नैषधीयचरितम् - त्रयोदश सर्गः

महाकवि श्रीहर्षरचितं नैषधीयचरितम् हा ग्रंथ म्हणजे संस्कृत भाषेतील अतिउत्तम रचना होय.


कल्पद्रुमान्परिमला इव भृङ्गमालामात्माश्रयामखिलनिन्दनशाखिवृन्दात् ।
तां राजकादपगमय्य विमानधुर्या निन्युर्नलाकृतिधरानथ पञ्चवीरान् ॥१॥
साक्षात्कृताखिलजगज्जनताचरित्रा तत्राधिनाथमधिकृत्य दिवस्तथा सा ।
ऊचे यथा स च शचीपतिरभ्यधायि प्राकाशि तस्य न च नैषधकायमाया ॥२॥
ब्रूमः किमस्य वरवर्णिनि वीरसेनोद्भूतिं द्विषद्बलविजित्वरपौरुषस्य ।
सेनाचरीभवदिभाननदानवारिवासेन यस्य जनितासुरभीरणश्रीः ॥३॥
शुभ्रांशुहारगणहारिपयोधराङ्कचुम्बीन्द्रचापखचितद्युमणिप्रभाभिः ।
अन्वास्यते समिति चामरवाहिनीभिर्यात्रासु चैष बहुलाभरणार्चिताभिः ॥४॥
क्षोणीभृतामतुलकर्कशविग्रहाणामुद्दामदर्पहरिकुञ्जरकोटिभाजाम् ।
पक्षच्छिदामयमुदग्रबलो विधाय मग्नं विपज्जलनिधौ जगदुज्जहार ॥५॥
भूमीभृतः समिति जिष्णुमपव्यपायं जानीहि न त्वमघवन्तममुं कथंचित् ।
गुप्तं घटप्रतिभटस्तनि बाहुनेत्रं नालोकसेऽतिशयमद्भुतमेतदीयम् ॥६॥
लेखा नितम्बिनि बलादिसमृद्धराज्यप्राज्योपभोगपिशुना दधते सरागम् ।
एतस्य पाणिचरणं तदनेन पत्या सार्धं शचीव हरिणा मुदमुद्वहस्व ॥७॥
आकर्ण्य तुल्यमखिलां सुदती लगन्तीमाखण्डलेऽपि च नलेऽपि च वाचमेताम् ।
रूपं समानमुभयत्र विगाहमाना श्रोत्रान्न निर्णयमवापदसौ न नेत्रात् ॥८॥
शक्रः किमेष निषाधाधिपतिः स वेति दोलायमानमनसं परिभाव्य भैमीम् ।
निर्दिश्य तत्र पवनस्य सखायमस्यां भूयोऽसृजद्भगवती वचसः स्रजं सा ॥९॥
एष प्रतापनिधिरुद्गतिमान्सदाऽयं किं नाम् नार्जितमनेन धनंजयेन ।
हेम प्रभूतमधिगच्छ शुचेरमुष्मानास्येव कस्यचन भास्वररूपसंपत् ॥१०॥
अस्यर्थहेतिपटुताकवलीभवत्तत्तत्पार्थिवाधिकरणप्रभवाऽस्य भूतिः ।
अप्यङ्गरागजननाय महेश्वरस्य संजायते रुचिरकर्णि तपस्विनोऽपि ॥११॥
एतन्मुखा विबुधसंसदसावशेषा माध्यस्थ्यमस्य यमतोऽपि महेन्द्रतोऽपि ।
एनं महस्विनमुपेहि सदारुणोच्चैर्येनामुना पितृमुखि ध्रियते करश्रीः ॥१२॥
नैवाल्पमेधसि पटो रुचिमत्त्वमस्य मध्येसमिन्निवसतो रिपवस्तृणानि ।
उत्थानवानिह पराभवितुं तरस्वी शक्यः पुनर्भवति केन विरोधिनायम् ॥१३॥
साधारणीं गिरमुषर्बुधनैषधाभ्यामेतां निपीय न विशेषमवाप्तवत्या ।
ऊचे नलोऽयमिति तं प्रति चित्तमेकं ब्रूते स्म चान्यदनलोऽयमितीदमीयम् ॥१४॥
एतादृशीमथ विलोक्य सरस्वती तां संदेहचित्रभयचित्रितचित्तवृत्तिम् ।
देवस्य सूनुमरविन्दविकासिरश्मेरुद्दिश्य दिक्पतिमुदीरयितुं प्रचक्रे ॥१५॥
दण्डं बिभर्त्ययमहो जगतस्ततः स्यात्कम्पाकुलस्य सकलस्य न पङ्कपातः ।
स्वर्वैद्ययोरपि मदव्ययदायिनीभिरेतस्य रुग्भिरमरः किमु कश्चिदस्ति ॥१६॥
मित्त्रप्रियोपजननं प्रति हेतुरस्य संज्ञा श्रुतासुहृदयं न जनस्य कस्य ।
छायेदृगस्य च न कुत्रचिदध्यगायि तप्तं यमेन नियमेन तपोऽमुनैव ॥१७॥
किंच प्रभावनमिताखिलराजतेजा देवः पिताम्बरमणी रमणीयमूर्तिः ।
उत्क्रान्तिदा कमनु न प्रतिभाति शक्तिः कृष्णत्वमस्य च परेषु गदान्नियोक्तुः ॥१८॥
एकः प्रभावमयमेति परेतराजौ तज्जीवितेशधियमत्र निधत्स्व मुग्धे ।
भूतेषु यस्य खलु भूरियमस्य वश्यभावं समाश्रयति दस्रसहोदरस्य ॥१९॥
गुम्फो गिरां शमननैषाधयोः समानः शङ्कामनेकनलदर्शनजातशङ्के ।
चित्ते विदर्भवसुधाधिपतेः सुताया यन्निर्ममे खलु तदेष पिपेष पिष्टम् ॥२०॥
तत्रापि तत्रभवती भृशसंशयालोरालोक्य सा विधिनिषेधनिवृत्तिमस्याः ।
याथःपतिं प्रति धृताभिमुखाङ्गुलीकपाणिः क्रमोचितमुपाक्रमताभिधातुम् ॥२१॥
या सर्वतोमुखतया व्यवतिष्ठमाना यादोरणैर्जयति नैकविदारका या ।
एतस्य भूरितरवारिनिधिश्चमूः सा यस्याः प्रतीतिविषयः परतो न रोधः ॥२२॥
नासीरसीमनि घनध्वनिरस्य भूयान्कुम्भीरवान्समकरः सहदानवारिः ।
उत्पद्मकाननसखः सुखमातनोति रत्नैरलंकरणभावमितैर्नदीनः ॥२३॥
सस्यन्दनैः प्रवहणैः प्रतिकूलपातं का वाहिनी न तनुते पुनरस्य नाम ।
तस्या विलासवति कर्कशताश्रिता या भूमः कथम् बहुतयासिकता वयं ताः ॥२४॥
शोणं पदप्रणयिनं गुणमस्य पश्य किंचास्य सेवनपरैव सरखती सा ।
एनं भजस्व सुभगे भुवनाधिनाथं किं वा भजन्ति तमिमं कमलाशया न ॥२५॥
शङ्कालताततिमनेकनलावलम्बां वाणी नवर्धयतु तावदभेदिकेयम् ।
भीमोद्भवां प्रति नले च जलेश्वरे च तुल्यं तथापि यदवर्धयदत्र चित्रम् ॥२६॥
बालां विलोक्य विबुधैरपि मायिभिस्तैरच्छद्मितामियमलीकनलीकृतस्वैः ।
आह स्म तां भगवती निषधाधिनाथं निर्दिश्य राजपरिषत्परिवेषभाजम् ॥२७॥
अत्याजिलब्धविजयप्रसरस्त्वया किं विज्ञायते रुचिपदं न महीमहेन्द्रः ।
प्रत्यर्थिदानवशताहितचेष्टयासौ जीमूतवाहनधियं न करोति कस्य ॥२८॥
येनामुना बहुविगाढसुरेश्वराध्वराज्याभिषेकविकसन्महसा बभूवे ।
आवर्जनं तमनु ते ननु साधु नामग्राहं मया नलमुदीरितमेवमत्र ॥२९॥
यच्चण्डिमारणविधिव्यसनं च तत्त्वं बुद्ध्वाशयाश्रितममुष्य च दक्षिणत्वम् ।
सैषा नले सहजरागभरादमुष्मिन्नात्मानमर्पयितुमर्हसि धर्मराजे ॥३०॥
किं ते तथा मतिरमुष्य यथाशयः स्यात्त्वत्पाणिपीडनविनिर्मितयेऽनपाशः ।
कान्मानवानवति नो भुवनं चरिष्णून्नासावमुत्र नरता भवतीति युक्तम् ॥३१॥
श्लोकादिह प्रथमतो हरिणा द्वितीयाद्धूमध्वजेन शमनेन समं तृतीयात् ।
तुर्याच्च तस्य वरुणेन समानभावं सा जानती पुनरवादि तया विमुग्धा ॥३२॥
त्वं याऽर्थिनी किल नले न शुभाय तस्याः क्व स्यान्निजार्पणममुष्य चतुष्टये ते ।
इन्द्रानलार्यमतनूजपयःपतीनां प्राप्यैकरूप्यमिह संसदि दीप्यमाने ॥३३॥
देवः पतिर्विदुषि नैष धराजगत्या निर्णीयते न किमु न व्रियते भवत्या ।
नायं नलः खलु तवातिमहानलाभो यद्येनमुज्झसि वरः कतरः परस्ते ॥३४॥
इन्द्राग्निदक्षिणदिगीश्वरपाशिभिस्तां वाचं नले तरलिताथ समां प्रमाय ।
सा सिन्धुवेणिरिव वाडववीतिहोत्रं लावण्यभूः कमपि भीमसुताप तापम् ॥३५॥
साप्तुं प्रयच्छति न पक्षचतुष्टये तां तल्लाभशंसिनि न पञ्चमकोटिमात्रे ।
श्रद्धां दधे निषधराड्विमतौ मतानामद्वैततत्त्व इव सत्यतरेऽपि लोकः ॥३६॥
कारिष्यते परिभवः कलिना नलस्य तां द्वापरस्तु सुतनूमदुनोत्पुरस्तात् ।
भैमीनलोपयमनं पिशुनौ सहेते न द्वापरः किल कलिश्च युगे जगत्याम् ॥३७॥
उत्कण्ठयन्पृथगिमां युगपन्नलेषु प्रत्येकमेषु परिमोहयमाणबाणः ।
जानीवहे निजशिलीमुखशीलिसंख्यासाफल्यमाप स तदा यदि पञ्चबाणः ॥३८॥
देवानियं निषाधराजरुचस्त्यजन्ती रूपादरज्यत नले न विदर्भसुभ्रूः ।
जन्मान्तराधिगतकर्मविपाकजन्मैवोन्मीलति क्वचन कस्यचनानुरागः ॥३९॥
क्व प्राप्यते स पतगः परिपृच्छ्यते यः प्रत्येमि तस्य हि पुरेव नलं गिरेति ।
सस्मार सस्मरमतिः प्रति नैषधीयं तत्रामरालयमरालमरालकेशी ॥४०॥
एकैकमैक्षत मुहुर्महतादरेण भेदं विवेद न च पञ्चसु कंचिदेषा ।
शङ्काशतं वितरता हरता पुनस्तदुन्मादिनेव मनसेयमिदं तदाह ॥४१॥
अस्ति द्विचन्द्रमतिरस्ति जनस्य तत्र भ्रान्तौ दृगन्तचिपिटीकरणादिरादिः ।
स्वच्छोपसर्पणमपि प्रतिमाभिमाने भेदभ्रमे पुनरमीषु न मे निमित्तम् ॥४२॥
किं वा तनोति मयि नैषध एव कावव्यूहं विधाय परिहासमसौ विलासी ।
विज्ञानवैभवभृतः किमु तस्य विद्या सा विद्यते न तुरगाशयवेदितेव ॥४३॥
एको नलः किमयमन्यतमः किमैलः कामोऽपरः किमु किमु द्वयमाश्विनेयौ ।
किं रूपधेयभरसीमतया समेषु तेष्वेव नेह नलमोहमहं वहे वा ॥४४॥
पूर्वं मया विरहनिःसहयापि दृष्टः सोऽयं प्रियस्तत इतो निषधाधिराजः ।
भूयः किमागतवती मम सा दशेयं पश्यामि यद्विलसितेन नलानलीकान् ॥४५॥
मुग्धा दधामि कथमित्थमथापशङ्कां संक्रन्दनादिकपटः स्फुटमीदृशोऽयम् ।
देव्यानयैव रचिता हि तथा तथैषां गाथा यथा दिगधिपानपि ताः स्पृशन्ति ॥४६॥
एतन्मदीयमतिवञ्चकपञ्चकस्थे नाथे कथं नु मनुजस्य चकास्तु चिह्नम् ।
लक्ष्माणि तानि किममी न वहन्ति हन्त बर्हिर्मुखा धुतरजस्तनुतामुखानि ॥४७॥
याचे नलं किममरानथवा तदर्थं नित्यार्चनादपि ममाफलिनैरलं तैः ।
कंदर्पशोषणशिलीमुखपातपीतकारुण्यनीरनिधिगह्वरधोरचित्तैः ॥४८॥
ईशा दिशां नलभुवं प्रतिपद्य लेखा वर्णिश्रियं गुणवतामपि वः कथं वा ।
मूर्खान्धकूपपतनादिव पुस्तकानामस्तं गतं बत परोपकृतिव्रतत्वम् ॥४९॥
यस्येश्वरेण यदलेखि ललाटपट्टे तत्स्यादयोग्यमपि योग्यमपास्य तस्य ।
का वासनास्तु बिभृयामिह यां हृदाहं नार्कातपैर्जलजमेति हिमैस्तु दाहम् ॥५०॥
इत्थं यथेह मदभाग्यमनेन मन्ये कल्पद्रुमोऽपि स मया खलु याच्यमानः ।
संकोचसंज्वरदलाङ्गुलिपल्लवाग्रपाणीभवन्भवति मां प्रति बद्धमुष्टिः ॥५१॥
देव्याः करे वरणमाल्यमथार्पये वा यो वैरसेनिरिह तत्र निवेशयेति ।
सैषा मया मखभुजां द्विषती कृता स्यात्स्वस्मै तृणाय तु विहन्मि न बन्धुरत्नम् ॥५२॥
यः स्यादमीषु परमाऋथनलः स मालामङ्गीकरोतु वरणाय ममेति चैनाम् ।
तं प्रापयामि यदि तत्तु विसृज्य लज्जां कुर्वे कथं जगति शृङ्वति ही विडम्बः ॥५३॥
इतरनलतुलाभागेष शेषाः सुधाभिः स्नपयति मम चेतो नैषधः कस्य हेतोः ।
प्रथमचरमयोर्वा शब्दयोर्वर्णसख्ये विलसति चरमेऽनुप्रासभासां विलासः ॥५४॥
इति मनसि विकल्पानुद्यतः संत्यजन्ती क्वचिदपि दमयन्ती निर्णयं नाससाद ।
मुखमथ परितापास्कन्दितानन्दमस्या मिहिरविरचितावस्कन्दमिन्दुं निनिन्द ॥५५॥
श्रीहर्शं कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
स्वादूत्पादभृति त्रयोदशतयादेश्यस्तदीये महाकाव्येऽयं व्यरमन्नलस्य चरिते सर्गो रसाम्भोनिधिः ॥५६॥

N/A

References : N/A
Last Updated : January 19, 2013

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP