
किंचिदुच्छ्वसित एव तद्धृदि न्यग्बभूव पुनरर्भकः स्मरः ॥४२॥
वल्लभस्य भुजयोः स्मरोत्सवे दित्सतोः प्रसभमङ्कपालिकाम् ।
एककश्चिरमरोधि बालया तल्पयन्त्रणनिरन्तरालया ॥४३॥
हारचारिमविलोकने मृषाकौतुकं किमपि नाटयन्नयम् ।
कण्ठमूलमदसीयमस्पृशत्पाणिनोपकुचधाविना धवः ॥४४॥
यत्त्वयास्मि सदसि स्रजाञ्चितस्तन्मयापि भवदर्हणार्हति ।
इत्युदीर्य निजहारमर्पयन्नस्पृशत्स तदुरोजकोरकौ ॥४५॥
नीविसीम्नि निहितं स निद्रया सुभ्रुवो निशि निषिद्धसंविदः ।
कम्पितं शयमपास यन्नयं दोलनैर्जनितबोधयाऽनया ॥४६॥
स प्रियोरुयुगकञ्चुकांशुके न्यस्य दृष्टिमथ सिष्मिये नृपः ।
आववार तदथाम्बराञ्चलैः सा निरावृतिरिव त्रपावृता ॥४७॥
बुद्धिमान्व्यधित तां क्रमादयं किंचिदित्थमपनीतसाध्वसाम् ।
किंच तन्मनसि चित्तजन्मना ह्रीरनामि धनुषा समं मनाक् ॥४८॥
सिष्मिये हसति न स्म तेन सा प्रीणितापि परिहासभाषणैः ।
स्वे हि दर्शयति ते परेण कानर्ध्यदन्तकुरुविन्दमालिके ॥४९॥
वीक्ष्य भीमतनयास्तनद्वयं मग्नहारमणिमुद्रयाङ्कितम् ।
सोढकान्तपरिरम्भगाढता सान्वमायि सुमुखी सखीजनैः ॥५०॥
याचते स्म परिधापिकाः सखीः सा स्वनीविनिबिडक्रियां यदा ।
अन्वमिन्वत तदा विहस्य ता वृत्तमत्र पतिपाणिचापलम् ॥५१॥
कुर्वती निचुलितं ह्रिया कियत्सौहृदाद्विवृतसौरभं कियत् ।
कुड्नलोन्मिषितसूनसेविनीं पद्मिनीं जयति सा स्म पद्मिनी ॥५२॥
नाविलोक्य नलमासितुं स्मरो ह्रीर्न वीक्षितुमदत्त सुभ्रुवः ।
तद्दृशः पतिदिशाचलन्नथ व्रीडिताः समकुचन्मुहुः पथः ॥५३॥
नाऽनया पतिरनायि नेत्रयोर्लक्ष्यतामपि परोक्षतामपि ।
वीक्ष्यते स खलु यद्विलोकने तत्र तत्र नयते ददानया ॥५४॥
वासरे विरहनिःसहा निशां कान्तसङ्गसमयं समैहत ।
सा ह्रिया निशि पुनर्दिनोदयं वाञ्छतिस्म पतिकेलिलज्जिता ॥५५॥
तत्करोमि परमभ्युपैषि यन्मा ह्रियं व्रज भियं परित्यज ।
आलिवर्ग इव तेऽहमित्यमूं शश्वदाश्वसनमूचिवान्नलः ॥५६॥
येन तन्मदनवह्निना स्थितं ह्रीमहौषधिनिरुद्धशक्तिना ।
सिद्धिमद्भिरुदतेजि तैः पुनः स प्रियप्रियवचोभिमन्त्रणैः ॥५७॥
यद्विधूय दयितार्पितं करं दोर्द्वयेन पिदधे कुचौ दृढम् ।
पार्श्वगं प्रियमपास्य सा ह्रिया तं हृदिस्थितमिवालिलङ्ग तत् ॥५८॥
अन्यदस्मि भवतीं न याचिता वारमेकमधरं धयामि ते ।
इत्यसिस्वददुपांशुकाकुवाक्सोपमर्दहठवृत्तिरेव तम् ॥५९॥
पीततावकमुखासवोऽधुना भृत्य एष निजकृत्यमर्हति ।
तत्करोमि भवदूरुमित्यसौ तत्र संन्यधित पाणिपल्लवम् ॥६०॥
चुम्बनादिषु बभूव नाम किं तद्वृथा भियमिहापि मा कृथाः ।
इत्युदीर्य रसनावलिव्ययं निर्ममे मृगदृशोऽयमादिमम् ॥६१॥
अस्तिवाम्यभरमस्तिकौतुकं सास्तिघर्मजलमस्तिवेपथु ।
अस्तिभीति रतमस्तिवाञ्छितं प्रापदस्तिसुखमस्तिपीडनम् ॥६२॥
ह्रीस्तवेयमुचितैव यन्नवस्तावके मनसि मत्समागमः ।
तत्तु निस्त्रपमजस्रसंगमाद्वीडमावहति मामकं मनः ॥६३॥
इत्युपालभत संभुजिक्रियारम्भविघ्नघनलज्जितैर्जिताम् ।
तां तथा स चतुरोऽथ सा यथा त्रप्तुमेव तमनु त्रपामयात् ॥६४॥
बाहुवक्त्रजघनस्तनाङ्घ्रितद्बन्धगन्धरतसंगतानतीः ।
इच्छुरुत्सुकजने दिनेस्मिते वीक्षिते ति समकेति तेन सा ॥६५॥
प्रातरात्मशयनाद्विनिर्यतीं संनिरुध्य यदसाध्यमन्यदा ।
तन्मुखार्पणमुखं सुखं भुवो जम्भजित्क्षितिशचीमचीकरत् ॥६६॥
नायकस्य शयनादहर्मुखे निर्गता मुदमुदीक्ष्य सुभ्रुवाम् ।
आत्मना निजनवस्मरोत्सवस्मारिणीयमहृणीयत स्वयम् ॥६७॥
तां मिथोऽभिदधतीं सखीं प्रियस्यात्मनश्च स निशाविचेष्टितम् ।
पार्श्वगः सुरवरात्पिधां दधद्दृश्यतां शृउतकथो हसन्गतः ॥६८॥
चक्रदारविरहेक्षणक्षणे बिभ्यती धवहसाय साभवत् ।
क्वापि वस्तुनि वदत्यनागतं चित्तमुद्यदनिमित्तवैकृतम् ॥६९॥
चुम्बितं न मुखमाचकर्ष यत्पत्युरन्तरमृतं ववर्ष तत् ।
सा नुनोद न भुजं तदर्पितं तेन तस्य किमभून्न तर्पितम् ॥७०॥
नीतयोः स्तनपिधानतां तया दातुमाप भुजयोः करं परं ।
वीतबाहुनि ततो हृदंशुके केवलेऽप्यथ स तत्कुचद्वये ॥७१॥
याचनान्न ददतीं नखक्षतं तां विधाय कथयाऽन्यचेतसम् ।
वक्षसि न्यसितुमात्ततत्करः स्वं विभिद्य मुमुदे स तन्नखैः ॥७२॥
स प्रसह्य हृदयापवारकं हर्तुमक्षमत सुभ्रुवो बहिः ।
ह्रीमयं तु न तदीयमान्तरं तद्विनेतुमभवत्प्रभुः प्रभुः ॥७३॥
सा स्मरेण बलिनाऽप्यहापिता ह्रीक्षमे भृशमशोभताबला ।
भाति चापि वसनं विना नतु व्रीडधैर्यपरिवर्जनैर्जनः ॥७४॥
आत्थ नेति रतयाचिनं न यन्मामतोऽनुमतवत्यसि स्फुटम् ।
इत्यमुं तदभिलापनोत्सुकं धूनितेन शिरसा निरास सा ॥७५॥
या शिरोविधुतिराह नेति ते सा मया न किमियं समाकलि ।
तन्निषेधसमसंख्यता विधिं व्यक्तमेव तव वक्ति वाञ्छितम् ॥७६॥
नात्थ नात्थ शृण्वानि ते न किं तेन वाचमिति तां निगद्य सः ।
सा स्म दूत्यगतमाह तं यथा तज्जगाद मृदुभिस्तदुक्तिभिः ॥७७॥
नीविसीम्नि निबिडं पुराऽरुणत्पाणिनाऽथ शिथिलेन तत्करम् ।
सा क्रमेण नननेति वादिनी विघ्नमाचरदमुष्य केवलम् ॥७८॥
रूपवेषवसनाङ्गवासनाभूषणादिषु पृथग्विदग्धताम् ।
सान्यदिव्ययुवतिभ्रमक्षमां नित्यमेत्य तमगान्नवा नवा ॥७९॥
इङ्गितेन निजरागनीरधिं संविभाव्य चटुभिर्गुणज्ञताम् ।
भक्ततां च परिचर्ययाऽनिशं साधिकाधिकवशं व्यधत्त तम् ॥८०॥
स्वाङ्गमर्पयितुमेत्य वामतां रोषितं प्रियमथानुनीय सा ।
आतदीयहठसंबुभुक्षुतां नान्वमन्यत पुनस्तमर्थिनम् ॥८१॥
आद्यसंगमसमादराण्यधाद्वल्लभाय ददती कथंचन ।
अङ्गकानि घनमानवामताव्रीडलम्भितदुरापतानि सा ॥८२॥
पत्युरागिरिशमातरु क्रमात्स्वस्य चागिरिजमालतं वपुः ।
तस्य चार्हमखिलं पतिव्रता क्रीडति स्म तप्सा विधाय सा ॥८३॥
न स्थली न जलधिर्न काननं नाद्रिभूर्न विषायो न विष्टपम् ।
क्रीडिता न सह यत्र तेन सा सा विधैव न यया यया न वा ॥८४॥
नम्रयांशुकविकर्षिणि प्रिये वक्त्रवातहतदीप्तदीपया ।
भर्तृमौलिमणिदीपितास्तया विस्मयेन ककुभो निभालिताः ॥८५॥
कान्तमूर्ध्नि ददती पिधित्सया तन्मणेः श्रवणपूरमुत्पलम् ।
रन्तुमर्चनमिवाचरत्पुरः सा स्ववल्लभतनोर्मनोभुवः ॥८६॥
तं पिधाय मुदिताथ पार्श्वयोर्वीक्ष्य दीपमुभयत्र सा स्वयोः ।
चित्तमाप कुतुकाद्भुतत्रपातङ्कसंकटनिवेशितस्मरम् ॥८७॥
एककस्य शमने परं पुनर्जाग्रतं शमितमप्यवेक्ष्य तम् ।
जातवह्निवरसंस्मृतिः शिरः सा विधूय निमिमील केवलम् ॥८८॥
पश्य भीरु न मयापि दृश्यसे यन्निमीलितवती दृशावसि ।
इत्यनेन परिहस्य सा तमः संविधाय समभोजि लज्जिता ॥८९॥
चुम्ब्यसेऽयमयमङ्क्यसे नखैः श्लिष्यसेयमयमर्प्यसे हृदि ।
नो पुनर्न करवाणि ते गिरं हुं त्यज त्यज तवास्मि किंकरा ॥९०॥
इत्यलीकरतकातरा प्रियं विप्रलभ्य सुरते ह्रियं च सा ।
चुम्बनादि विततार मायिनी किं विदग्धमनसामगोचरः ॥९१॥
स्वेप्सितोद्गमितमात्रलुप्तया दीपिकाचपलया तमोघने ।
निर्विशङ्करतजन्मतन्मुखाकूतदर्शनसुखान्यभुङ्क्त सः ॥९२॥
यद्भ्रुवौ कुटिलिते तया रते मन्मथेन तदनामि कार्मुकम् ।
यत्तु हुंहुमिति सा तदा व्यधात्तत्स्मरस्य शरमुक्तिहुंकृतम् ॥९३॥
ईक्षितोपदिशतीव नर्तितुं तत्क्षणोदितमुदं मनोभुवम् ।
कान्तदन्तपरिपीडिताधरा पाणिधूननमियं वितन्वती ॥९४॥
सा शशाक परिरम्भदायिनी गाहितुं बृहदुरः प्रियस्य न ।
चक्षमे च स न भङ्गुरभ्रुवस्तुङ्गपीनकुचदूरतां गतम् ॥९५॥
बाहुवल्लिपरिरम्भमण्डली या परस्परमपीडयत्तयोः ।
आस्त हेमनलिनीमृणालजः पाश एव हृदयेशयस्य सः ॥९६॥
वल्लभेन परिरम्भपीडितौ प्रेयसीहृदि कुचाववापतुः ।
केलतीमदनयोरुपाश्रये तत्र वृत्तमिलितोपधानताम् ॥९७॥
भीमजोरुयुगलं नलाऋपितैः पाणिजस्य मृदुभिः पदैर्बभौ ।
तत्प्रशस्ति रतिकामयोर्जयस्तम्भयुग्ममिव शातकुम्भजम् ॥९८॥
बह्वमानि विधिनापि तावकं नाभिमूरुयुगमन्तराङ्गकम् ।
स व्यधादधिकवर्णकैरिदं काञ्चनैर्यदिति तां पुराह सः ॥९९॥
पीडनय मृदुनी विगाह्य तौ कान्तपाणिनलिने स्पृहावती ।
तत्कुचौ कलशपीननिष्थुरौ हारहासविहते वितेनतुः ॥१००॥
यौ कुरङ्गमदकुङ्कुमाञ्चितौ नीललोहितरुचौ बधूकुचौ ।
स प्रियोरसि तयोः स्वयंभुवोराचचार नखकिंशुकार्चनम् ॥१०१॥
अम्बुधेः कियदनुत्थितं विधुं स्वानुबिम्बमिलितं व्यडम्बयत् ।
चुम्बदम्बुजमुखीमुखं तदा नैषधस्य वदनेन्दुमण्डलम् ॥१०२॥
पूगभागबहुताकषायितैर्वासितैरुदयभास्करेण तौ ।
चक्रतुर्निधुवनेऽधरामृतैस्तत्र साधुमधुपानविभ्रमम् ॥१०३॥
आह नाथवदनस्य चुम्बतः सा स्म शीतकरतामनक्षरम् ।
सीत्कृतानि सुदती वितन्वती सत्त्वदत्तपृथुवेपथुस्तदा ॥१०४॥
चुम्बनाय कलितप्रियाकुचं वीरसेनसुतवक्त्रमण्डलम् ।
प्राप भर्तुममृतैः सुधांशुना सक्तहाटकघटेन मित्त्रताम् ॥१०५॥
वीक्ष्य वीक्ष्य पुनरैक्षि सा मुदा पर्यरम्भि परिरभ्य चासकृत् ।
चुम्बिता पुनरचुम्बि चादरात्तृप्तिरापि न कथंचनापि च ॥१०६॥
छिन्नमप्यतनु हारमण्डलं मुग्धया सुरतलास्यकेलिभिः ।
न व्यतर्कि सुदृशा चिरादपि स्वेदबिन्दुकितवक्षसा हृदि ॥१०७॥
यत्तदीयहृदि हारमौक्तिकैरासि तत्र गुण एव कारणम् ।
अन्यथा कथममुत्र वर्तितुं तैरशाकि न तदा गुणच्युतैः ॥१०८॥
एकवृत्तिरपि मौक्तिकावलिश्छिन्नहारविततौ तदा तयोः ।
छाययाऽन्यहृदये विभूषणं श्रान्तिवारिभरभावितेऽभवत् ॥१०९॥
वामपादतललुप्तमन्मथश्रीमदेन मुखवीक्षिणानिशम् ।
भुज्यमाननवयौवनामुना पारसीमनि चचार सा मुदाम् ॥११०॥
आन्तरानपि तदङ्गसंगमैस्तर्पितानवयवानमन्यत ।
नेत्रयोरमृतसारपारणां तद्विलोकनमचिन्तयन्नलः ॥१११॥
भूषणैरतुषदाश्रितैः प्रियां प्रागथ व्यषददेष भावयन् ।
तैरभावि कियदङ्गदर्शने यत्पिधानमयविघ्नकारिभिः ॥११२॥
योजनानि परिरम्भणेऽन्तरं रोमहर्षजमपि स्म बोधतः ।
तौ निमेषमपि वीक्षणे मिथो वत्सरव्यवधिमध्यगच्छताम् ॥११३॥
वीक्ष्य भावमधिगन्तुमुत्सुकां पूर्वमच्छमणिकुट्टिमे मृदुम् ।
कोऽयमित्युदितसंभ्रमीकृतां स्वानुबिम्बमददर्शतैष ताम् ॥११४॥
तत्क्षणावहितभावभावितद्वादशात्मसितदीधितिस्थितिः ।
स्वां प्रियामभिमतक्षणोदयां भावलाभलघुतां नुनोद सः ॥११५॥
स्वेन भावजनने स तु प्रियां बाहुमूलकुचनाभिचुम्बनैः ।
निर्ममे रतरहःसमापनाशर्मसारसमसंविभागिनीम् ॥११६॥
विश्लथैरवयवैर्निमीलया लोमभिर्द्रुतमितैर्विनिद्रताम् ।
सूचितं श्वसितसीत्कृतैश्च तौ भावमक्रमकमध्यगच्छताम् ॥११७॥
आस्त भावमधिगच्छतोस्तयोः संमदेषु करजक्षतार्पणा ।
फाणितेषु मरिचावचूर्णना सा स्फुटं कटुरपि स्पृहावहा ॥११८॥
अर्धमीलितविलोलतारके सा दृशौ निधुवनक्लमालसा ।
यन्मुहूर्तमवहन्न तत्पुनस्तृप्तिरास्त दयितस्य पश्यतः ॥११९॥
तत्क्लमस्तमदिदीक्षत क्षणं तालवृन्तचलनाय नायकम् ।
तद्विधा हि भवदैवतं प्रिया वेधसोऽपि विदधाइ चापलम् ॥१२०॥
स्वेदबिन्दुकितनासिकाशिखं तन्मुखं सुखयति स्म नैषधम् ।
प्रोषिताधरशयालुयावकं सामिलुप्तपुलकं कपोलयोः ॥१२१॥
ह्रीणमेव पृथु सस्मरं कियत्क्लान्तमेव बहुनिर्वृतं मनाक् ।
कान्तचेतसि तदीयमाननं तत्तदालभत लक्षमादरात् ॥१२२॥
स्वेदवारिपरिपूरितं प्रियारोमकूपनिवहं यथायथा ।
नैषधस्य दृगपात्तथातथा चित्रमापदपतृष्णतां न सा ॥१२३॥
वीतमाल्यकचहस्तसंयमव्यस्तहस्तयुगया स्फुटीकृतम् ।
बाहुमूलमनया तदुज्ज्वलं वीक्ष्ञ सौख्यजलधौ ममज्ज सः ॥१२४॥
वीक्ष्य पत्युरधरं कृशोदरी बन्धुजीवमिव भृङ्गसंगतम् ।
मञ्जुलं नयनकज्जलैर्निजैः संवरीतुमशकत्स्मितं न सा ॥१२५॥
तां विलोक्य विमुखश्रितस्मितां पृच्छतो हसितहेतुमीशितुः ।
ह्रीमती व्यतरदुत्तरं वधूः पाणिपङ्करुहि दर्पणार्पणाम् ॥१२६॥
लाक्षयात्मचरणस्य चुम्बनाच्चारुभालमवलोक्य तन्मुखम् ।
सा ह्रिया नतनताननाऽस्मरच्छेषरागमुदितं पतिं निशः ॥१२७॥
स्वेदभाजि हृदयेऽनुबिम्बितं वीक्ष्य मूर्तमिव हृद्गतं प्रियम् ।
निर्ममे धुतरतश्रमं निजैर्ह्रीनतातिमृदुनासिकानिलैः ॥१२८॥
सूननायकनिदेशविभ्रमैरप्रतीतचरवेदनोदयम् ।
दन्दतंशमधरेऽधिगामुका सास्पृशन्मृदु चमच्चकार च ॥१२९॥
वीक्ष्य वीक्ष्य करजस्य विभ्रमं प्रेयसार्जितमुरोजयोरियम् ।
कान्तमैक्षत हसस्पृशं कियत्कोपकुञ्चितविलोचनाञ्चला ॥१३०॥
रोषरूषितमुखीमिव प्रियां वीक्ष्य भीतिदरकम्पिताक्षराम् ।
तां जगाद स न वेद्मि तन्वि तं कश्चकार तव कोपरोपणाम् ॥१३१॥
रोषकुङ्कुमविलेपनान्मनाङ्गन्ववाचि कृशतन्ववाचि ते ।
भूदयुक्तसमयैव रञ्जनामानने विधुबिधेयमानने ॥१३२॥
क्षिप्रमस्य तु रुजा नखादिजास्तावकीरमृतसीकरं किरत् ।
एतदर्थमिदमर्थितं मया कण्ठचुम्बि मणिदाम कामदम् ॥१३३॥
स्वापराधमलुपत्पयोधरे मत्करः सुरधनुष्करस्तव ।
सेवया व्यजनचालनाभुवा भूय एव चरणौ करोतु वा ॥१३४॥
आननस्य मम चेदनौचिती निर्दयं दशनदंशदायिनः ।
शोध्यते सुदति वैरमस्य तत्किं त्वया वद विदश्य नाधरम् ॥१३५॥
दीपलोपमफलं व्यधत्त यस्त्वत्पटाहृतिषु मच्छिखामणिः ।
नो तदागसि परं समर्थना सोऽयमस्तु पदपातुकस्तव ॥१३६॥
इत्थमुक्तिमुपहृत्य कोमलां तल्पचुम्बिचिकुरश्चकार सः ।
आत्ममौलिमणिकान्तिभङ्गिनीं तत्पदारुणसरोजसङ्गिनीम् ॥१३७॥
तत्पदाखिलनखानुबिम्बनैः स्वैः समेत्य समतामियाय सः ।
रुद्रभूमविजिगीषया रतिस्वामिनोपदशमूर्तिताभृता ॥१३८॥
आख्यतैष कुरु कोपलोपनं पश्य नश्यति कृशा मधर्निशा ।
एतमेव तु निशान्तरे वरं रोषशेषमनुरोत्स्यसि क्षणम् ॥१३९॥
साथ नाथमनयत्कृतार्थतां पाणिगोपितनिजाङ्घ्रिपङ्कजा ।
तत्प्रणामधुतमानमाननं स्मेरमेव सुदती वितन्वती ॥१४०॥
तौ मिथो रतिरसायनात्पुनः संबुभुक्षुमनसौ बभूवतुः ।
चक्षमे नतु तयोर्मनोरथं दुर्जनी रजनिरल्पजीवना ॥१४१॥
स्वप्नुमाप्तशयनीययोस्तयोः स्वैरमाख्यत वचः प्रियां प्रियः ।
उत्सवैरधरदानपानजैः सान्तरायपदमन्तरान्तरा ॥१४२॥
देवदूत्यमुपगम्य निर्दयं धर्मभीतिकृततादृशागसः ।
अस्तु सेयमपराधमार्जना जीवितावधि नलस्य वश्यता ॥१४३॥
स क्षाणः सुमुखि यत्त्वदीक्षणं तच्चराज्यमुरु येन रज्यसि ।
तन्नलस्य सुधयाभिषेचनं यत्त्वदङ्गपरिरम्भविभ्रमः ॥१४४॥
शर्म किं हृदि हरेः प्रियार्पणं किं शिवार्धघटने शिवस्य वा ।
कामये तव महेषु तन्वि तं नन्वयं सरिदुदन्वदन्वयम् ॥१४५॥
धीयतां मयि दृढा ममेति धीर्वक्तुमेवमवकाश एव कः ।
यद्विधूय तृणवद्दिवस्पतिं क्रीतवत्यसि दयापणेन माम् ॥१४६॥
शृण्वता निभृतमालिभिर्भवद्वाग्विलासमसकृन्मया किल ।
मोघराघवविवर्ज्यजानकीश्राविणी भयचलासि वीक्षिता ॥१४७॥
छुप्तपत्रविनिमीलितात्क्षुपात्कच्छपस्य धृतचापलात्पलात् ।
त्वत्सखीषु सरटाच्छिरोधुतः स्वं भियोऽभिदधतीषु वैभवम् ॥१४८॥
त्वं मदीयविरहान्मया निजां भीतिमीरितवती रहःश्रुता ।
नोज्झितास्मि भवतीं तदित्ययं व्याहरद्वरमसत्यकातरः ॥१४९॥
संगमय्य विरहेऽस्मि जीविका यैव वामथ रताय तत्क्षणम् ।
हन्त दत्थ इति रुष्टयावयोर्निद्रयाऽद्य किमु नोपसद्यते ॥१५०॥
ईदृशं निगदति प्रिये दृशं संमदात्कियदियं न्यमीलयत् ।
प्रातरालपति कोकिले कलं जागरादिव निशः कुमुद्वती ॥१५१॥
मिश्रितोरु मिलिताधरं मिथः स्वप्नवीक्षितपरस्परक्रियम् ।
तौ ततोऽनु परिरम्भसंपुटैः पीडनां विदधतौ निदद्रतुः ॥१५२॥
तद्यातायातरंहच्छलकलितरतश्रान्तिनिश्वासधारा-
जस्रव्यामिश्रभावस्फुटकथितमिथःप्राणभेदव्युदासम् ।
बालावक्षोजपत्राङ्कुरकरिमकरीं मुद्रितोर्वीन्द्रवक्ष-
श्चिह्नाख्यातैकभावोभयहृदयमयाद्द्वन्द्वमानन्दनिद्राम् ॥१५३॥
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
यातोऽस्मिञ्शिवशक्तिसिद्धिभगिनीसौभ्रात्रभव्ये महा-
काव्ये तस्य कृतौ नलीयचरिते सर्गोऽयमष्टादशः ॥१५४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2013-01-19T05:29:01.1630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

hope

  • स्त्री. आशा 
  • emotion 
  • आशा करणे, आशा धरणे 
  • आशा बाळगणे 
More meanings
RANDOM WORD

Did you know?

प्रदक्षिणा कशी व कोणत्या देवास किती घालावी ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.