TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

नैषधीयचरितम् - प्रथमः सर्गः

महाकवि श्रीहर्षरचितं नैषधीयचरितम् हा ग्रंथ म्हणजे संस्कृत भाषेतील अतिउत्तम रचना होय.


प्रथमः सर्गः
निपीय यस्य क्षितिरक्षिणः कथाः
तथाद्रियन्ते न बुधाः सुधामपि ।
नला सितच्छत्रितकीर्तिमण्डलः
स राशिरासीन्महसां महोज्ज्वलः ॥१॥
रसैः कथा यस्य सुधावधीरणी
नलः स भूजानिरभूह्गुणाद्भुतः ।
सुवर्णदण्डैकसितातपत्रित
ज्वलत्प्रतापावलिकीर्तिमण्डलः ॥२॥
पवित्रमत्रातनुते जगद्युगे
स्मृता रसक्षालनयेव यत्कथा ।
कथं न सा मद्गिरमाविलामपि
स्वसेविनीमेव पवित्रयिष्यति ॥३॥
अधीतिबोधाचरणप्रचारणै
र्दशाश्चतस्रः प्रणयन्नुपाधिभिः ।
चतुर्दशत्वं कृतवान्कृतः स्वयं
न वेद्मि विद्यासु चतुर्दश स्वयम् ॥४॥
अमुष्य विद्या रसनाग्रनर्तकी
त्रयीव नीताङ्गगुणेन विस्तरम् ।
अगाहताष्टादशतां जिगीषया
नवद्वयद्वीपपृथग्जयश्रियाम् ॥५॥
दिगीशवृन्दांशविभूतिरीशिता
दिशां स कामप्रसरावरोधिनीम् ।
बभार शास्त्राणि दृशं द्वयाधिकां
निजत्रिनेत्रावतरत्वबोधिकाम् ॥६॥
पदैश्चतुर्भिः सुकृते स्थिरीकृते
कृतेऽमुना के न तपः प्रपेदिरे ।
भुवं यदेकाङ्घ्रिकनिष्ठया स्पृश
न्दधावधर्मोऽपि कृशस्तपस्विताम् ॥७॥
यदस्य यात्रासु बलोद्धतं रजः
स्फुरत्प्रतापानलघूममञ्जिम ।
तदेव गत्वा पतितं सुधाम्बुधौ
दधाति पङ्कीभवदङ्कतां विधौ ॥८॥
स्फुरद्धनर्निस्वनतद्धनाशुग
प्रगल्भवृष्टिव्ययितस्य संगरे ।
निजस्य तेजः शिखिनः परश्शता
वितेनुरिङ्गालमिवायशः परे ॥९॥
अनल्पदग्धारिपुरानलोज्ज्वलैः
निजप्रतापैर्वलयं ज्वलद्भुवः ।
प्रदक्षिणीकृत्य जयाय सृष्ट्या
रराज नीराजनया स राजघः ॥१०॥
निवारितास्तेन महीतलेऽखिले
निरीतिभावं गमितेऽतिवृष्टयः ।
न तत्यजुर्नूनमनन्यविश्रमाः
प्रतीपभूपालमृगीदृशां दृशः ॥११॥
सितांशुवर्णैर्वयति स्म तह्गुणैः
महासिवेम्नः सहकृत्वरी बहुम् ।
दिगङ्गनाङ्गावरणं रणाङ्गणे
यशः पटं तद्भटचातुरीतुरी ॥१२॥
प्रतिपभूपैरिव किं ततो भिया
विरुद्धधर्मैरपि मेत्तृतोज्झिता ।
अमित्रजिन्मित्रजिदोजसा स यद्
विचारदृक्चारदृगप्यवर्तत ॥१३॥
तदोजसस्तद्यशसः स्थिताविमौ
वृथेति चित्ते कुरुते यदा यदा ।
तनो ति भानोः परिवेषकैतवात्
तदा विधिः कुण्डलनां विधोरपि ॥१४॥
अयं दरिद्रो भवितेति वैधसीं
विपिं ललाटेऽर्थिजनस्य जाग्रतीम् ।
मृषां न चक्रेऽल्पितकल्पपादपः
प्रणीय दारिद्रदरिद्रतां नलः ॥१५॥
विभज्य मेरुर्न यदर्थिसात्कृतो
न सिन्धुरुत्सर्गजलव्यययैर्मरुः ।
अमानि तत्तेन निजायशोयुगं
द्विफालबद्धाश्चिकुराः शिरः स्थितम् ॥१६॥
अजस्रमभ्यासमुपेयुषा समं
मुदैव देवः कविना बुधेन च ।
दधौ पटीयान्समयं नयन्नयं
 दिनेश्वरश्रीरुदयं दिने दिने ॥१७॥
अधोविधानात्कमलप्रवालयोः
शिरः सु दानादखिलक्षमाभुजाम् ।
पुरेदमूर्ध्व भवतीति वेधसा
पदं किमस्याङ्कितमूर्ध्वरेखया ॥१८॥
जगज्जयं तेन च कोशमक्षयं
प्रणीतवान् शैशवशेषवानयम् ।
सखा रतीशस्य ऋतुर्यथा वनं
वपुस्तथालिङ्गदथास्य यौवनम् ॥१९॥
अधारि पद्मेषु तदङ्घ्रिणा घृणा
क्व तच्छयच्छायलवोऽपि पल्लवे ।
तदास्यदास्येऽपि गतोऽधिकारितां
न शारदः पार्धिकशर्वरीश्वरः ॥२०॥
किमस्य लोम्नां कपटेन कोटिभिः
विधिर्न लेखाभिरजीगणह्गुणान् ।
न रोमकूपौघमिषाज्जगत्कृता
कृताश्च किं दूषणशून्यबिन्दवः ॥२१॥
अमुष्य दोर्भ्यामरिदुर्गलुण्ठने
ध्रुवं गृहीतार्गलदीर्घपीनता ।
उरः श्रिया तत्र च गोपुरस्फुरत्
कपाटदुर्धर्षतिरः प्रसारिता ॥२२॥
स्वकेलिलेशस्मितनिन्दितेन्दुनो
निजांशदृक्तर्जितपद्मसंपदः ।
अतद्द्वयीजित्वरसुन्दरान्तरे
न तन्मुखस्य प्रतिमा चराचरे ॥२३॥
सरोरुहं तस्य दृशैव निर्जितं
जिताः स्मितेनैव विधोरपि श्रियः ।
कुतः परं भव्यमहो महीयसी
तदाननस्योपमितौ दरिद्रता ॥२४॥
स्ववालभारस्य तदुत्तमाङ्गजैः
समं चमर्येव तुलाभिलाषिणः ।
अनागसे शंसति बालचापलं
पुनः पुनः पुच्छविलोलनच्छलात् ॥२५॥
महीभृतस्तस्य च मन्मथश्रिया
निजस्य चित्तस्य च तं प्रतीच्छया ।
द्विधा नृपे तत्र जगत्त्रयीभुवां
नतभ्रुवां मन्मथविभ्रमोऽभवत् ॥२६॥
निमीलनभ्रंशजुषा दृशा भृशं
निपीय तं यस्त्रिदशीर्बिरर्जितः ।
अमूस्तमभ्यासभरं विवृण्वते
निमेषनिः स्वैरधुनापि लोचनैः ॥२७॥
अदस्तदाकर्णि फलाढ्यजीवितं
दृशोर्द्वयं नस्तदवीक्षि चाफलम् ।
ति स्म चक्षुः श्रवसां प्रिया नले
स्तुवन्ति निन्दन्ति हृदातदात्मनः ॥२८॥
विलोकयन्तीभिरजस्रभावना-
बलादमुं नेत्रनिमीलनेष्वपि ।
अलम्भि मर्त्याभिरमुष्य दर्शने
न विघ्नलेशोऽपि निमेषनिर्मितिः ॥२९॥
न का निशि स्वप्नगतं ददर्श
तं जगाद गोत्रस्खलिते च का न तम् ।
तदात्मताध्यातधवा रते च का
चकार वा न स्वमनोभवोद्भवम् ॥३०॥
श्रियास्य योग्याहमिति स्वमीक्षितुं
करे तमालोक्य सुरूपया धृतः ।
विहाय भैमीमपदर्पया कया
न दर्पणः श्वासमलीमसः कृतः ॥३१॥
यथोह्यमानः खलु भोगभोजिना
प्रसह्य वैरोचनिजस्य पत्तनम् ।
विदर्भजाया मदनस्तथा मनो-
नलावरुद्धं वयसैव वेशितः ॥३२॥
नृपेऽनुरूपे निजरूपसंपदां
दिदेश तस्मिन्बहुशः श्रुतिं गते ।
विशिष्य सा भीमनरेन्द्रनन्दना
मनोभवाज्ञैकवशंवदं मनः ॥३३॥
उपासनामेत्य पितुः स्म रज्यते
दिने दिने सावसरेषु बन्दिनाम् ।
पठत्सु तेषु प्रतिभूपतीनलं
विनिद्ररोमाजनि शृण्वती नलम् ॥३४॥
कथा प्रसङ्गेषु मिथः सखीमुखात्
तृणेऽपि तन्व्या नलनामनि श्रुते ।
द्रुतं विधूयान्यदभूयतानया
मुदा तदाकर्णनसज्जकर्णया ॥३५॥
स्मरात्परासोरनिमेषलोचना-
द्बिभेमि तद्भन्नमुदाहरेति सा ।
जनेन यूनः स्तुवता तदास्पदे
निदर्शनं नैषधमभ्यषेचयत् ॥३६॥
नलस्य पृष्टा निषधागता गुणान्
मिषेण दूतद्विजबन्दिचारणाः ।
निपीय तत्कीर्तिकथामथानया
चिराय तस्थे विमनायमानया ॥३७॥
प्रीयं प्रियां च त्रिजगज्जयिश्रियौ
लिखाधिलीलागृहभित्ति कावपि ।
इति स्म सा कारुवरेण लेखितं
नलस्य च स्वस्य च सख्यमीक्षते ॥३८॥
मनोरथेन स्वपतीकृतं नलं
निशि क्व सा न स्वपती स्म पश्यति ।
अदृष्टमप्यर्थमदृष्टवैभवात्
करोति सुप्तिर्जनदर्शनातिथिम् ॥३९॥
निमीलितादक्षियुगाच्च निद्रया
हृदोऽपि बाह्येन्द्रियमौनमुद्रितात् ।
अदर्शि संगोप्य कदाप्यवीक्षितो
रहस्यमस्याः स महन्महीपतिः ॥४०॥
अहो अहोभिर्महिमा हिमागमेऽ–
प्यभिप्रपेदे प्रति तां स्मरार्दिताम् ।
तपर्तुपूर्तावपि मेदसां भरा
विभावरीभिर्बिभरांबभूविरे ॥४१॥
स्वकान्तिकीर्तिव्रजमौक्तिकस्रजः
श्रयन्तमन्तर्घटनागुणश्रियम् ।
कदाचिदस्या युवधैर्यलोपिनं
नलोऽपि लोकादशृणोह्गुणोत्करम् ॥४२॥
तमेव लब्ध्वावसरं ततः स्मरः
शरीरशोभाजयजातमत्सरः ।
अमोघशक्त्या निजयेन मूर्तया
तया विनिर्जेतुमियेष नैषधम् ॥४३॥
अकारि तेन श्रवणातिथिर्गुणः
क्षमाभुजा भीमनृपात्मजालयः ।
तदुच्चधैर्यव्ययसंहितेषुणा
स्मरेण च स्वात्मशरासनाश्रयः ॥४४॥
अमुष्य धीरस्य जयाय साहसी
तदा खलु ज्यां विशिखैः सनाथयन् ।
निमज्जयामास यशांसि संशये
स्मरस्त्रिलोकीविजयार्जितान्ययि ॥४५॥
अनेन भैमीं घटयिष्यतस्तथा
विधेरवन्ध्येच्छतया व्यलासि तत् ।
अभेदि तत्तादृगनङ्गमार्गणै-
र्यदस्य पौष्पैरपि धैयकञ्चुकम् ॥४६॥
किमन्यदद्यापि यदस्त्रतापितः
पितामहो वारिजमाश्रयत्यहो ।
स्मरं तनुच्छायतया तमात्मनः
शशाक शङ्के स न लङ्घितुं नलः ॥४७॥
उरोभुवा कुम्भयुगेन जृम्भितं
नवोपहारेण वयः कृतेन किम् ।
त्रपासरिदृर्गमपि प्रतीर्य सा
नलस्य तन्वी हृदयं विवेश यत् ॥४८॥
अपह्नुवानस्य जनाय यन्निजा
मधीरतामस्य कृतं मनोभुवा ।
अबोधि तज्जागरदुःखसाक्षिणी
निशा च शय्या च शशाङ्ककोमला ॥४९॥
स्मरोपतप्तोऽपि भृशं न स प्रभु-
र्विदर्भराजं तनयामयाचत ।
त्यजन्त्यसूञ्शर्म च मानिनोवरं
त्यजन्ति न त्वेकमयाचितव्रतम् ॥५०॥
मृषाविषादाभिनयादयं क्वचि-
ज्जुगोप निःश्वासततिं वियोगजाम् ।
विलेपनस्याधिकचन्द्रभागता
विभावनाच्चापललाप पाण्डुताम् ॥५१॥
शशाक निह्नोतुमयेन तत्प्रिया
मयं बभाषे यदलीकवीक्षिताम् ।
समाज एवालपितासु वैणिकै-
र्मुमूर्च्छ यत्पञ्चममूर्च्छनासु च ॥५२॥
अवाप सापत्रपतां स भूपति-
र्जितेन्द्रियाणां धुरि कीर्तितस्थितिः ।
असंवरे शंबरवैरिविक्रमे
क्रमेण तत्र स्फुटतामुपेयुषि ॥५३॥
अलं नलं रोद्दुममी किलाभव-
न्गुणा विवेकप्रमुखा न चापलम् ।
स्मरः स रत्यामनिरुद्धमेव यत्-
सृजत्ययं सर्गनिसर्ग ईदृशः ॥५४॥
अनङ्गचिह्नं स विना शशाक नो
यदासितुं संसदि यत्नवानपि ।
क्षणं तदारामविहारकैतवान्
निषेवितुं देशमियेष निर्जनम् ॥५५॥
अथ श्रिया भर्त्सितमत्स्यलाच्छनः
समं वयस्यैः स्वरहस्यवेदिभिः ।
पुरोपकण्ठोपवनं किलेक्षिता
दिदेश यानाय निदेशकारिणः ॥५६॥
अमी ततस्तस्य विभूषितं सितं
जवेऽपि मानेऽपि च पौरुषाधिकम् ।
उपाहरन्नश्वमजस्रचञ्चलैः
खुराञ्चलैः क्षोदितमन्दुरोदरम् ॥५७॥
अथान्तरेणावटुगामिनाध्वना
निशीथिनीनाथमहः सहोदरैः ।
निगालगाद्देवमणेरिवोत्थितै-
र्विराजितं केसरकेशरश्मिभिः ॥५८॥
अजस्रभूमीतटकुट्टनोत्थितै-
रुपास्यमानं चरणेषु रेणुभिः ।
रयप्रकर्षाध्ययनार्थमागतै-
र्जनस्य चेतोभिरिवाणिमाङ्कितैः ॥५९॥
चलाचलप्रोथतया महीभृते
स्ववेगदर्पानिव वक्तुमुत्सुकम् ।
अलं गिरा वेद किलायमाशयं
स्वयं हयस्येति च मौनमास्थितम् ॥६०॥
महारथस्याध्वनि चक्रवर्तिनः
परानपेक्षोद्वहनाद्यशः सितम् ।
रदावदातांशुमिषादनीदृशां
हसन्तमन्तर्बलमर्वतां रवेः ॥६१॥
सितत्विषश्चञ्चलतामुपेयुषो
मिषेण पुच्छस्य च केसरस्य च ।
स्फुटं चलच्चामरयुग्मचिह्ननै-
रनिह्नुवानं निजवाजिराजताम् ॥६२॥
अपि द्विजिह्वाभ्यवहारपौरुषे
मुखानुषक्तायतवल्गुवल्गया ।
उपेयिवांसं प्रतिमल्लतां रय-
स्मये जितस्य प्रसभं गरुत्मतः ॥६३॥
स सिन्धुजं शीतमहः सहोदरं
हरन्तमुच्चैः श्रवसः श्रियं हयम् ।
जिताखिलक्ष्माभृदनल्पलोचन-
स्तमारुरोह क्षितिपाकशासनः ॥६४॥
निजा मयूखा इव तीक्ष्णदीधितिं
स्फुटारविन्दाङ्कितपाणिपङ्कजम् ।
तमश्ववारा जवनाश्वयायिनं
प्रकाशरूपा मनुजेशमन्वयुः ॥६५॥
चलन्नलंकृत्य महारयं हयं
स्ववाहवाहोचितवेषपेशलः ।
प्रमोदनिः स्पन्दतराक्षिपक्ष्मभि-
र्व्यलोकि लोकैर्नगरालयैर्नलः ॥६६॥
क्षणादथैष क्षणदापतिप्रभः
प्रभञ्जनाध्येयजवेन वाजिना ।
सहैव ताभिर्जनदृष्टिवृष्टिभि-
र्बहिः पुरोऽभूत्पुरुहूतपौरुषः ॥६७॥
ततः प्रतीच्छ प्रहरेति भाषिणी
परस्परोल्लासितशल्यपल्लवे ।
मृषामृघं सादिबले कुतूहला-
न्नलस्य नासीरगते वितेनतुः ॥६८॥
प्रयातुमस्माकमियं कियत्पदं
धरा तदम्भोधिरपि स्थलायताम् ।
इतीव वाहैर्निजवेगदर्पितैः
पयोधिरोधक्षममुद्धतं रजः ॥६९॥
हरेर्यदक्रामि पदैककेन खं
पदैश्चतुर्भिः क्रमणेऽपि तस्य नः ।
त्रपा हरीणामिति नम्रिताननै-
र्न्यवर्ति तैरर्धनभः कृतक्रमैः ॥७०॥
चमूचरास्तस्य नृपस्य सादिनो
जिनोक्तिषु श्राद्धतयेव सैन्धवाः ।
विहारदेशं तमवाप्य मण्डली-
मकारयन् भूरितुरंगमानपि ॥७१॥
द्विषद्भिरेवास्य विलङ्घिता दिशो
यशोभिरेवाब्धिरकारि गोष्पदम् ।
इतीव धारामवधीर्य मण्डली
क्रियाश्रियाऽमण्डि तुरंगमैः स्थली ॥७२॥
अचीकरच्चारु हयेन या भ्रमी-
र्निजातपत्रस्य तलस्थले नलः ।
मरुत्किमद्यापि न तासु शिक्षते
वितत्य वात्यामयचक्रङ्क्रमान् ॥७३॥
विवेश गत्वा स विलासकाननं
ततः क्षणात्क्षोणिपतिर्धृतीच्छया ।
प्रवालरागच्छुरितं सुषुप्सया
हरिर्धनच्छायमिवार्णसां निधिम् ॥७४॥
वनान्तपर्यन्तमुपेत्य सस्पृहं
क्रमेण तस्मिन्नवतीर्णदृक्पथे ।
न्यवर्ति दृष्टिप्रकरैः पुरौकसा-
मनुव्रजद्बन्धुसमाजबन्धुभिः ॥७५॥
ततः प्रसूने च फले च मञ्जुले
स संमुखस्थाङ्गुलिना जनाधिपः ।
निवेद्यमानं वनपालपाणिना
व्यालोकयत्काननकामनीयकम् ॥७६॥
फलानि पुष्पाणि च पल्लवे करे
वयोतिपातोद्गतवातवेपिते ।
स्थितैः समादाय महर्षिवार्धकाद्
वने तदातिथ्यमशिक्षि शाखिभिः ॥७७॥
विनिद्रपत्रालिगतालिकैतवान्-
मृगाङ्कचूडामणिवर्जनार्जितम् ।
दधानमाशासु चरिष्णु दुर्यशः
स कौतुकी तत्र ददर्श केतकम् ॥७८॥
वियोगभाजां हृदि कण्टकैः कटु-
र्निधीयसे कर्णिशरः स्मरेण यत् ।
ततो दुराकर्षतया तदन्तकृद्-
विगीयसे मन्मथदेहदाहिना ॥७९॥
त्वदग्रसूचीसचिवेन कामिनो-
र्मनोभवः सीव्यति दुर्यशः पटौ ।
स्फुटं स पत्रैः करपत्रमूर्तिभि
र्वियोगिहृद्दारुणि दारुणायते ॥८०॥
धनुर्मधुस्विन्नकरोऽपि भीम-
जापरं परागैस्तव धूलिहस्तयन् ।
प्रसूनधन्वा शरसात्करोति मा-
मिति क्रुधाक्रुश्यत तेन कैतकम् ॥८१॥
विदर्भसुभ्रूस्तनतुङ्गताप्तये
घटानिवापश्यदलं तपस्यतः ।
फलानि धूमस्य धयानधोमुखान्-
स दाडिमे दोहदधूपिनि द्रुमे ॥८२॥
वियोगिनीमैक्षत दाडिमीमसौ
प्रियस्मृतेः स्पष्टमुदीतकण्टकाम् ।
फलस्तनस्थानविदीर्णरागिहृ-
द्विशच्छुकास्यस्मरकिंशुकाशुगाम् ॥८३॥
स्मरार्धचन्द्रेषुनिभे क्रशीयसां
स्फुटं पलाशेऽध्वजुषां पलाशनात् ।
स वृन्तमालोकत खण्डमन्वितं
वियोगिहृत्खण्डिनि कालखण्डजम् ॥८४॥
नवा लता गन्धवहेन चुम्बिता
करम्बिताङ्गी मकरन्दशीकरैः ।
दृशा नृपेण स्मितशोभिकुञ्चला
दरादराभ्यां दरकम्पिनी पपे ॥८५॥
विचिन्वतीः पान्थपतङ्गहिंसनै-
रपुण्यकर्माण्यलिकज्जलच्छलात् ।
व्यलोकयच्चम्पककोरकावलीः
स शम्बरारेर्बलिदीपिका इव ॥८६॥
अमन्यतासौ कुसुमेषुगर्भगं
परागमन्धंकरणं वियोगिनाम् ।
स्मरेण मुक्तेषु पुरा पुरारये
तदङ्गभस्मेव शरेषु संगतम् ॥८७॥
पिकाद्वने शृण्वति भृङ्गहुं कृतै-
र्दशामुदञ्चत्करुणे वियोगिनाम् ।
अनास्थया सूनकरप्रसारिणीं
ददर्श दूनः स्थलपद्मिनीं नलः ॥८८॥
रसालसालः समदृश्यतामुना
स्फुरद्द्विरेफारवरोषहुंकृतिः ।
समीरलोलैर्मुकुलैर्वियोगिने
जनाय दित्सन्निव तर्जनाभियम् ॥८९॥
दिने दिने त्वं तनुरेधि रेऽधिकं
पुनः पुनर्मूर्च्छ च तापमृच्छ च ।
इतीव पान्थाञ्शपतः पिकान्द्विजान्-
सखेदमैक्षिष्ट स लोहितेक्षणान् ॥९०॥
अलिस्रजा कुङ्मलमुच्चशेखरं
निपीय चाम्पेयमधीरया धिया ।
स धूमकेतुं विषदे वियोगिना-
मुदीतमातङ्कितवानशङ्कत ॥९१॥
गलत्परागं भ्रमिभह्गिभिः पतत्-
प्रसक्तभृङ्गावलि नागकेसरम् ।
स मारनाराचनिघर्षणस्खल-
ज्ज्वलत्कणं शाणमिव व्यलोकयत् ॥९२॥
तदङ्गमुद्दिश्य सुगन्धि पातुकाः
शिलीमुखालीः कुसुमाहुणस्पृशः ।
स्वचापदुर्निर्गतमार्गणभ्रमात्-
स्मरः स्वनन्तीरवलोक्य लज्जितः ॥९३॥
मरुल्ललत्पल्लवकण्टकैः क्षतं
समुच्छलच्चन्दनसारसौरभम् ।
स वारनारीकुचसंचितोपमं
ददर्श मालूरफलं पचेलिमम् ॥९४॥
युवद्वयीचित्तनिमज्जनोचित-
प्रसूनशून्येतरगर्भगह्वरम् ।
स्मरेषुधीकृत्य धिया भयान्धसा
स पाटलायाः स्तबकं प्रकम्पितः ॥९५॥
मुनिद्रुमः कोरकितः शितिद्युति-
र्वनेऽमनाऽमन्यत सिंहिकासुतः ।
तमिस्नपक्षत्रुटिकूटभक्षितं
कलाकलापं किल वैधवं वमन् ॥९६॥
पुरा हठाक्षिप्ततुषारपाण्डुर-
च्छदावृतेर्वीरुधि बद्धविभ्रमाः ।
मिलत्रिमीलं ससृजुर्विलोकिता
नभस्वतस्तं कुसुमेषु केलयः ॥९७॥
गता यदुत्सङ्गतले विशालतां
द्रुमाः शिरोभिः फलगौरवेण ताम् ।
कथं न धात्रीमति मात्रनामितैः
स वन्दमानानभिनन्दति स्म तान् ॥९८॥
नृपाय तस्मै हिमितं वनानिलैः
सुधीकृतं पुष्परसैरहर्महः ।
विनिर्मितं केतकरेणुभिः सितं
 वियोगिनेऽदत्त न कौमदीमुदः ॥९९॥
अयोगभाजोऽपि नृपस्य पश्यता
तदेव साक्षादमृतांशुमाननम् ।
पिकेन रोषारुणचक्षुषा मुहुः
कुहूरुताहूयत चन्द्रवैरिणी ॥१००॥
अशोकमर्थान्वितनामताशया-
गतान् शरण्यं गृहशोचिनोऽद्वगान् ।
अमन्यतावन्तमिवैष पल्लवैः
प्रतीष्टकामज्वलदस्त्रजालकम् ॥१०१॥
विलास वापीतटवीचिवादनात्-
पिकालिगीतेः शिखिलास्यलाघवात् ।
वनेऽपि तौर्यत्रिकमारराध तं
क्व भोगमाप्नोति न भाग्यभाग्जनः ॥१०२॥
तदर्थमध्याप्य जनेन तद्वने
शुका विमुक्ताः पटवस्तमस्तुवन् ।
स्वरामृतेनोपजगुश्च सारिका-
स्तथैव तत्पौरुषगायनीकृताः ॥१०३॥
इतीष्टगन्धाढ्यमटन्नसौ वनं
पिकोपगीतोऽपि शुकस्तुतोऽपि च ।
अविन्दतामोदभरं बहिश्चरं
विदर्भसुभ्रुविरहेण नान्तरम् ॥१०४॥
करेण मीनं निजकेतनं दध-
द्द्रुमालवालाम्बुनिवेशशङ्कया ।
व्यतर्कि सर्वर्तुघने घने मधुं
स मित्रमत्रानुसरन्निव स्मरः ॥१०५॥
लताबलालास्यकलागुरुस्तरु-
प्रसूनगन्धोत्करपश्यतोहरः ।
असेवतामुं मधुगन्धवारिणि
प्रणीतलीलाप्लवनो वनानिलः ॥१०६॥
अथ स्वमादाय भयेन मन्थ-
नाच्चिरत्नाधिकमुच्चितं चिरात् ।
निलीय तस्मिन्निव सन्नपांनिधि-
र्वने तडाको ददृशेऽवनीभुजा ॥१०७॥
पयोनिलीनाभ्रमुकामुकावली-
रदाननन्तोरगपुच्छसुच्छवीन् ।
जलार्धरुद्धस्य तटान्तभूमिदो
मृणालजालस्य मिषाद्बभार यः ॥१०८॥
तटान्तविश्रान्ततुरंगमच्छटा-
स्फुटानुविम्बोदयचुम्बनेन यः ।
बभौ चलद्वीचिकशान्तशातनैः
सहस्रमुच्चैः श्रवसामिवाश्रयन् ॥१०९॥
सिताम्बुजानां निवहस्य यश्छला-
द्बभावलिश्यामलितोदरश्रियाम् ।
तमः समच्छायकलङ्कसंकुलं
कुलं सुधांशोर्बहलं वहन्वहु ॥११०॥
रथाङ्गभाजा कमलानुषङ्गिणा
शिलीमुखस्तोमसखेन शार्ङ्गिणा ।
सरोजिनीस्तम्बकदम्बकैतवान्-
मृणालशेषाहिभुवान्वयायि यः ॥१११॥
तरङ्गिणीरङ्कजुषः स्ववल्लभा-
स्तरङ्गरेखा बिभरांबभूव यः ।
दरोद्गतैः कोकनदौघकोरकै-
र्धृतप्रवालाङ्कुरसंचयश्च यः ॥११२॥
महीयसः पङ्कजमण्डलस्य य-
श्छलेन गौरस्य च मेचकस्य च ।
नलेन मेने सलिले निलीनयो-
स्त्विषं विमुञ्चन्विधुकालकूटयोः ॥११३॥
चलीकृता यत्र तरङ्गरिङ्गणै-
रबालशैवाललतापरम्पराः ।
ध्रुवं दधुर्वाडवहव्यवाडव-
स्थितिप्ररोहत्तमभूमधूमताम् ॥११४॥
प्रकाममादित्यमवाप्य कण्टकैः
करम्बितामोदभरं विवृण्वती ।
धृतस्फुटश्रीगृहविग्रहा दिवा
सरोजिनी यत्प्रभवाप्सरायिता ॥११५॥
यदम्बुपूरप्रतिबिम्बितायति-
र्मरुत्तरङ्गैस्तरलस्तटद्रुमः ।
निमज्ज्य मैनाकमहीभृतः सत-
स्ततान पक्षान्धुवतः सपक्षताम् ॥११६॥
पयोधिलक्ष्मीमुषि केलिपल्वले
रिरंसुहंसीकलनादसादरम् ।
स तत्र चित्रं विचरन्तमन्तिके
हिरण्मयं हंसमबोधि नैषधः ॥११७॥
प्रियासु बालासु रतक्षमासु च
द्विपत्रितं पल्लवितं च बिभ्रतम् ।
स्मरार्जितं रागमहीरुहाङ्कुरं
मिषेण चञ्च्वोश्चरणद्वयस्य च ॥११८॥
महीमहेन्द्रस्तमवेक्ष्य स क्षणं
शकुन्तमेकान्तमनोविनोनदिम् ।
प्रियावियोगाद्विधुरोऽपि निर्भरं
कुतूहलाक्रान्तमना मनागभूत् ॥११९॥
अवश्यभव्येष्वनवग्रहग्रहा
यया दिशा धावति वेधसः स्पृहा ।
तृणेन वात्येव तयानुगम्यते
जनस्य चित्तेन भृशावशात्मना ॥१२०॥
अथावलम्ब्य क्षणमेकपादिकां
तदा निदद्रावुपपल्वलं खगः ।
स तिर्यगावर्जितकंधरः शिरः
पिधाय पक्षेण रति क्लमालसः ॥१२१॥
सनालमात्मानननिर्जितप्रभं
ह्रिया नतं काञ्चनमम्बुजन्म किम् ।
अबुद्ध तं विद्रुमदण्डमण्डितं
स पीत मम्भः प्रभुचामरं नु किम् ॥१२२॥
कृतावरोहस्य हयादुपानहौ
ततः पदे रेजतुरस्य बिभ्रती ।
तयोः प्रवालैर्वनयोस्तथाम्बुजै-
र्नियोद्धुकामे किमु बद्धवर्मणी ॥१२३॥
विधाय मूर्तिं कपटेन वामनीं
स्वयं बलिध्वंसिविडम्बिनीमयम् ।
उपेतपार्श्वश्चरणेन मौनिना
नृपः पतङ्गं समधत्त पाणिना ॥१२४॥
तदात्तमात्मानमवेत्य संभ्रमात्-
पुनः पुनः प्रायसदुत्प्लवाय सः ।
गतो विरुत्योड्डयने निराशतां
करौ निरोद्धुर्दशति स्म केवलम् ॥१२५॥
ससंभ्रमोत्पातिपतत्कुलाकुलं
सरः प्रपद्योत्कतयाऽनुकम्प्रताम् ।
तमूर्मिलोलैः पतगग्रहान्नृपं
न्यवारयद्वारिरुहैः करैरिव ॥१२६॥
पतत्रिणा तद्रुचिरेण वञ्चितं
श्रियः प्रयान्त्याः प्रविहाय पल्वलम् ।
चलत्पदाम्भोरुहनूपुरोपमा
चुकूज कूले कलहंसमण्डली ॥१२७॥
न वासयोग्या वसुधेयमीदृश-
स्त्वमङ्ग ! यस्याः पतिरुज्झितस्थितिः ।
इति प्रहाय क्षितिमाश्रिता नभः
खगास्तमाचुकुशुरारवैः खलु ॥१२८॥
न जातरूपच्छदजातरूपता
द्विजस्य दृष्टेयमिति स्तुवन्मुहुः ।
अवादि तेनाथ स मानसौकसा
जनाधिनाथः करपञ्जरस्पृशा ॥१२९॥
धिगस्तु तृष्णातरलं भवन्मनः
समीक्ष्य पक्षान्मम हेमजन्मनः ।
तवार्णवस्येव तुषारशीकरै-
र्भवेदमीभिः कमलोदयः कियान् ॥१३०॥
न केवलं प्राणिवधो वधो मम
त्वदीक्षणाद्विश्वसितान्तरात्मनः ।
विगर्हितं धर्मधनैर्निबर्हणं
विशिष्य विश्वासजुषां द्विषामपि ॥१३१॥
पदे पदे सन्ति भटा रणोद्भटा
न तेषु हिंसारस एष पूर्यते ।
धिगीदृशं ते नृपते ! कुविक्रमं
कृपाश्रये यः कृपणे पतत्रिणि ॥१३२॥
फलेन मूलेन च वारिभूरुहां
मुनेरिवेत्थं मम यस्य वृत्तयः ।
त्वयाद्य तस्मिन्नपि दण्डधारिणा
कथं न पत्या धरणी हृणीयते ॥१३३॥
इतीदृशैस्तं विरचय्य वाङ्मयैः
सचित्रवैलक्ष्यकृपं नृपं खगः ।
दयासमुद्रे स तदाशयेऽतिथी-
चकार कारुण्यरसापगा गिरः ॥१३४॥
मदेकपुत्रा जननी जरातुरा
नवप्रसूतिर्वरटा तपस्विनी ।
गतिस्तयोरेष जनस्तमर्दय-
न्नहो विधे ! त्वां करुणा रुणद्धि न ॥१३५॥
मुहूर्तमात्रं भवनिन्दया दया-
सखाः सखायः स्रवदश्रवो मम ।
निवृत्तिमेष्यन्ति परं दुरुत्तर-
स्त्वयैव मातः ! सुतशोकसागरः ॥१३६॥
मदर्थसंदेशमृणालमन्थरः
प्रियः कियद्दूर इति त्वयोदिते ।
विलोकयन्त्या रुदतोऽथ पक्षिणः
प्रिये ! स कीदृग्भविता तव क्षणः ॥१३७॥
कथं विधातर्मयि पाणिपङ्कजा-
त्तव प्रियाशैत्यमृदुत्वशिल्पिनः ।
वियोक्ष्यसे वल्लभयेति निर्गता
लिपिर्ललाटन्तपनिष्ठुराक्षरा ॥१३८॥
अयि !स्वयूथ्यैरशनिक्षतोपमं
ममाद्य वृत्तान्तमिमं बतोदिता ।
मुखानि लोलाक्षि ! दिशामसंशयं
दशापि शून्यानि विलोकयिष्यसि ॥१३९॥
ममैव शोकेन विदीर्णवक्षसा
त्वया विचित्राङ्गि ! विपद्यते यदि ।
तदास्मि दैवेन हतोऽपि हा हतः
स्फुटं यतस्ते शिशवः परासवः ॥१४०॥
तवापि हा हा विरहात्क्षुधाकुलाः
कुलायकूलेषु विलुठ्य तेषु ते ।
चिरेण लब्धा बहुभिर्मनोरथै-
र्गताः क्षणेनास्फुटितेक्षणा मम ॥१४१॥
सुताः ! कमाहूय चिराय चुंकृतै-
र्विधाय कम्प्राणि मुखानि कं प्रति ।
कथासु शिष्यध्वमिति प्रमील्य सः
स्त्रुतस्य सेकाद्बुबुधे नृपाश्रुणः ॥१४२॥
इत्थममुं विलपन्तममुञ्च-
द्दीनदयालुतयावनिपालः ।
रुपमदर्शि धृतोऽसि यदर्थं
गच्छ यथेच्छमथेत्यभिधाय ॥१४३॥
आनन्दजाश्रुभिरनुस्रियमाणमार्गान्-
प्राक्शोकनिर्गमितनेत्रपयः प्रवाहान् ।
चक्रे स चक्रनिभचङ्क्रमणच्छलेन
नीराजनां जनयतां निजबान्धवानाम् ॥१४४॥
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
तच्चिन्तामणिमन्त्रचिन्तनफले शृङ्गारभङ्ग्या महा-
काव्ये चारुणि नैषधीयचरिते सर्गोऽयमादिर्गतः ॥१४५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2013-01-19T05:15:31.8970000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

सुदूर याफ्तन् ‍

  • सादर होणें ; उद्‍भूत होणें [ फा . ] 
RANDOM WORD

Did you know?

श्रावण महिन्यांत महादेवाच्या पिंडीवर दुधाचा अभिषेक कां करावा? त्याचे पुण्य काय?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.