TransLiteral Foundation

नैषधीयचरितम् - द्वितीयः सर्गः

महाकवि श्रीहर्षरचितं नैषधीयचरितम् हा ग्रंथ म्हणजे संस्कृत भाषेतील अतिउत्तम रचना होय.


द्वितीयः सर्गः
अधिगत्य जगत्यधीश्वरात्
अथ मुक्तिं पुरुषोत्तमात्ततः ।
वचसामपि गोचरो न
यः स तामानन्दमविन्दत द्विजः ॥१॥
अधुनीत खगः स नैकधा
तनुमुत्फुल्लतनूरुहीकृताम् ।
करयन्त्रणदन्तुरान्तरे
व्यलिखच्चञ्चुपुटेन पक्षती ॥२॥
अयमेकतमेन पक्षतेरधिम्
अध्योर्ध्वगजङ्घमङ्घ्रिणा ।
स्खलनक्षण एव शिश्रिये
द्रुतकण्डूयितमौलिरालयम् ॥३॥
स गरुद्वनदुर्गदुर्ग्रहान्
कटु कीटान्दशतः सतः क्वचित् ।
नुनुदे तनुकण्डु पण्डितः
पटुचञ्चूपुटकोटिकुट्टनैः ॥४॥
अयमेत्य तडागनीडजै-
र्लघु पर्यव्रियताथ शङ्कितैः ।
उदडीयत वैकृतात्कर-
ग्रहजादस्य विकस्वरस्वरैः ॥५॥
वहतो बहुशैवलक्ष्मतां
धृतरुद्राक्षमधुव्रतं खगः ।
स नीलस्य ययौ करं
पुनः सरसः कोकनदभ्रमादिव ॥६॥
पतगश्चिरकाललालनात्
अतिविश्रम्भमवापितो नु सः ॥७॥
नृपमानसमिष्टमानसः
स निमज्जत्कुतुकामृतोर्मिषु ।
अवलम्बितकर्णशष्कुली-
कलसीकं रचयन्नवोचत ॥८॥
मृगया न विगीयते
नृपैरपि धर्मागममर्मपारगैः ।
स्मरसुन्दर ! मां यदत्
यजस्तव धर्मः स दयोदयोज्ज्वलः ॥९॥
अबलस्वकुलाशिनोझषान्
निजनीडद्रुमपीडिनः खगान् ।
अनवद्यतृणार्दिनो मृगान्
मृगयाधाय न भूभुजां घ्नताम् ॥१०॥
यदवादिषमप्रियं तव
प्रियमाधाय नुनुत्सुरस्मि तत् ।
कृतमातपसंज्वरं तरोः
अभिवृष्यामृतमंशुमानिव ॥११॥
उपनम्रमयाचितं हितं
परिहर्तु न तवापि सांप्रतम् ।
करकल्पजनान्तराद्विधेः
शुचितः प्रापि स हि प्रतिग्रहः ॥१२॥
पतगेन मया जगत्पतेः
उपकृत्यैव तव किं प्रभूयते ।
इति वेद्मि न तु त्यजन्ति
मां तदपि प्रत्युपकर्तुमर्तयः ॥१३॥
अचिरादुपकर्तुराचरेत्-
अथ वात्मौपयिकीमुपक्रियाम् ।
पृथुरित्थमथाणुरस्तु सा
न विशेषे विदुषामिह ग्रहः ॥१४॥
भविता न विचारचारु
चेत्तदपि श्रव्यमिदं मदीरितम् ।
खगवागियमित्यतोऽपि
किं न मुदं धास्यति कीरगीरिव ॥१५॥
स जयत्यरिसार्थसार्थ-
कीकृतनामा किल भीमभूपतिः ।
यमवाप्य विदर्भभूः प्रभुं
हसति द्यामपि शक्रभर्तृकाम् ॥१६॥
दमनादमनाक्प्रसेदुषस्-
तनयां तथ्यगिरस्तपोधनात् ।
वरमाप स दिष्टविष्टपत्रि-
तयानन्यसदृग्गुणोदयाम् ॥१७॥
भुवनत्रयसुभ्रुवामसौ
दमयन्ती कमनीयतामदम् ।
उदियाय यतस्तनुश्रिया
दमयन्तीति ततोऽभिधां दधौ ॥१८॥
श्रियमेव परं धराधिपाह्-
गुणसिन्धोरुदितामवेहि ताम् ।
व्यवधावपि वा विधोः कलां
मृडचूडानिलयां न वेद कः ॥१९॥
चिकुरप्रकरा जयन्ति ते
विदुषी मूर्धनि साबिभर्ति यान् ।
पशुनाप्यपुरस्कृतेन तत्-
तुलनामिच्छतु चामरेण कः ॥२०॥
स्वदृशोर्जनयन्ति सान्त्वनां
खुरकण्डूयनकैतवान्मृगाः ।
जितयोरुदयत्प्रमीलयोः
तदखर्वेक्षणशोभया भयात् ॥२१॥
अपि लोकयुगं दृशावपि
श्रुतदृष्टा रमणीगुणा अपि ।
श्रुतिगामितया दमस्वसुः
व्यतिभाते सुतरां धरापते ! ॥२२॥
नलिनं मलिनं विवृण्वती
पृषतीमस्पृशती तदीक्षणे ।
अपि खञ्जनमञ्जनाञ्चिते
विदधाते रुचिगर्वदुर्विधम् ॥२३॥
अधरं किल बिम्बनामकं
फलमस्मादिति भव्यमन्वयम् ।
लभतेऽधरबिम्बमित्यदः
पदमस्या रदनच्छदं वदत् ॥२४॥
हृतसारमिवेन्दुमण्डलं
दमयन्तीवदनाय वेधसा ।
कृतमध्यबिलं विलोक्यते
धृतगम्भीरखनीखनीलिम ॥२५॥
धृतलाञ्छनगोमयाञ्चनं
विधुमालेनपाण्डुरं विधिः ।
भ्रमयत्युचिटं विदर्भ-
जानननीराजनवर्धमानकम् ॥२६॥
सुषमाविषये परीक्षणे
निखिलं पद्ममभाजि तन्मुखात् ।
अधुनापि न मङ्गलक्षणं
सलिलोन्मज्जनमुज्झति स्फुटम् ॥२७॥
धनुषी रतिपञ्चबाणयोः
उदिते विश्वजयाय तद्भ्रुवौ ।
नलिके न तदुच्चनासिके
त्वयि नालीकविमुक्तिकामयोः ॥२८॥
सदृशी तव शूर ! सा परं
जलदुर्गस्थमृणालजिद्भुजा ।
अपि मित्रजुषां सरोरुहां
गृहयालुः करलीलया श्रियः ॥२९॥
वयसी शिशुतातदुत्तरे
सुदृशि स्वाभिविधिं विधित्सुनी ।
विधिनापि न रोमरेखया
कृतसीम्नी प्रविभज्य रज्यतः ॥३०॥
अपि तद्वपुषि प्रसप्रतोः
गमिते कान्तिझरैरगाधताम् ।
स्मरयौवनयोः खलु द्वयोः
प्लवकुम्भौ भवतः कुचावुमौ ॥३१॥
कलसे निजहेतुदण्डजः
किमु चक्रभ्रमकारितागुणः ।
स तदुच्चकुचौ भवन्प्रभा-
झरचक्रभ्रममातनोति यत् ॥३२॥
भजते खलु षण्मुखं शिखी
चिकुरैर्निर्मितबर्हगर्हणः ।
अपि जम्भरिपुं दमस्व-
सुर्जितकुम्भः कुचशोभयेभराट् ॥३३॥
उदरं नतमध्यपृष्ठता-
स्फुटदङ्गुष्ठपदेन मुष्टिना ।
चतुरङ्गुलमध्यनिर्गत-
त्रिबलिभ्राजि कृतं दमस्वसुः ॥३४॥
उदरं परिमाति मुष्टिना
कुतुकी कोऽपि दमस्वसुः किमु ।
धृततच्चतुरङ्गुलीव यद्व-
लिभिर्माति सहेमकाञ्चिभिः ॥३५॥
पृथुवर्तुलतन्नितम्बकृन्-
मिहिरस्यन्दनशिल्पशिक्षया ।
विधिरेककचक्रचारिणं
किमु निर्मित्सति मान्मथं रथम् ॥३६॥
तरुमूरुयुगेन सुन्दरी
किमु रम्भां परिणाहिना परम् ।
तरुणीमपि जिष्णुरेव
तां धनदापत्यतपः फलस्तनीम् ॥३७॥
जलजे रविसेवयेव ये
पदमेतत्पदतामवापतुः ।
ध्रुवमेत्य रुतः सहंसकी-
कुरुतस्ते विधिपत्रदंपती ॥३८॥
श्रितपुण्यसरः सरित्कथं
न समाधि क्षपिताखिलक्षपम् ।
जलजं गतिमेतु मञ्जुलां
दमयन्तीपदनाम्नि जन्मनि ॥३९॥
सरसीः परिशीलितुं मया
गमिकर्मीकृतनैकनीवृता ।
अतिथित्वमनायि सा दृशोः
सदसत्संशयगोचरोदरी ॥४०॥
अवधृत्य दिवोऽपि यौवतै-
र्नसहाधीतवतीमिमामहम् ।
कतमस्तु विधातुराशये
पतिरस्या वसतीत्यचिन्तयम् ॥४१॥
अनुरूपमिमं निरूपयन्-
नथ सर्वेष्वपि पूर्वपक्षताम् ।
युवसु व्यपनेतुमक्षमः
त्वयि सिद्धान्तधियं न्यवेशयम् ॥४२॥
अनया तव रूपसीमया
कृतसंस्कारविबोधनस्य मे ।
चिरमप्यवलोकिताद्य सा
स्मृतिमारूढवती शुचिस्मिता ॥४३॥
त्वयि वीर ! विराजते परं
दमयन्तीकिलकिञ्चितं किल ।
तरुणीस्तन एव दीप्यते
मणिहारावलिरामणीयकम् ॥४४॥
तव रूपमिदं तया विना
विफलं पुष्पमिवावकेशिनः ।
इयमुद्धधना वृथावनी
स्ववनी संप्रवदत्पिकापि का ॥४५॥
अनया सुरकाम्यमानया
सह योगः सुलभस्तु न त्वया ।
धनसंवृतयाम्बुदागमे
कुमुदेनेव निशाकरत्विषा ॥४६॥
तदहं विदधे तथा तथा
दमयन्त्याः सविधे तव स्तवम् ।
हृदये निहितस्तया भवान्-
अपि नेन्द्रेण यथापनीयते ॥४७॥
तव संमतिमेव केवलामधि-
गन्तुं धिगिदं निवेदितम् ।
ब्रुवते हि फलेन साधवो
न तु कण्ठेन निजोपयोगिताम् ॥४८॥
तदिदं विशदं वचोमृतं
परिपीयाभ्युदितं द्विजाधिपात् ।
अतितृप्ततया विनिर्ममे
स तदुद्गारमिव स्मितं सितम् ॥४९॥
परिमृज्य भुजाग्रजन्मना
पतगं कोकनदेन नैषधः ।
मृदु तस्य मुदेऽकिरद्गिरः
प्रियवादामृतकूपकण्ठजाः ॥५०॥
न तुलाविषये तवाकृति-
र्न वचोवर्त्मनि ते सुशीलता ।
त्वदुदाहरणाकृतौ गुणा
इति समामुद्रकसारमुद्रणा ॥५१॥
न सुवर्णमयी तनुः परं
ननु किं वागपि तावकी तथा ।
न परं पथि पक्षपातितान्-
अवलम्बे किमु मादृशेऽपि सा ॥५२॥
भृशतापभृता मया
भवान्मरुदासादि तुषारसारवान् ।
धनिनामितरः सतां पुन-
र्गुणवत्संनिधिरेव सन्निधिः ॥५३॥
शतशः श्रुतिमागतैव सा
त्रिजगन्मोहमहौषधिर्मम ।
अमुना तव शंसितेन तु
स्वदृशैवाधिगतामवैमि ताम् ॥५४॥
अखिलं विदुषामनाविलं
सुहृदा च स्वहृदा च पश्यताम् ।
सविधेऽपि नसूक्ष्मसाक्षिणी
वदनालंकृतिमात्रमक्षिणी ॥५५॥
अमितं मधु तत्कथा मम
श्रवणप्राघुणकीकृता जनैः ।
मदनानलबोधने भवेत्-
खग ! धाय्या धिगधैर्यधारिणः ॥५६॥
विषमो मलयाहिमण्डली-
विषफूत्कारमयो मयोहितः ।
खर्ग ! कालकलत्रदिग्-
भवः पवनस्तद्विरहानलैधसा ॥५७॥
प्रतिमासमसौ निशापतिः
खग ! संच्छति यद्दिनाधिपम् ।
किमु तीव्रतरैस्ततः करै-
र्मम दाहाय स धैर्यतस्करैः ॥५८॥
कुसुमानि यदि स्मरेषवो
न तु वज्रं विषवल्लिजानि तत् ।
हृदयं यदमूमुहन्ननूर्मम
यच्चातितरामतीतपन् ॥५९॥
तदिहानवधौ निमज्जतो
मम कंदर्पशराधिनीरघौ ।
भव पोत इवावलम्बनं
विधिनाकस्मिकसृष्टसंनिधिः ॥६०॥
अथवा भवतः प्रवर्तना
न कथं पिष्टमियं पिनष्ट नः ।
स्वत एव सतां परार्थता
ग्रहणानां हि यथा यथार्थता ॥६१॥
तव वर्त्मनि वर्ततां शिवं
पुनरस्तु त्वरितं समागमः ।
अयि ! साधय साधयेप्सितं
स्मरणीयाः समये वयं वयः ॥६२॥
इति तं स विसृज्य धैर्यवान्-
नृपतिः सूनृतवाग्बृहस्पतिः ।
अविशद्वनवेश्म विस्मितः
स्मृतिलग्नैः कलहंसशंसितैः ॥६३॥
अथ भीमसुतावलोकनैः
सफलं कर्तुमहस्तदेव सः ।
क्षितिमण्डलमण्डनायितं
नगरं कुण्डिनमण्डजो ययौ ॥६४॥
प्रथमं पथि लोचनातिथिं
पथिकप्रार्थितसिद्धिशंसिनम् ।
कलसं जलसंभृतं पुरः
कलहंसः कलयांबभूव सः ॥६५॥
अवलम्ब्य दिदृक्षयाम्बरे
क्षणमाश्चर्यरसालसं गतम् ।
स विलासवनेऽवनीभृतः
फलमैक्षिष्ट रसालसंगतम् ॥६६॥
नभसः कलभैरुपासितं
जलदैर्भूरितरक्षुपं नगरम् ।
स ददर्श पतङ्गपुंगवो
विटपच्छन्नतरक्षुपन्नगम् ॥६७॥
स ययौ धुतपक्षतिः क्षणं
क्षणमूर्ध्वायनदुर्विभावनः ।
विततीकृतनिश्चलच्छदः
क्षणमालोककदत्तकौतुकः ॥६८॥
तनुदीधितिधारया
रयाद्गतया लोकविलोकनामसौ ।
छदहेम कषन्निवालसत्-
कषपाषाणनिभे नभस्तले ॥६९॥
विनमद्भिरधः स्थितैः खगै-
र्झटिति श्येननिपातशङ्किभिः ।
स निरैक्षि दृशैकयोपरि
स्यदझांकारितपत्रपद्धतिः ॥७०॥
ददृशे न जनेन यन्नसौ
भुवि तच्छायमवेक्ष्य तत्क्षणात् ।
दिवि दिक्षु वितीर्णचक्षुषा
पृथुवेगद्रुतमुक्तदृक्पथः ॥७१॥
न वनं पथि शिश्रियेऽमुना
क्वचिदप्युच्चतरद्रुचारुतम् ।
न संगोत्रजमन्ववादि
वा गतिवेगप्रसरद्रुचा रुतम् ॥७२॥
अथ भीमभुजेन पालिता
नगरी मञ्जुरसौ धराजिता ।
पतगस्य जगाम दृक्पथं
हरशैलोपमसौधराजिता ॥७३॥
दयितं प्रति यत्र संतता
रतिहासा इव रेजिरे भुवः ।
स्फटिकोपलविग्रहा
गृहाः शशभृद्भित्तनिरङ्कभित्तयः ॥७४॥
नृपनीलमणीगृहत्विषाम्-
उपधेर्यत्र भयेन भास्वतः ।
शरणार्थमुवास वासरेऽ-
प्यसदावृत्त्युदयत्तमं तमः ॥७५॥
सितदीप्रमणिप्रकल्पिते
यदगारे हसदङ्करोदसि ।
निखिलान्निशि पूर्णिमा तिथी-
नूपतस्थेऽतिथिरेकिका तिथिः ॥७६॥
सुदतीजनमज्जनार्पितै-
र्घुसृणैर्यत्र कषायिताशया ।
न निशाखिलयापि वापिका
प्रससाद ग्रहिलेव मानिनी ॥७७॥
क्षणनीरवया यया निशि
श्रितवप्रावलियोगपट्टया ।
मणिवेश्ममयं स्म निर्मलं
किमपि ज्योतिरबाह्यमिज्यते ॥७८॥
विललास जलाशयोदरे
क्वचन द्यौरनुबिम्बितेव या ।
परिखाकपटस्फुटस्फुटत्-
प्रतिबिम्बानवलम्बिताम्बुनि ॥७९॥
व्रजते दिवि यद्गृहावली-
चलचेलाञ्चलदण्डताडनाः ।
व्यतरन्नरुणाय विश्रमं
सृजते हेलिहयालिकालनाम् ॥८०॥
क्षितिगर्भधराम्बरालयैः
तलमध्योपरिपूरिणां पृथक् ।
जगतां किल याखिलाद्भुता-
जनि सारैर्निजचिह्नधारिभिः ॥८१॥
दधदम्बुदनीलकण्ठतां
वहदत्यच्छसुधोज्जलं वपुः ।
कथमृच्छतु यत्र नाम न
क्षितिभृन्मन्दिरमिन्दुमौलिताम् ॥८२॥
बहुरूपकशालभञ्जिका-
मुखचन्द्रेषु कलङ्करङ्कवः ।
यदनेककसौधकंधरा-
हरिभिः कुक्षिगतीकृता इव ॥८३॥
बलिसद्मदिवं स तथ्यवाग्
उपरि स्माह दिवोऽपि नारदः ।
अधराथ कृता ययेव सा
विपरीताजनि भूविभूषया ॥८४॥
प्रतिहट्टपथे घरट्टजात्
पथिकाह्वानदसक्तुसौरभैः ।
कलहान्न घनाद्यदुत्थितात्
अधुनाप्युज्झति घर्घरस्वरः ॥८५॥
वरणः कनकस्य मानिनीं
दिवमङ्कादमराद्रिरागताम् ।
घनरत्नकपाटपक्षतिः
परिरभ्यानुनयन्नुवास याम् ॥८६॥
अनलैः परिवेषमेत्य या
ज्वलदर्कोपलवप्रजन्मभिः ।
उदयं लयमन्तरा रवे-
रवहद्बाणपुरीपरार्ध्यताम् ॥८७॥
बहुकम्बुमणिर्वराटिका-
गणनाटत्करकर्कटोत्करः ।
हिमवालुकयाच्छवालुकः
पटु दध्वान यदापणार्णवः ॥८८॥
यदगारघटाट्टकुट्टिम-
स्रवदिन्दूपलतुन्दिलापया ।
मुमुचे न पतिव्रतौचिती
प्रतिचन्द्रोदयमभ्रगङ्ग्या ॥८९॥
रुचयोऽस्तमितस्य भास्वतः
स्खलिता यत्र निरालयाः किल ।
अनुसायमभुर्विलेपना-
पणकश्मीरजपण्यवीथयः ॥९०॥
विततं वणिजापणेऽखिलं
पणितुं यत्र जनेन वीक्ष्यते ।
मुनिनेव मृकण्डुसूनुना
जगतीवस्तु पुरोदरे हरेः ॥९१॥
सममेणमदैर्यदापणे
तुलयन्सौरभलोभनिश्चलम् ।
पणिता न जनारवैरवैत्
अपि गुञ्जन्तमलिं मलीमसम् ॥९२॥
रविकान्तमयेन सेतुना
सकलाहं ज्वलनाहितोष्मणा ।
शिशिरे निशि गच्छतां पुरा
चरणौ यत्र दुनोति नो हिमम् ॥९३॥
विधुदीधितिजेन यत्पथं
पयसा नैषधशीलशीतलम् ।
शशिकान्तमयं तपागमे
कलितीव्रस्तपति स्म नातपः ॥९४॥
परिखावलयच्छलेन या
न परेषां ग्रहणस्य गोचरः ।
फणिभाषितभाष्यफक्किका-
विषमा कुण्डलनामवापिता ॥९५॥
मुखपाणिपदाक्ष्णि पङ्कजै
रचिताङ्गेष्वपरेषु चम्पकैः ।
स्वयमादित यत्र भामजा
स्मरपूजाकुसुमस्रजः श्रियम् ॥९६॥
जघनस्तनभारगौरवाद्
वियदालम्ब्य विहर्तुमक्षमाः ।
ध्रुवमप्सरसोऽवतीर्य यां
शतमध्यासत तत्सखीजनः ॥९७॥
स्थितिशालिसमस्तवर्णतां
न कथं चित्रमयी बिभर्तु या ।
स्वरभेदमुपैतु या कथं
कलितानल्पमुखारवा न वा ॥९८॥
स्वरुचारुणया पताकया
दिनमर्केण समीयुषोत्तृषः ।
लिलिहुर्बहुधा सुधाकरं
निशि माणिक्यमया यदालयाः ॥९९॥
लिलिहे स्वरुचा पताकया
निशि जिह्वानिभया सुधाकरम् ।
श्रितमर्ककरैः पिपासु
यन्नृपसद्मामलपद्मरागजम् ॥१००॥
अमृतद्युतिलक्ष्म पीतया
मिलितं यद्वलभीपताकया ।
वलयायितशेषशायिनः
सखितामादित पीतवाससः ॥१०१॥
अश्रान्तश्रुतिपाठपूतरसनाविर्भूतभूरिस्तवा-
जिह्मब्रह्ममुखौघविघ्नितनवस्वर्गक्रियाकेलिना ।
पूर्व गाधिसुतेन सामिघटिता मुक्ता नु मन्दाकिनी
यत्प्रासाददुकूलवल्लिरनिलान्दोलैरखेलद्दिवि ॥१०२॥
यदतिविमलनीलवेश्मरश्मिभ्रमरितभाः शुचिसौधवस्त्रवल्लिः ।
अलभत शमनस्वसुः शिशुत्वं दिवसकराङ्कतले चला लुठन्ती ॥१०३॥
स्वप्राणेश्वरनर्महर्म्यकटकातिथ्यग्रहायोत्सुकं
पाथोदं निजकेलिसौधशिखरादारुह्य यत्कामिनी ।
साक्षादप्सरसो विमानकलितव्योमान एवाभव-
द्यन्न प्राय निमेषमभ्रतरसा यान्ती रसादध्वनि ॥१०४॥
वैदर्भीकेलिशैले मरकतशिखरादुत्थितैरंशुदर्भै-
र्ब्रह्माण्डाघातभग्नस्यदजमदतया ह्रीधृतावाङ्मुखत्वैः ।
कस्या नोत्तानगाया दिवि सुरसुरभेरास्यदेशं गताग्रै-
र्यद्गोग्रासप्रदानव्रतसुकृतमविश्रान्तमुज्जृम्भते स्म ॥१०५॥
विधुकरपरिरम्भादात्मनिष्यन्दपूर्णैः
शशिदृषदुपक्लृप्तैरालवालैस्तरूणाम् ।
विफलितजलसेकप्रक्रियागौरवेण
व्यरचि स हृतचित्तस्तत्र भैमीवनेन ॥१०६॥
अथ कनकपतत्रस्तव तां राजपुत्रीं
सदसि सदृशभासां विस्फुरन्तीं सखीनाम् ।
उडुपरिषदि मध्यस्थायिशीतांशुलेखा-
नुकरणपटुलक्ष्मीमक्षिलक्षीचकार ॥१०७॥
भ्रमणरयविकीर्णस्वर्णभासा खगेन
क्वचन पतनयोग्यं देशमन्विष्यताधः ।
मुखविधुमदसीयं सेवितुं लम्बमानः
शशिपरिधिरिवोर्ध्वं मण्डलस्तेन तेने ॥१०८॥
अनुभवति शचीत्थं सा घृताचीमुखाभि-
र्न सह सहचरीभिर्नन्दनानन्दमुच्चैः ।
इति मतिरुदयासीत् पक्षिणः प्रेक्ष्य भैमीं
विपिनभुवि सखीभिः सार्धमाबद्धकेलिम् ॥१०९॥
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
द्वैतीयीकतया मितोऽयमगमत्तस्य प्रबन्धे महा-
काव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः ॥११०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2013-01-19T05:16:25.1630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

जन्माचा पाटा वरवंटा घेणें

  • एखाद्यास जन्मभर पोसणें. 
RANDOM WORD

Did you know?

Are the advertisements necessary on your pages?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.