नैषधीयचरितम् - तृतीयः सर्गः

महाकवि श्रीहर्षरचितं नैषधीयचरितम् हा ग्रंथ म्हणजे संस्कृत भाषेतील अतिउत्तम रचना होय.


आकुञ्चिताभ्यामथ पक्षतिभ्यां
नमोविभागात्तरसावतीर्य ।
निवेशदेशाततधूतपक्षः
पपात भूमावुपभैमि हंसः ॥१॥
आकस्मिकः पक्षपुटाहतायाः
क्षितेस्तदा यः स्वन उच्चचार ।
द्रागन्यविन्यस्तदृशः स तस्याः
संभ्रान्तमन्तः करणं चकार ॥२॥
नेत्राणि वैदर्भसुतासंखीनां
विमुक्ततत्तद्विषयग्रहाणि ।
प्रापुस्तमेकं निरुपाख्यरूपं
ब्रह्मेव चेतांसि यतव्रतानाम् ॥३॥
हंसं तनौ सन्निहितं चरन्तं
मुनेर्मनोवृत्तिरिव स्विकायाम् ।
ग्रहीतुकामादरिणा शयेन
यत्नादसौ निश्चलतां जगाहे ॥४॥
तामिङ्गितैरप्यनुमाय मायाम्-
अयं न भैम्या वियदुत्पपात ।
तत्पाणिमात्मोपरिपातुकं
तु मोघं वितेने प्लुतिलाघवेन ॥५॥
व्यर्थीकृतं पत्ररथेन तेन
तथाऽवसाय व्यवसायमस्याः ।
परस्परामर्पितहस्ततालं
तत्कालमालीभिरहस्यतालम् ॥६॥
उच्चाटनीयः करतालिकानां
दानादिदानीं भवतीभिरेषः ।
यान्वेति मां दुह्यति मह्ममेव
सात्रेत्युपालम्भि तयालिवर्गः ॥७॥
धृताल्पकोपा हसिते सखीनां
छायेव भास्वन्तमभिप्रयातुः ।
श्यामाथ हंसस्य करानवाप्तेः
मन्दाक्षलक्ष्या लगति स्म पश्चात् ॥८॥
शस्ता न हंसाभिमुखी पुनस्ते
यात्रेति ताभिश्छलहस्यमाना ।
साह स्म नैवाशकुनीभवेन्मे
भाविप्रियावेदक एष हंसः ॥९॥
हंसोऽप्यसौ हंसगतेः सुदत्याः
पुरः पुरश्चारु चलन्वमासे ।
वैलक्ष्यहेतोर्गतिमेतदीयाम्
अग्रेऽनुकृत्योपहसन्निवोच्चैः ॥१०॥
पदे पदे भाविनि भाविनी तं
यथा करप्राप्यमवैति नूनम् ।
तथा सखेलं चलता लतासु
प्रतार्य तेनाचकृषे कृशाङ्गी ॥११॥
रुषा निषिद्धालिजनां यदैनां
छायाद्वितीयां कलयांचकार ।
तदा श्रमाम्भः कणभूषिताङ्गीं
स कीरवन्मानुषवागवादीत् ॥१२॥
अये ! कियद्यावदुपैषि दूरं
व्यर्थे परिश्राम्यसि वा किमित्थम् ।
उदेति ते भीरपि किं नु बाले !
विलोकयन्त्या न घना वनालीः ॥१३॥
वृथार्पयन्तीमपथे पदं त्वां
मरुल्ललत्पल्लवपाणिकम्पैः ।
आलीव पश्य प्रतिषेधतायं
कपोतहुंकारगिरा वनाली ॥१४॥
धार्यः कथंकारमहं भवत्या
वियद्विहारी वसुधैकगत्या ।
अहो ! शिशुत्वं तव खण्डितं न
स्मरस्य सख्या वयसाप्यनेन ॥१५॥
सहस्रपत्रासनपत्रहंस-
वंशस्य पत्राणि पतत्रिणः स्मः ।
अस्मादृशां चाटुरसामृतानि
स्वर्लोकलोकेतरदुर्लभानि ॥१६॥
स्वर्गापगाहेममृणालिनीनां
नालामृणालाग्रभुजो भजामः ।
अन्नानुरूपां तनुरूपऋद्धिं
कार्ये निदानाद्धि गुणानधीते ॥१७॥
धातुर्नियोगादिह नैषधीयं
लीलासरः सेवितुमागतेषु ।
हैमेषु हंसेष्वहमेक एव
भ्रमामि भूलोकविलोकनोत्कः ॥१८॥
विधेः कदाचिद्भ्रमणीविलासे
श्रमातुरेभ्यः स्वमहत्तरेभ्यः ।
स्कन्धस्य विश्रान्तिमदां तदादि
श्राम्यामि नाविश्रमविश्वगोऽपि ॥१९॥
बन्धाय दिव्ये न तिरश्चि कश्चित्
पाशादिरासादितपौरुषः स्यात् ।
एकं विना मादृशि तन्नरस्य
स्वर्भोगभाग्यं विरलोदयस्य ॥२०॥
इष्टेन पूर्तेन नलस्य वश्याः
स्वर्भोगमत्रापि सृजन्त्यमर्त्याः ।
महीरुहा दोहदसेकशक्ते-
राकालिकं कोरकमुद्गिरन्ति ॥२१॥
सुवर्णशैलादवतीर्य तूर्णं
स्वर्वाहिनीवारिकणावकीर्णैः ।
तं वीजयामः स्मरकेलिकाले
पक्षैर्नृपं चामरबद्धसख्यैः ॥२२॥
क्रियेत चेत्साधुविभक्तिचिन्ता
व्यक्तिस्तदा सा प्रथमाभिधेया ।
या स्वौजसां साधयितुं विलासैः
तावत्क्षमानामपदं बहु स्यात् ॥२३॥
राजा स यज्वा विबुधव्रजत्रा
कृत्वाध्वराज्योपमयैव राज्यम् ।
भुङ्क्ते श्रितश्रोत्रियसात्कृतश्रीः
पूर्वं त्वहो शेषमशेषमन्त्यम् ॥२४॥
दारिद्र्यदारिद्रविणौघवर्षै
रमोघमेघव्रतमर्थिसार्थे ।
संतुष्टमिष्टानि तमिष्टदेवं
नाथन्ति के नाम न लोकनाथम् ॥२५॥
अस्मत्किल श्रोत्रसुधां विधाय
रम्भा चिरं भामतुलां नलस्य ।
तत्रानुरक्ता तमनाप्य भेजे
तन्नामगन्धान्नलकूबरं सा ॥२६॥
स्वर्लोकमस्माभिरितः प्रयातैः
केलीषु तद्गानगुणान्निपीय ।
हा हेति गायन्यदशोचि तेन
नाम्नैव हाहा हरिगायनोऽभूत् ॥२७॥
शृण्वन्सदारस्तदुदारभावं
हृष्यन्मुहुर्लोम पुलोमजायाः ।
पुण्येन नालोकत लोकपालः
प्रमोदबाष्पावृतनेत्रमालः ॥२८॥
सापीश्वरे शृण्वति तद्गुणौधान्
प्रसह्य चेतो हरतोऽर्धशम्भुः ।
अभूदपर्णाङ्गुलिरुद्धकर्णा
कदा न कण्डूयनकैतवेन ॥२९॥
अलं सजन्धर्मविधौ विधाता
रुणद्धि मौनस्य मिषेण वाणीम् ।
तत्कण्ठमालिङ्ग्य रसस्य तृप्तां
न वेद तां वेदजडः स वक्राम् ॥३०॥
श्रियस्तदालिङ्गनभूर्न भूता
व्रतक्षतिः कापि पतिव्रतायाः ।
समस्तभूतात्मतया न भूतं
तद्भर्तुरीर्ष्याकलुषाणुनापि ॥३१॥
धिक् तं विधेः पाणिमजातलज्जं
निर्माति यः पर्वणि पूर्णमिन्दुम् ।
मन्ये स विज्ञः स्मृततन्मुखश्रीः
कृत्वार्धमौज्झद्धरमूर्ध्नि यस्तम् ॥३२॥
निलीयते ह्रीविधुरः स्वजैत्रं
श्रुत्वा विधुस्तस्य मुखं मुखान्नः ।
सूरे समुद्रस्य कदापि पूरे
कदाचिदभ्रभ्रमदभ्रगर्भे ॥३३॥
संज्ञाप्य नः स्वध्वजभृत्यवर्गान्
दैत्यारिरत्यब्जनलास्यनुत्यै ।
तत्संकुचन्नाभिसरोजपीताद्
धातुर्विलज्जं रमते रमायाम् ॥३४॥
रेखाभिरास्ये गणनादिवास्य
द्वात्रिंशता दन्तमयीभिरन्तः ।
चतुर्दशाष्टादश चात्र विद्या
द्वेधापि सन्तीति शशंस वेधाः ॥३५॥
श्रियौ नरेन्द्रस्य निरीक्ष्य तस्य
स्मरामरेन्द्रावपि न स्मरामः ।
वासेन तस्मिन्क्षमयोश्च सम्यग्-
बुद्धौ न दध्मः खलु शेष बुद्धौ ॥३६॥
विना पतत्रं विनतातनूजैः समीरणैरीक्षणलक्षणीयैः ।
मनोभिरासीदनणुप्रमाणै-
र्न लङ्घिता दिक्कतमा तदश्वैः ॥३७॥
संग्रामभूमीषु भवत्यरीणाम्
अस्रैर्नदीमातृकतां गतासु ।
तद्बाणधारापवनाशनानां
राजव्रजीयैरसुभिः सुभिक्षम् ॥३८॥
यशो यदस्याजनि संयुगेषु
कण्डुलभावं भजता भुजेन ।
हेतोर्गुणादेव दिगापगाली
कूलंकषत्वव्यसनं तदीयम् ॥३९॥
यदि त्रिलोकी गणनापरा स्यात्-
तस्याः समाप्तिर्यदि नायुषः स्यात् ।
पारेपरार्धे गणितं यदि स्याद्-
गणेयनिःशेष गुणोऽपि स स्यात् ॥४०॥
अवारितद्वारतया तिरश्चाम्-
अन्तःपुरे तस्य निविश्य राज्ञः ।
गतेषु रम्येष्वधिकं विशेषम्
अध्यापयामः परमाणुमध्याः ॥४१॥
पीयूषधारानधराभिरन्तः
तासां रसोदन्वति मज्जयामः ।
रम्भादिसौभाग्यरहःकथाभिः
काव्येन काव्यं सृजतादृताभिः ॥४२॥
 काभिर्न तत्राभिनवस्मराज्ञा-
विश्वासनिक्षेपवणिक् क्रियेऽहम् ।
जिह्रेति यन्नैव कुतोऽपि तिर्यक्
कश्चित्तिरश्चस्त्रपते न तेन ॥४३॥
वार्तापि नासत्यपि सान्यमेति
योगादरन्ध्रे हृदि यां निरुन्धे ।
विरञ्चिनानाननवादधौत
समाधिशास्त्रश्रुतिपूर्णकर्णः ॥४४॥
नलाश्रयेण त्रिदिवोपभोगं
तवानवाप्यं लभते बतन्या ।
कुमुद्वतीवेन्दुपरिग्रहेण
ज्योत्स्नोत्सवं दुर्लभमम्बुजिन्या ॥४५॥
तन्नैषधानूढतया दुरापं
शर्म त्वयास्मत्कृतचाटुजन्म ।
रसालवन्या मधुपानुविद्धं
सौबाग्यमप्राप्तवसन्तयेव ॥४६॥
तस्यैव वा यास्यसि किं न हस्तं
दृष्टं मनः केन विधेः प्रविश्य ।
अजातपाणिग्रहणासि तावत्
रूपस्वरूपातिशयाश्रयश्च ॥४७॥
निशा शशाङ्कं शिवया गिरीशं
श्रिया हरिं योजयतः प्रतीतः ।
विधेरपि स्वारसिकः प्रयासः
परस्पर योग्यसमागमाय ॥४८॥
वेलातिगस्त्रैणगुणआब्धिवैणिः
न योगयोग्यासि नलेतरेण ।
संदर्भ्यते दर्भगुणेन मल्ली-
माला न मृद्वी भृशकर्कशेन ॥४९॥
विधिं वधूसृष्टिमपृच्छमेव
तद्यानयुग्यो नलकेलियोग्याम् ।
त्वन्नामवर्णा इव कर्णपीता
मयास्य संक्रीडति चक्रिचक्रे ॥५०॥
अन्येन पत्या त्वयि योजितायां
विज्ञत्वकीर्त्या गतजन्मनो वा ।
जनापवादार्णवमुत्तरीतुं
विधा विधातुः कतमा तरीः स्यात् ॥५१॥
आस्तां तदप्रस्तुतचिन्तयालं
मयासि तन्वि ! श्रमितातिवेलम् ।
सोऽहं तदागः परिमार्ष्टुकामः
किमीप्सितं ते विदधेऽभिधेहि ॥५२॥
इतीरयित्वा विरराम पत्री
स राजपुत्रीहृदयं बुभुत्सुः ।
ह्रदे गभीरे हृदि चावगाढे
शंसन्ति कार्यावतरं हि सन्तः ॥५३॥
किंचित्तिरश्चीनविलोलमौलिः
विचिन्त्य वाच्यं मनसा मुहूर्तम् ।
पतत्रिणं सा पृथिवीन्द्रपुत्री
जगाद वक्रेण तृणीकृतेन्दुः ॥५४॥
धिक्चापले वत्सिमवत्सलत्वं
यत्प्रेरणादुत्तरलीभवन्त्या ।
समीरसङ्गादिव नीरभङ्ग्या
मया तटस्थस्त्वमुपद्रुतोऽसि ॥५५॥
आदर्शतां स्वच्छतया प्रयासि
सतां स तावत्खलु दर्शनीयः ।
आगः पुरस्कुर्वति सागसं मां
यस्यात्मनीदं प्रतिबिम्बितं ते ॥५६॥
अनार्यमप्याचरितं कुमार्या
भवान्मम क्षाम्यतु सौम्य ! तावत् ।
हंसोऽपि देवांशतयासि वन्द्यः
श्रीवत्सलक्ष्मेव हि मत्स्यमूर्तिः ॥५७॥
मत्प्रीतिमाधित्ससि कां त्वदीक्षा-
मुदं मदक्ष्णोरपि यातिशेताम् ।
निजामृतैर्लोचनसेचनाद्वा
पृथक्किमिन्दुः सृजति प्रजानाम् ॥५८॥
मनस्तु यं नोज्झति जातु यातु
मनोरथः कण्ठपथं कथं सः ।
का नाम बाला द्विजराजपाणि-
ग्रहाभिलाषं कथयेदलज्जा ॥५९॥
वाचं तदीयां परिपीय मृद्वीं
मृद्वीकया तुल्यरसां स हंसः ।
तत्याज तोषं परपुष्टघुष्टे
घृणां च वीणाक्वणिते वितेन ॥६०॥
मन्दाक्षमन्दाक्षरमुद्रमुक्त्वा
तस्यां समाकुञ्चितवाचि हंसः ।
तच्छंसिते किंचन संशयालुः
गिरा मुखाम्भोजमयं युयोज ॥६१॥
करेण वाञ्छेव विधुं विधर्तुं
यमित्थमात्थादरिणी तमर्थम् ।
पातुं श्रुतिभ्यामपि नाधिकुर्वे
वर्णे श्रुतेर्वर्ण इवान्तिमः किम् ॥६२॥
अवाप्यते वा किमियद्भवत्या
चित्तैकपद्यामपि विद्यते यः ।
यत्रान्धकारः किल चेतसोऽपि
जिह्मेतरैर्ब्रह्म तदप्यवाप्यम् ॥६३॥
ईशाणिमैश्वर्यविवर्तमध्ये
लोकेशलोकेशयलोकमध्ये ।
तिर्यञ्चमप्यञ्च मृषानभिज्ञ-
रसज्ञतोपज्ञसमज्ञमज्ञम् ॥६४॥
मध्ये श्रुतीनां प्रतिवेशिनीनां
सरस्वती वासवती मुखे नः ।
ह्रियेव ताभ्यश्चलतीयमद्धा
पथान्न सत्सङ्गगुणेन नद्धा ॥६५॥
पर्यङ्कतापन्नसरस्वदङ्कां
लङ्कां पुरीमप्यभिलाषि चित्तम् ।
कुत्रापि चेद्वस्तुनि ते प्रयाति
तदप्यवेहि स्वशये शयालु ॥६६॥
इतीरिता पत्ररथेन तेन
ह्रीणा च हृष्टा च बभाण भैमी ।
चेतो नलङ्कामयते मदीर्यं
नान्यत्र कुत्रापि च साभिलाषम् ॥६७॥
विचिन्त्य बालाजनशीलशैलं
लज्जानदीमज्जदनङ्गनागम् ।
आचष्ट विस्पष्टमभाषमाणा-
मेनां स चक्राङ्गपतङ्गशक्रः ॥६८॥
नृपेण पाणिग्रहणे स्पृहेति
नलं मनः कामयते ममेति ।
आश्लेषि न श्लेषकवेर्भवत्याः
श्लोकद्वयार्थः सुधिया मया किम् ॥६९॥
त्वच्चेतसः स्थैर्यविपर्ययं तु
संभाव्य भाव्यस्मि तमज्ञ एव ।
लक्ष्ये हि बालाहृदि लोलशीले
दरापराद्धेषुरपि स्मरः स्यात् ॥७०॥
महीमहेन्द्रः खलु नैषधेन्दुः
तद्वोधनीयः कथमित्थमेव ।
प्रयोजनं सांशयिकं प्रतीदृक्
पृथग्जनेनेव स मद्विधेन ॥७१॥
पितुर्नियोगेन निजेच्छया वा
युवानमन्यं यदि वा वृणीषे ।
त्वदर्थमर्थित्वकृति प्रतीतिः
कीदृङ्मयि स्यान्निषधेश्वरस्य ॥७२॥
त्वपायि किं शङ्कितविक्रियेऽस्मिन्
नधिक्रिये वा विषये निदातुम् ।
इतः पृथक्प्रार्थयसे तु यद्यत्
कुर्वे तदुर्वीपतिपुत्रि ! सर्वम् ॥७३॥
श्रवः प्रविष्टा इव तद्गिरस्ता
विधूय वैमत्यधुतेन मूर्ध्ना ।
ऊचे ह्रियोऽपि श्लथितानुरोधा
पुनर्धरित्रीपुरुहूतपुत्री ॥७४॥
मदन्यदानं प्रति कल्पना या
वेदस्त्वदीये हृदि तावदेषा ।
निशोऽपि सोमेतरकान्तशङ्का
मोंकारमग्रेसरमस्य कुर्याः ॥७५॥
सरोजिनीमानसरागवृत्तेः
अनर्कसंपर्कमतर्कयित्वा ।
मदन्यपाणिग्रहशङ्कितेयम्-
अहो महीयस्तव साहसिक्यम् ॥७६॥
साधु त्वया तर्कितमेतदेव
स्वेनानलं यत्किल संश्रयिष्ये ।
विनामुना स्वात्मनि तु प्रहर्तु
मृषागिरं त्वां नृपतौ न कर्तुम् ॥७७॥
मद्विप्रलभ्यं पुनराह यस्त्वां
तर्कः स किं तत्फलवाचि मूकः ।
अशक्यशङ्काव्यभिचारहेतुः
वाणी न वेदा यदि सन्तु के तु ॥७८॥
अनैषधायैव जुहोति तातः
किं मां कृशानौ न शरीरशेषाम् ।
ईष्टे तनूजन्मतनोः स नूनं
मत्प्राणनाथस्तु नलस्तथापि ॥७९॥
तदेकदासीत्वपदादुदग्रे
मदीप्सिते साधु विधित्सुता ते ।
अहेलिनां किं नलिनी विधत्ते
सुधाकरेणापि सुधाकरेण ॥८०॥
तदेकलुब्धे हृदि मेऽस्ति लब्धुं
चिन्ता न चिन्तामणिमप्यनर्ष्यम् ।
चित्ते ममैकः सकलत्रिलोकी-
सारो निधिः पद्ममुखः स एव ॥८१॥
श्रुतः स दृष्टश्च हरित्सु मोहात्
द्यातः स नीरन्ध्रितबुद्धिधारम् ।
ममाद्य तत्प्राप्तिरसुव्ययो वा
हस्ते तवास्ते द्वयमेकशेषः ॥८२॥
संचीयतामाश्रुतपालनोत्थं
मत्प्राणविश्राणनजं च पुण्यम् ।
निवार्यतामार्य ! वृथा विशङ्का
भद्रेऽपि मुद्रेयमये ! भृशं का ॥८३॥
अलं विलङ्घ्य प्रियविज्ञ ! याच्ञां
कृत्वापि वाग्यं विविधं विधेये ।
यशः पथादाश्रवतापदोत्थात्
खलु स्खलित्वास्तखलोक्तिखेलात् ॥८४॥
स्वजीवमप्यार्तमुदे ददद्भ्यः
तव त्रपा नेदृशबद्धमुष्टेः ।
मह्यं मदीयान्यदसूनदित्सोः
धर्मः कराद्भ्रश्यति कीर्तिधौतः ॥८५॥
दत्त्वात्मजीवं त्वयि जीवदेऽपि
शुध्यामि जीवाधिकदे तु केन ।
विधेहि तन्मां त्वदृणान्यशोद्धुम्
अमुद्रदारिद्र्यसमुद्रमग्नाम् ॥८६॥
क्रीणीष्व मज्जीवितमेव पण्वम्
अन्यन्न चेदस्ति तदस्तु पुण्यम् ।
जीवेशदातर्यदि ते न दातुं
यशोऽपि तावत्प्रभवामि गातुम् ॥८७॥
वराटिकोपक्रिययापि लभ्यान्
नेभ्याः कृतज्ञानथवाद्रियन्ते ।
प्राणैः पणः स्वं निपुणं भणन्तः
क्रीणन्ति तानेव तु हन्त सन्तः ॥८८॥
स भूभृदष्टावपि लोकपालाः
तैर्मे तदेकाग्रधियः प्रसेदे ।
न हीतरस्माद्धटते यदेत्य
स्वयं तदाप्तिप्रतिभूर्ममाभूः ॥८९॥
अकाण्डमेवात्मभुवार्जितस्य
भूत्वापि मूलं मयि वीरणस्य ।
भवान्न मे किं नलदत्वमेत्य
कर्ता हृदश्चन्दनलेपकृत्यम् ॥९०॥
अलं विलम्ब्य त्वरितुं हि वेला
कार्ये किल स्थैर्यसहे विचारः ।
गुरूपदेशं प्रतिमेव तीक्ष्णा
प्रतीक्षते जातु न कालमर्तिः ॥९१॥
अभ्यर्थनीयः स गतेन राजा
त्वया न शुद्धान्तगतो मदर्थम् ।
प्रियास्यदाक्षिण्यवलात्कृतो हि
तदोदयेदन्यवधूनिषेधः ॥९२॥
शुद्धान्तसंभोगनितान्ततुष्टे
न नैषधे कार्यमिदं निगाद्यम् ।
अपां हि तृप्ताय न वारिधारा
स्वादुः सुगन्धिः स्वदते तुषारा ॥९३॥
त्वया विधेया न गिरो मदर्थाः
कुधा कदुष्णे हृदि नैषधस्य ।
पित्तेन दूने रसने सितापि
तिक्तायते हंसकुलावतंस ! ॥९४॥
धरातुरासाहि मदर्थयाच्ञा
कार्या न कार्यान्तरचुम्बिचित्ते ।
तदार्थितस्यानवबोधनिद्रा
बिभर्त्यवज्ञाचरणस्य मुद्राम् ॥९५॥
विज्ञेन विज्ञाप्यमिदं नरेन्द्रे
तस्मात्त्वयास्मिन्समयं समीक्ष्य ।
आत्यन्तिकासिद्धिविलम्बिसिध्द्योः
कार्यस्य कार्यस्य शुभा विभाति ॥९६॥
इत्युक्तवत्या यदलोपि लज्जा
सानौचिती चेतसि नश्चकास्तु ।
स्मरस्तु साक्षी तददोषतायाम्
उन्माद्य यस्तत्तदवीवदत्ताम् ॥९७॥
उन्मत्तमासाद्य हरः स्मरश्च
द्वावप्यसीमां मुदमुद्वहेते ।
पूर्वः परस्पर्धितया प्रसूनं नूनं
द्वितीयो विरहाधिदूनम् ॥९८॥
तथाभिधात्रीमथ राजपुत्रीं
निर्णीय तां नैषधबद्धरागाम् ।
अमोचि चञ्चूपुटमौनमुद्रा
विहायसा तेन विहस्य भूयः ॥९९॥
इदं यदि क्ष्मापतिपुत्रि ! तत्त्वं
पश्यामि तन्न स्वविधेयमस्मिन् ।
त्वामुच्चकैस्तापयता नृपं च
पञ्चेषुणैवाजनि योजनेयम् ॥१००॥
त्वद्वद्धबुद्धेर्बहिरिन्द्रियाणां
तस्योपवासव्रतिनां तपोभिः ।
त्वमद्य लब्ध्वामृततृप्तिभाजां
स्वदेवभूयं चरितार्थमस्तु ॥१०१॥
तुल्यावयोर्मूर्तिरभून्मदीया
दग्धा परं सास्य न ताप्यतेऽपि ।
इत्यभ्यसूयन्निव देहतापं
तस्यातनुस्त्वद्विरहाद्विधत्ते ॥१०२॥
लिपिं दृशा भित्तिविभूषणं त्वां
नृपः पिबन्नादरनिर्निमेषः ।
चक्षुर्झरैरर्पितमात्मचक्षू-
रागं स धत्ते रचितं त्वया नु ॥१०३॥
पातुर्दृशालेख्यनयीं नृपस्य
त्वामादरादस्तनिमीलयास्ते ।
ममेदमित्यश्रुणि नेत्रवृत्तेः
प्रीतेर्निमेषच्छिदया विवादः ॥१०४॥
त्वं हृद्गता भैमि ! बहिर्गतापि
प्राणायिता नासिकयास्यगत्या ।
न चित्रमाक्रामति तत्र चित्रम्
एतन्मनो यद्भवदेकवृत्ति ॥१०५॥
अजस्रमारोहसि दूरदीर्घो
संकल्पसोपानततिं तदीयाम् ।
श्वासान्स वर्षत्यधिकं पुनर्य-
द्यानात्तव त्वन्मयतां तदाप्य ॥१०६॥
हृत्तस्य यन्मन्त्रयते रहस्त्वां
तद्व्यक्तमामन्त्रयते मुखं यत् ।
तद्वैरिपुष्पायुधमित्रचन्द्र-
सख्यौचिती सा खलु तन्मुखस्य ॥१०७॥
स्थितस्य रात्रावधिशय्य शय्यां
मोहे मनस्तस्य निमज्जयन्ती ।
आलिङ्ग्य या चुम्बति लोचने सा
निद्राधुना न त्वदृतेऽङ्गना वा ॥१०८॥
स्मरेण निस्तक्ष्य वृथैव बाणैः
लावण्यशेषां कृशतामनायि ।
अनङ्गतामप्ययमाप्यमानः
स्पर्धां न सार्धे विजहाति तेन ॥१०९॥
त्वत्प्रापकात्त्रस्यति नैनसोऽपि
त्वय्येष दास्येऽपि न लज्जते यत् ।
स्मरेण बाणैरतितक्ष्य तीक्ष्णैः
लूनः स्वभावोऽपि कियान्किमस्य ॥११०॥
स्मारं ज्वरं घोरमपत्रपिष्णोः
सिद्धागदङ्कारचये चिकित्सौ ।
निदानमौनादविशद्विशाला
साङ्क्रामिकी तस्य रुजेव लज्जा ॥१११॥
बिभेति रुष्टासि किलेत्यकस्मात्
स त्वां किलापेति हसत्यकाण्डे ।
यान्तीमिव त्वामनु यात्यहेतोः
उक्तस्त्वयेव प्रतिवक्ति मोघम् ॥११२॥
भवद्वियोगाच्छिदुरार्तिधारा-
यमस्वसुर्मज्जति निःशरण्यः ।
मूर्च्छामयद्वीपमहान्ध्यपङ्के
हा हा महीभृद्भटकुञ्जरोऽयम् ॥११३॥
सव्यापसव्यत्यजनाद्द्विरुक्तैः
पञ्चेषुबाणैः पृथगर्जितासु ।
दशासु शेषा खलु तद्दशा या
तया नभः पुष्प्यतु कोरकेण ॥११४॥
त्वयि स्मराधेः सततास्मितेन
प्रस्थापितो भूमिभृतास्मि तेन ।
आगत्य भूतः सफलो भवत्या
भावप्रतीत्या गुणलोभवत्याः ॥११५॥
धन्यासि वैदर्भि ! गुणैरुदारैः
यया समाकृष्यत नैषधोऽपि ।
इतः स्तुतिः कः खलु चन्द्रिकाया
यदब्धिमप्युत्तरलीकरोति ॥११६॥
नलेन भायाः शशिना निशेव
त्वया स भायान्निशया शशीव ।
पुनः पुनस्तद्युगयुग्विधाता
योग्यामुपास्ते नु युवां युयुक्षुः ॥११७॥
स्तनद्वये तन्वि ! परं तवैव
पृथो यदि प्राप्स्यति नैषधस्य ।
अनल्पवैदग्ध्यविवर्धिनीनां
पत्रावलीनां वलना समाप्तिम् ॥११८॥
एकः सुधांशुर्न कथंचन स्यात्
तृप्तिक्षमस्त्वन्नयनद्वयस्य ।
त्वल्लोचनासेचनकस्तदस्तु
नलास्यशीतद्युतिसद्वितीयः ॥११९॥
अहो तपः कल्पतरुर्नलीयः
त्वत्पाणिजाग्रस्फुरदङ्कुरश्रीः ।
त्वद्भ्रूयुगं यस्य खलु द्विपत्री
तवाधरो रज्यति यत्कलम्बः ॥१२०॥
यस्ते नवः पल्लवितः कराभ्यां
स्मितेन यः कोरकितस्तवास्ते ।
अङ्गम्रदिम्ना तव पुष्पितो यः
स्तनश्रिया यः फलितस्तवैव ॥१२१॥
कांसीकृतासीत्खलु मण्डलीन्दोः
संसक्तरश्मिप्रकरा स्मरेण ।
तुला च नाराचलता निजैव
मिथोनुरागस्य समीकृतौ वाम् ॥१२२॥
सत्त्वस्रुतस्वेदमधूत्थसान्द्रे
तत्पाणिपद्मे मदनोत्सवेषु ।
लग्नोत्थितास्त्वत्कुचपत्रलेखाः
तन्निर्गतास्तं प्रविशन्तु भूयः ॥१२३॥
बन्धाढ्यनानारतमल्लयुद्ध
प्रमोदितैः केलिवने मरुद्भिः ।
प्रसूनवृष्टिं पुनरुक्तमुक्तां
प्रतीच्छतं भैमि ! युवां युवानौ ॥१२४॥
अन्योन्यसंगमवशादधुना विभातां
तस्यापि तेऽपि मनसी विकसद्विलासे ।
स्रष्टुं पुनर्मनसिजस्य तनुं प्रवृत्त-
मादाविवि ह्यणुककृत्परमाणुयुगमम् ॥१२५॥
कामः कौसुमचापदुर्जयममुं जेतुं नृपं त्वां धनु-
र्वल्लीमव्रणवंशजामधिगुणामासाद्य माद्यत्यसौ ।
ग्रीवालंकृतिपट्टसूत्रलतया पृष्ठे कियल्लम्बया
भ्राजिष्णुं कषरेखयेव निवसत्सिन्दूरसौन्दर्यया ॥१२६॥
त्वह्गुच्छावलिमौक्तिकानि गुलिकास्तं राजहंसं विभो-
र्वेध्यं विद्धि मनोभुवः स्वमपि तां मञ्जुं धनुर्मञ्जरीम् ।
यन्नित्याङ्कनिवासलालिततमज्याभुज्यमानं लस-
न्नाभीमध्यबिला विलासमखिलं रोमालिरालम्बते ॥१२७॥
पुष्पेषुश्चिकुरेषु ते शरचयं त्वद्भालमूले धनू
रौद्रे चक्षुषि तज्जितस्तनुमनुभ्राष्ट्रं च यश्चिक्षिपे ।
निर्विद्याश्रयदाश्रयं स वितनुस्त्वां तज्जयायाधुना
पत्रालिस्त्वदुरोजशैलनिलया तत्पर्णशालायते ॥१२८॥
इत्यालपत्यथ पतत्रिणि तत्र भैमीं
सख्यश्चिरात्तदनुसंधिपराः परीयुः ।
शर्मास्तु ते विसृज मामिति सोऽप्युदीर्य
वेगाज्जगाम निषधाधिपराजधानीम् ॥१२९॥
चेतोजन्मशरप्रसूनमधुभिर्व्यामिश्रतामाश्रयत्-
त्प्रेयोदूतपतङ्गपुङ्गवगवीहैयङ्गवीनं रसात् ।
स्वादं स्वादमसीममिष्टसुरभि प्राप्तापि तृप्तिं न सा
तापं प्राय नितान्तमन्तरतुलामानर्च्छ मूर्च्छामपि ॥१३०॥
तस्या दृशो नृपतिबन्धुमनुव्रजन्त्यास्तं
वाप्यवारि न चिरादवधीवभूव ।
पार्श्वेऽपि विप्रचकृषे यदनेनदृष्टेः
आरादपि व्यवदधे न तु चित्तवृत्तेः ॥१३१॥
अस्तित्वं कार्यसिद्धेः स्फुटमथ कथयन्पक्षतेः कम्पभेदैः
आख्यातुं वृत्तमेतन्निषधनरपतौ सर्वमेकः प्रतस्थे ।
कान्तारे निर्गतासि प्रियसखि ! पदवी विस्मृता किं नु मुग्धे ।
मा रोदीरेहि यामेत्युपहृतवचसो निन्युरन्यां वयस्याः ॥१३२॥
सरसि नृपमपश्यद्यत्र तत्तीरभाजः
स्मरतरलमशोकानोकहस्योपमूलम् ।
किसलयदलतल्पम्लायिनं प्राप तं स
ज्वलदसमशरेषुस्पर्धिपुष्पार्द्धिमौलेः ॥१३३॥
परवति दमयन्ति ! त्वां न किंचिद्वदामि
द्रुतमुपनम किं मामाह सा शंस हंस ! ।
इति वदति नलेऽसौ तच्छशंसोपनम्रः
प्रियमनु सुकृतां हि स्वस्पृहाया विलम्बः ॥१३४॥
कथितमपि नरेन्द्रः शंसयामास हंसं
किमिति किमिति पृच्छन्भाषितं स प्रियायाः ।
अधिगतमथ सान्द्रानन्दमाध्वीकमत्तः
स्वयमपि शतकृत्वस्तत्तथान्वाचचक्षे ॥१३५॥
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
तार्तीयीकतया मितोऽयमगमत्तस्य प्रबन्धे महा-
काव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः ॥१३६॥

N/A

References : N/A
Last Updated : January 19, 2013

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP