TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

नैषधीयचरितम् - दशमः सर्गः

महाकवि श्रीहर्षरचितं नैषधीयचरितम् हा ग्रंथ म्हणजे संस्कृत भाषेतील अतिउत्तम रचना होय.


दशमः सर्गः
रथैरथायुः कुलजाः कुमाराः
शस्त्रेषु शास्त्रेषु च दृष्टपाराः ।
स्वयंवरं शंबरवैरिकाय-
व्यूहश्रियः श्रीजितयक्षराजाः ॥१॥
नाभूदभूमिः स्मरसायकानां
नासीदगन्ता कुलजः कुमारः ।
नास्थादपन्था धरणेः कणोऽपि
व्रजेषु राज्ञां युगपद्व्रजत्सु ॥२॥
योग्यैर्व्रजद्भिर्नृपजां वरीतुं
वीरैरनर्हैः प्रसभेन हर्तुम् ।
द्रष्टुं परैस्तान्परिकर्तुमन्यैः
स्वमात्रशेषाः ककुभो बभूवुः ॥३॥
लोकैरशेषैरविनिश्रियं ताम्
उद्दिश्य दिश्यैर्विहिते प्रयाणे ।
स्ववर्तितत्तज्जनयन्त्रणार्ति-
विश्रान्तिमायुः ककुभां विभागाः ॥४॥
तलं यथेयुर्न तिला विकीर्णाः
सैन्यैस्तथा राजपथा बभूवुः ।
भैमीं स लब्धामिव तत्र मेने
कः प्राप भूभृद्भवितुं पुरस्तात् ॥५॥
नृपः पुरस्थैः प्रतिबद्धवर्त्मा
पश्चात्तनैः कश्चन नुद्यमानः ।
यन्त्रस्थसिद्धार्थपदाभिषेकं
लब्ध्वाप्यसिद्धार्थममन्यत स्वम् ॥६॥
राज्ञां पथि स्त्यानतयानुपूर्व्या
विलङ्घनाशक्तिविलम्बभाजाम् ।
आह्वानसंज्ञानमिवाग्रकम्पै-
र्ददुर्विदर्भेन्द्रपुरीपताकाः ॥७॥
प्राग्भूय कर्कोटक आचकर्ष
सकम्बलं नागबलं यदुच्चैः ।
भुवस्तले कुण्डिनगामि राज्ञां
तद्वासुकेश्चाश्वतरोऽन्वगच्छत् ॥८॥
आगच्छदुर्विन्द्रचमूसमुत्थै-
र्भूरेणुभिः पाण्डुरिता मुखश्रीः ।
विस्पष्टमाचष्ट हरिद्वधूनां
रूपं पतित्यागदशानुरूपम् ॥९॥
आखण्डलो दण्डधरः कृशानुः
पाशीति नाथैः ककुभां चतुर्भिः ।
भैम्येव बद्ध्वा स्वगुणेन कृष्टैः
स्वयंवरे तत्र गतं न शेषैः ॥१०॥
मन्त्रैः पुरं भीमपुरोहितस्य
तद्बद्धरक्षं विशति क्व रक्षः ।
तत्रोद्यमं दिक्पतिराततान
यातुं ततो जातु न यातुधानः ॥११॥
कर्तुं शशाकाभिमुखं न भैम्या
मृगं दृगम्भोरुहतर्जितम् यत् ।
अस्या विवाहाय ययौ विदर्भां-
स्तद्वाहनस्तेन न गन्धवाहः ॥१२॥
जातौ न वित्ते न गुणे न कामः
सौन्दर्य एव प्रवणः स वामः ।
स्वच्छस्वशैलेक्षितकुत्सबेरः
तां प्रत्यगान्न स्त्रितमां कुबेरः ॥१३॥
भमीविवाहं सहते स्म कस्माद्
अर्धं तनुर्या गिरिजात्मभर्तुः ।
तेनाव्रजन्त्या विदधे विदर्भा-
नीशानयानाय तयान्तरायः ॥१४॥
स्वयंवरं भीमनरेन्द्रजाया
दिशः पतिन प्रविवेश शेषः ।
प्रयातु भारं स निवेश्य कस्मिन्-
नहिर्महीगौरवसासहिर्यः ॥१५॥
ययौ विमृश्योर्ध्वदिशः पतिर्न
स्वयंवरं वीक्षितधर्मशास्त्रः ।
व्यलोकि लोके श्रुतिषु स्मृतौ वा
समं विवाहः क्व पितामहेन ॥१६॥
भैमीनिरस्तं स्वमवेत्य दूती-
मुखात्किलेन्द्रप्रमुखा दिगीशाः ।
स्यदे मुखेन्दौ च वितत्य मान्द्यं
चित्तस्य ते राजसमाजमीयुः ॥१७॥
नलभ्रमेणापि भजेत भैमी
कदाचिदस्मानिति शेषिताशा ।
भून्महेन्द्रादिचतुष्टयी सा
चतुर्नली काचिदलीकरूपा ॥१८॥
प्रयस्यतां तद्भवितुं सुराणां
दृष्टेन पृष्टेन परस्परेण ।
नैवानुमेने नलसाम्यसिद्धिः
स्वाभाविकात्कृत्रिममन्यदेव ॥१९॥
पूर्णेन्दुमास्यं विदधुः पुनस्ते
पुनर्मुखीचक्रुरनिद्रमब्जम् ।
स्ववक्त्रमादर्शतलेऽथ दर्शं
दर्शं बभञ्जुर्न तथातिमञ्जु ॥२०॥
तेषां तदा लब्धुमनीश्वराणां
श्रियं निजास्येन नलाननस्य ।
नालं तरीतुं पुनरुक्तिदोषं
बर्हिर्मुखानामनलाननत्वम् ॥२१॥
प्रियावियोगक्वथितादिवैला-
च्चन्द्राच्च राहुग्रहपीडितात्ते ।
ध्माताद्भवेन स्मरतोऽपि सारैः
स्वं कल्पयन्ति स्म नलानुकल्पम् ॥२२॥
नलस्य पश्यत्वियदन्तरं
तैर्भैमीति भूपान्विधिराहृतास्यै ।
स्पर्धां दिगीशानपि कारयित्वा
तस्यैव तेभ्यः प्रथिमानमाख्यत् ॥२३॥
सभा नलश्रीयमकैर्यमाद्यैः
नलं विनाभूद्धृतदिव्यरत्नैः ।
भामाङ्गणप्राधुणिके चतुर्भि-
र्देवद्रुमैर्द्यौरिव पारिजाते ॥२४॥
तत्रागमद्वासुकिरीशभूषा
भस्मोपदेहस्फुटगौरदेहः ।
फणीन्द्रवृन्दप्रणिगद्यमान-
प्रसीदजीवाद्यनुजीविवादः ॥२५॥
द्वीपान्तरेभ्यः पुटभेदनं तत्
क्षणादवापे सुरभूमिभूपैः ।
तत्कालमालम्बि न केन यूना
स्मरेषुपक्षानिलतूललीला ॥२६॥
रम्येषु हर्म्येषु निवेशनेन
सपर्यया कुण्डिननाकनाथः ।
प्रियोक्तिदानादरनम्रताद्यै-
रुपाचरच्चारु स राजचक्रम् ॥२७॥
चतुःसमुद्रीपरिखे नृपाणाम्
अन्तः पुरे वासितकीर्तिदारे ।
दानं दया सूनृतमातिथेयी
चतुष्टयी रक्षणसौविदल्ला ॥२८॥
अभ्यागतैः कुण्डिनवासवस्य
परोक्षवृत्तेष्वपि तेषु तेषु ।
जिज्ञासितस्वेप्सितलाभलिङ्गं
स्वल्पोऽति नावापि नृपैर्विशेषः ॥२९॥
अङ्के विदर्भेन्द्रपुरस्य शङ्के
न संममौ नैष तथा समाजः ।
यथा पयोराशिरगस्त्यहस्ते
यथा जगद्वा जठरे मुरारेः ॥३०॥
पुरे पथि द्वारगृहाणि तत्र
चित्रीकृतान्युत्सववाञ्छयेव ।
नभोऽपि किर्मीरमकारि तेषां
महीभुजामाभरणप्रभाभिः ॥३१॥
विलासवैदग्ध्यविभूषणश्री-
स्तेषां यथासीत्परिचारकेऽपि ।
अज्ञासिषुः स्त्रीशिशुबालिशास्तं
यथागतं नायकमेव कंचित् ॥३२॥
न स्वेदिनश्चामरमारुतैर्न
निमेषनेत्राः प्रतिवस्तुचित्रैः ।
म्लानस्रजो नातपवारणेन
देवा नृदेवा बिभिदुर्न तत्र ॥३३॥
अन्योन्यभाषानवबोधभीतेः
संस्कृत्रिमाभिर्व्यवहारवत्सु ।
दिग्भ्यः समेतेषु नृपेषु तेषु
सौवर्गवर्गो न जनैरचिह्नि ॥३४॥
ते तत्र भैम्याश्चरितानि चित्रे
चित्राणि पौरैः पुरि लेखितानि ।
निरीक्ष्य निन्युर्दिवसं निशां च
तत्स्वप्नसंभोगकलाविलासैः ॥३५॥
सा विभ्रमं स्वप्नगतापि तस्यां
निशि स्वलाभस्य ददे यदेभ्यः ।
तदर्थिनां भूमिभुजां वदान्या
सती सती पूरयति स्म कामम् ॥३६॥
वैदर्भदूतानुनयोपहूतैः
शृङ्गारभङ्गीरनुभावयद्भिः ।
स्वयंवरस्थानजनाश्रयस्तै-
र्दिने परत्रालमकारि वीरैः ॥३७॥
भूषाभिरुच्चैरपि संस्कृते यं
वीक्ष्याकृत प्राकृतबुद्धिमेव ।
प्रसूनबाणे विबुधाधिनाथ-
स्तेनाथ साऽशोभि सभा नलेन ॥३८॥
धृताङ्गरागे कलितद्युशोभां
तस्मिन्सभां चुम्बति राजचन्द्रे ।
गता बताक्ष्णोर्विषयं विहाय
क्व क्षात्त्रनक्षत्त्रकुलस्य कान्तिः ॥३९॥
द्राग्दृष्टयः क्षोणिभुजाममुष्मीन्
नाश्चर्यपर्युत्सुकिता निपेतुः ।
अनन्तरं दन्तुरितभ्रुवां तु
नितान्तमीर्ष्याकलुषा दृगन्ताः ॥४०॥
सुधांशुरेषु प्रथमो भुवीति
स्मरो द्वितीयः किमसावितीमम् ।
दस्रस्तृतीयोऽयमिति क्षितीशाः
स्तुतिच्छलान्मत्सरिणो निनिन्दुः ॥४१॥
आद्यं विधोर्जन्म स एष
भूमौ द्वैतं युवासौ रतिवल्लभस्य ।
नासत्ययोर्मूर्तितृतीयताय-
मिति स्तुतस्तैः कृतमत्सरैः सः ॥४२॥
मायानलोदाहरणान्मिथस्तै-
रूचे समाः सन्त्यमुना कियन्तः ।
आत्मापकर्षे सति मत्सराणां
द्विषः परस्पर्धनया समाधिः ॥४३॥
गुणेन केनापि जनेऽनवद्ये
दोषान्तरोक्तिः खलु तत्खलत्वम् ।
रूपेण तत्संसददूषितस्य
सुरैर्नरत्वं यददूषि तस्य ॥४४॥
नलानसत्यानवदत्स सत्यः
कृतोपवेशान्सविधे सुवेषान् ।
नोभाविलाभूः किमु दर्पकश्च
भवन्ति नासत्ययुतौ भवन्तः ॥४५॥
अमी तमीदृग्जगुरत्र मध्ये
कस्यापि नोत्पत्तिरभूदिलायाम् ।
अदर्पकाः स्मः सविधे स्थितास्ते
नासत्यतां नात्र बिभर्ति कश्चित् ॥४६॥
तेभ्यः परान्नः परिकल्पयस्व
श्रिया विदूरीकृतकामदेवान् ।
अस्मिन्समाजे बहुषु भ्रमन्ती
भैमी किलास्मासु घटिष्यतेऽसौ ॥४७॥
असाम यन्नाम तवेह रूपं
स्वेनाधिगत्य श्रितमुग्धभावाः ।
तन्नो धिगाशापतितान्नरेन्द्र
धिक्चेदमस्मद्विबुधत्वमस्तु ॥४८॥
सा वागवाज्ञायितमां नलेन
तेषामनाशङ्कितवाक्छलेन ।
स्त्रीरत्नलाभोचितयत्नमग्न-
मेनं हि न स्म प्रतिभाति किंचित् ॥४९॥
यः स्पर्धया येन निजप्रतिष्ठां
लिप्सुः स एवाह तदुन्नतत्वम् ।
कः स्पर्धितुः स्वाभिहितस्वहानेः
स्थानेऽवहेलां बहुलां न कुर्यात् ॥५०॥
गीर्देवतागीतयशःप्रशस्तिः
श्रिया तडित्त्वल्ललिताभिनेता ।
मुदा तदाऽवैक्षत केशवस्तं
स्वयंवराडम्बरमम्बरस्थः ॥५१॥
अष्टौ तदाष्टासु हरित्सु दृष्टीः
सदो दिदृक्षुर्निदिदेश देवः ।
लैङ्गीमदृष्ट्वापि शिरःश्रियं यो
दृष्टौ मृषावादितकेतकीकः ॥५२॥
एकेन पर्यक्षिपदात्मनाद्रिं
चक्षुर्मुरारेरभवत्परेण ।
तैर्द्वादशात्मा दशभिस्तु शेषै-
र्दिशो दशालोकत लोकपूर्णाः ॥५३॥
प्रदक्षिणं दैवतहर्म्यमद्रिं
सदैव कुर्वन्नपि शर्वरीशः ।
द्रष्टा महेन्द्रानुजदृष्टिमूर्त्या
न प्राप तद्दर्शनविघ्नतापम् ॥५४॥
आलोकमाना वरलोकलक्ष्मीं
तात्कालिकीमप्सरसो रसोत्काः ।
जनाम्बुधौ यत्र निजाननानि
वितेनुरम्भोरुहकाननानि ॥५५॥
न यक्षलक्षैः किमलक्षि नो वा
सिद्धैः किमध्यासि समाप्तशोभा ।
सा किंनरैः किं न रसादसेवि
नादर्शि हर्षेण महर्षिभिर्वा ॥५६॥
वाल्मीकिरश्लाघत तामनेक-
शाखत्रयीभूरुहराजिभाजा ।
क्लेशं विना कण्ठपथेन यस्य
दैवी दिवः प्राग्भुवमागमद्वाक् ॥५७॥
प्राशंसि संसद्गुरुणापि चार्वी
चार्वाकतासर्वविदूषकेण ।
आष्थानपट्टं रसनां यदीयां
जानामि वाचामधिदेवतायाः ॥५८॥
नाकेऽपि दीव्यत्तमदिव्यवाचि
वचःस्रगाचार्यकवित्कविर्यः ।
दैतेयनीतेः पथि सार्थवाहः
काव्यः स काव्येन सभामभाणीत् ॥५९॥
अमेलयद्भीमनृपः परं न
नाकर्षदेतान्दमनस्वसैव ।
इदं विधातापि विचिन्त्य यूनः
स्वशिल्पसर्वस्वमदर्शयन्नः ॥६०॥
एकाकिभावेन पुरा पुरारिः
यः पञ्चतां पञ्चशरं निनाय ।
तद्भीसमाधानममुष्य काय
निकायलीलाः किममी युवानः ॥६१॥
पूर्णेन्दुबिम्बाननुमासभिन्ना-
नस्थापयत्क्वापि निधाय वेधाः ।
तैरेव शिल्पी निरमादमीषां
मुखानि लावण्यमयानि मन्ये ॥६२॥
मुधार्पितं मूर्धसु रत्नमेभि-
र्यन्नाम तानि स्वयमेत एव ।
स्वतःप्रकाशे परमात्मबोधे
बोधान्तरं न स्फुरणाऋथमर्थ्यम् ॥६३॥
प्रवेक्ष्यतः सुन्दरवृन्दमुच्चै-
रिदं मुदा चेदितरेतरं तत् ।
न शक्ष्यतो लक्षयितुं विमिश्रं
दस्रौ सहस्रैरपि वत्सराणाम् ॥६४॥
स्थितैरियद्भिर्युवभिर्विदग्धै-
र्दग्धेऽपि कामे जगतः क्षतिः का ।
एकाम्बुबिन्दुव्ययमम्बुराशेः
पूर्णस्य कः शंसति शोषदोषम् ॥६५॥
इति स्तुवन्हुंकृतिवर्गणाभि-
र्गन्धर्ववर्गेण स गायतैव ।
ओंकारभूम्ना पठतैव वेदान्
महर्षिवृन्देन तथाऽन्वमानि ॥६६॥
न्यवीविशत्तानथ राजसिंहान्
सिंहासनौघेषु विदर्भराजः ।
शृङ्गेषु यत्र त्रिदशैरिवैभिः
अशोभि कार्तस्वरभूधरस्य ॥६७॥
विचिन्त्य नानाभुवनागतांस्ता-
नमर्त्यसंकीर्त्यचरित्रगोत्रान् ।
कथ्याः कथंकारममी सुतायाम्
इति व्यषादि क्षितिपेन तेन ॥६८॥
श्रद्धालुसंकल्पितकल्पनायां
कल्पद्रुमस्याथ रथाङ्गपाणेः ।
तदाकुलोऽसौ कुलदैवतस्य
स्मृतिं ततान क्षणमेकतानः ॥६९॥
तच्चिन्तनानन्तरमेव देवः
सरस्वतीं सस्मितमाह स स्म ।
स्वयंवरे राजकगोत्रवृत्त-
वत्त्रीमिह त्वां करवाणि वाणि ॥७०॥
कुलं च शीलं च बलं च यूनां
जानासि नानाभुवनागतानाम् ।
एषामतस्त्वं भव वावदूका
मूकायितुं कः समयस्तवायम् ॥७१॥
जगत्त्रयीपण्डितमण्डितैषा
सभा न भूता च न भाविनी च ।
राज्ञां गुणज्ञापनकैतवेन
संख्यावतः श्रावय वाङ्मुखानि ॥७२॥
इतीरिता तच्चरणात्परागं
गीर्वाणचूडामणिमृष्टशेषम् ।
तस्य प्रसादेन सहाज्ञयासा-
वादाय मूर्ध्नादरिणी बभार ॥७३॥
मध्येसभं सावततार बाला
गन्धर्वविद्याधरकण्ठनाला ।
त्रयीमयीभूतवलीविभङ्गा
साहित्यनिर्वर्तितदृक्तरङ्गा ॥७४॥
आसीदथर्वा त्रिवलित्रिवेदी
मूलाद्विनिर्गत्य वितायमाना ।
नानाभिचारोचितमेचकश्रीः
श्रुतिर्यदीयोदररोमरेखा ॥७५॥
शिक्षैव साक्षाच्चरितं यदीयं
कल्पश्रियाकल्पविधिर्यदीयः ।
यस्याः समस्तार्थनिरुक्तिरूपै-
र्निरुक्तिविद्या खलु पर्यणंसीत् ॥७६॥
जात्या च वृत्तेन च भिद्यमानं
छन्दो भुजद्वन्द्वमभूद्यदीयम् ।
श्लोकार्धविश्रान्तिमयीभविष्णु
पर्वद्वयीसन्धिसुचिह्नमध्यम् ॥७७॥
असंशयं सा गुणदीर्घभाव-
कृता दधाना विततिं यदीया ।
विधायिका शब्दपरम्पराणां
किं वारचि व्याकरणेन काञ्ची ॥७८॥
स्थितैव कण्ठे परिणम्य हार-
लता बभूवोदिततारवृत्ता ।
ज्योतिर्मयी यद्भजनाय विद्या
मध्येङ्गमङ्केन भृता विशङ्के ॥७९॥
अवैमि वादिप्रतिवादिगाढ-
खपक्षरागेण विराजमाने ।
ते पूर्वपक्षोत्तरपक्षशास्त्रे
रदच्छदौ भूतवती यदीयौ ॥८०॥
ब्रह्मार्थकर्मार्थकवेदभेदा
द्विधा विधाय स्थितयात्मदेहम् ।
चक्रे पराच्छादनचारु यस्या
मीमांसया मांसलमूरुयुग्मम् ॥८१॥
उद्देशपर्वण्यपि लक्षणेऽपि
द्विधोदितैः षोडशभिः पदार्थैः ।
आन्वीक्षिकीं यद्दशनद्विमालीं
तां मुक्तिकामाकलितां प्रतीमः ॥८२॥
तर्का रदा यद्वदनस्य तर्क्या
वादेऽस्य शक्तिः क्व तथाऽन्यथा तैः ।
पत्त्रं क्व दातुं गुणशालिपूगं
क्व वादतः खण्डयितुं प्रभुत्वम् ॥८३॥
सपल्लवं व्यासपराशराभ्यां
प्रणीतभावादुभयीभविष्णु ।
तन्मत्स्यपद्माद्युपलक्ष्यमाणं
यत्पाणियुग्मं ववृते पुराणम् ॥८४॥
आकल्पविच्छेदविवर्जितो यः
स धर्मशास्त्रव्रज एव यस्याः ।
पश्यामि मूर्धा श्रुतिमूलशाली
कण्ठस्थितः कस्य मुदे न वृत्तः ॥८५॥
भ्रुवौ दलाभ्यां प्रणवस्य यस्या-
स्तद्बिन्दुना भालतमालपत्त्रम् ।
तदर्धचन्द्रेण विधिर्विपञ्ची
निक्वाणनाकोणधनुः प्रणिन्ये ॥८६॥
द्विकुण्डली वृत्तसमाप्तिलिप्या
कराङ्गुली काञ्चनलेखनीनाम् ।
कैश्यं मषीणां स्मितभा कठिन्याः
काये यदीये निरमायि सारैः ॥८७॥
या सोमसिद्धान्तमयाननेव
शून्यात्मतावादमयोदरेव ।
विज्ञानसामस्त्यमयान्तरेव
साकारतासिद्धिमयाखिलेव ॥८८॥
भीमस्तयागद्यत मोदितुं ते
वेला किलेयं तदलं विषद्य ।
मया निगाद्यं जगतीपतीनां
गोत्रं चरित्रं च विचित्रमेषाम् ॥८९॥
अविन्दतासौ मकरन्दलीलां
मन्दाकिनी यच्चरणारविन्दे ।
अत्रावतीर्णा गुणवर्णनाय
राज्ञां तदाज्ञावशगास्मि कापि ॥९०॥
तत्कालवेद्यैः शकुनस्वराद्यै-
राप्तामवाप्तां नृपतिः प्रतीत्य ।
तां लोकपालैकधुरीण एष
तस्यै सपर्यामुचितां दिदेश ॥९१॥
दिगन्तरेभ्यः पृथिवीपतीना-
माकर्षकौतूहलसिद्धविद्याम् ।
ततः क्षितीशः स निजां तनूजां
मध्येमहाराजकमाजुहाव ॥९२॥
दासीषु नासीरचरीषु जातं
स्फीतं क्रमेणालिषु वीक्षितासु ।
स्वाङ्गेषु रूपोत्थमथाद्भुताब्धि-
मुद्वेलयन्तीमवलोककानाम् ॥९३॥
स्निग्धत्वमायाजललेपलोप-
सयत्नरत्नांशुमृजांशुकाभाम् ।
नेपथ्यहीरद्युतिवारिवर्ति-
स्वच्छायसच्छायनिजालिजालाम् ॥९४॥
विलेपनामोदमुदागतेन
तत्कर्णपूरोत्पलसर्पिणा च ।
रतीशदूतेन मधुव्रतेन कर्णे
रहः किंचिदिवोच्यमानाम् ॥९५॥
विरोधिवर्णाभरणाश्मभासां
मल्लाजिकौतूहलमीक्षमाणाम् ।
स्मरस्वचापभ्रमचालिते नु
भ्रुवौ विलासाद्वलिते वहन्तीम् ॥९६॥
सामोदपुष्पाशुगवासिताङ्गीं
किशोरशाखाग्रशयालिमालाम् ।
वसन्तलक्ष्मीमिव राजभिस्तैः
कल्पद्रुमैरप्यभिलष्यमाणाम् ॥९७॥
पीतावदातारुणनीलभासां
देहोपदेहात्किरणैर्मणीनाम् ।
गोरोचनाचन्दनकुङ्कुमैण-
नाभीविलेपान्पुनरुक्तयन्तीम् ॥९८॥
स्मरं प्रसूनेन शरासनेन
जेतारमश्रद्दधतीं नलस्य ।
तस्मै स्वभूषादृषदंशुशिल्पं
बलद्विषः कार्मुकमर्पयन्तीम् ॥९९॥
विभूषाणेभ्योऽवरमंशुकेषु
ततोऽवरं सान्द्रमणिप्रभासु ।
सम्यक्पुनः क्वापि न राजकस्य
पातुं दृशा धातृधृतावकाशाम् ॥१००॥
प्राक्पुष्पवर्षैर्वियतः पतद्भि-
र्द्रष्टुं न दत्तामथ न द्विरेफैः ।
तद्भीतिभुग्नेन ततो मुखेन
विधेरहो वाञ्छितविघ्नयत्नः ॥१०१॥
एतद्वरं स्यामिति राजकेन
मनोरथातिथ्यमवापिताय ।
सखीमुखायोत्सृजतीमपाङ्गात्
कर्पूरकस्तूरिकयोः प्रवाहम् ॥१०२॥
स्मितेच्छुदन्तच्छदकम्पकिंचि-
द्दिगम्बरीभूतरदांशुवृन्दैः ।
आनन्दितोर्वीन्द्रमुखारविन्दै-
र्मन्दं नुदन्तीं हृदि कौमुदीनाम् ॥१०३॥
प्रत्यङ्गभूषाच्छमणिच्छलेन
यल्लग्नतन्निश्चललोकनेत्राम् ।
हाराग्रजाग्रद्गरुडाश्मरश्मि-
पीनाभनाभीकुहरान्धकाराम् ॥१०४॥
तद्गौरसारस्मितविस्मितेन्दु-
प्रभाशिरःकम्परुचोऽभिनेतुम् ।
विपाण्डुतामण्डितचामराली-
नानामरालीकृतलास्यलीलाम् ॥१०५॥
तदङ्गभोगावलिगायनीनां
मध्ये निरुक्तिक्रमकुण्ठितानाम् ।
स्वयं धृतामप्सरसां प्रसादं
ह्रियं हृदो मण्डनमर्पयन्तीम् ॥१०६॥
तारा रदानां वदनस्य चन्द्रं
रुचा कचानां च नभो जयन्तीम् ।
आकण्ठमक्ष्णोर्द्वितयं मधूनि
महीभुजः कस्य न भोजयन्तीम् ॥१०७॥
अलंकृताङ्गाद्भुतकेवलाङ्गीं
स्तवाधिकाध्यक्षनिवेद्यलक्ष्मीम् ।
इमां विमानेन सभां विशन्तीं
पपावपाङ्गैरथ राजराजिः ॥१०८॥
आसीदसौ तत्र न कोऽपि भूप-
स्तन्मूर्तिरूपोद्भवदद्भुतस्य ।
उल्लेसुरङ्गानि मुदा न यस्य
विनद्ररोमाङ्कुरदन्तुराणि ॥१०९॥
अङ्गुष्ठमूर्ध्ना विनिपीडिताया
मध्येन भागेन च मध्यमायाः ।
आस्फोटि भैमीमवलोक्य तत्र
न तर्जनी केन जनेन नाम ॥११०॥
अस्मिन्समाजे मनुजेश्वरेण
तां खञ्जनाक्षीमंवलोक्य केन ।
पुनः पुनर्लोलितमौलिना न
भ्रुवोरुदक्षेपितरां द्वयी वा ॥१११॥
स्वयंवरस्याजिरमाजिहानां
विभाव्य भैमीमथ भूमिनाथैः ।
इदं मुदा विह्वलचित्तभावाद-
वापि खण्डाक्षारजिह्मजिह्वम् ॥११२॥
रम्भादिलोभात्कृतकर्मभिर्मा
शून्यैव भूर्भूत्सुरभूमिपान्थैः ।
इत्येतयालोपि दिवोऽपि पुंसां
वैमत्यमत्यप्सरसा रसायाम् ॥११३॥
रूपं यदाकर्ण्य जनाननेभ्य-
स्तत्तद्दिगन्ताद्वयमागमाम ।
सौन्दर्यसारादनुभूयमाना-
दस्यास्तदस्माद्बहु नाकनीयः ॥११४॥
रसस्य शृङ्गार इति श्रुतस्य
क्व नाम जागर्ति महानुदन्वान् ।
कस्मादुदस्थादियमन्यथा श्री-
र्लावण्यवैदग्ध्यनिधिः पयोधेः ॥११५॥
साक्षात्सुधांशुर्मुखमेव भैम्या
दिवः स्फुटं लाक्षणिकः शशाङ्कः ।
एतद्भुवौ मुख्यमनङ्गचापं
पुष्पं पुनस्तद्गुणमात्रवृत्त्या ॥११६॥
लक्ष्ये धृतं कुण्डलिके सुदत्या
ताटङ्कयुग्मं स्मरधन्विने किम् ।
सव्यापसव्यं विशिखा विसृष्टा-
स्तेनानयोर्यान्ति किमन्तरेव ॥११७॥
तनोत्यकीर्तिं कुसुमाशुगस्य
सैषा बतेन्दीवरकर्णपूरौ ।
यतः श्रवःकुण्डलिकापराद्धशरं
खलः ख्यापयिता तमाभ्याम् ॥११८॥
रजःपदं षट्पदकीटजुष्टं
हित्वात्मनः पुष्पमयं पुराणम् ।
अद्यात्मभूराद्रियतां स भैम्या
भ्रूयुग्ममन्तर्धृतमुष्टि चापम् ॥११९॥
पद्मान्हिमे प्रावृषि खञ्जरीटा-
न्क्षिप्नुर्यमादाय विधिः क्वचित्तान् ।
सारेण तेन प्रतिवर्षमुच्चैः
पुष्णाति दृष्टिद्वयमेतदीयम् ॥१२०॥
एतादृशोरम्बुरुहैर्विशेषं
भृङ्गौ जनः पृच्छतु तद्गुणज्ञौ ।
इतीव धाताकृत तारकालि-
स्त्रीपुंसमाध्यस्थ्यमिहाक्षियुग्मे ॥१२१॥
व्यधत्ते सौधे रतिकामयोस्त-
द्भक्तं वयोऽस्या हृदि वासभाजोः ।
तदग्रजाग्रत्पृथुशातकुम्भ-
कुम्भौ न संभावयति स्तनौ कः ॥१२२॥
अस्या भुजाभ्यां विजिताद्बिसाक्तिं
पृथक्करोऽगृह्यत तत्प्रसूनम् ।
इहेष्यते तन्न गृहाः श्रियः कै-
र्न गीयते वा कर एव लोकैः ॥१२३॥
छद्मैव तच्छम्बरजं बिसिन्या-
स्तत्पद्ममस्यास्तु भुजाग्रसदम् ।
उत्कण्टकादुद्गमनेन नाला-
दुत्कण्टकं शातशिखैर्नखैर्यत् ॥१२४॥
जागर्ति मर्त्येषु तुलार्थमस्या
योग्येति योग्यानुपलम्भनं नः ।
यद्यस्ति नाके भुवनेऽथ वाध-
स्तदा न कौतस्कुतलोकबाधः ॥१२५॥
नमः करेभ्योऽस्तु विधेर्न वास्तु
स्पृष्टं धियाप्यस्य न किं पुनस्तैः ।
स्पर्शादिदं स्याल्लुलितं हि शिल्पं
मनोभुवोऽनङ्गतयानुरूपम् ॥१२६॥
इमां न मृद्वीमसृजत्कराभ्यां
वेधा कुशाध्यासनकर्कशाभ्याम् ।
शृङ्गारधारां मनसा न शान्ति-
विश्रान्तिधन्वाध्वमहीरुहेण ॥१२७॥
उल्लास्य धातुस्तुलिता करेण
श्रोणौ किमेषा स्तनयोर्गुरुर्वा ।
तेनान्तरालैस्त्रिभिरङ्गुलीना-
मुदीतमध्यत्रिवलीविलासा ॥१२८॥
निजामृतोद्यन्नवनीतजाङ्गी-
मेतां क्रमोन्मीलितपीतिमानम् ।
कृत्वेन्दुरस्या मुखमात्मनाभू-
न्निद्रालुना दुर्घटमम्बुजेन ॥१२९॥
अस्याः स चारुर्मधुरेव कारुः
श्वासं वितेने मलयानिलेन ।
अमूनि सूनैर्विदधेऽङ्गकानि
चकार वाचं पिकपञ्चमेन ॥१३०॥
कृतिः स्मरस्यैव न धातुरेषा
नास्या हि शिल्पीतरकारुजेयः ।
रूपस्य शिल्पे वयसाऽपि वेधा
निजीयते स स्मरकिङ्करेण ॥१३१॥
गुरोरपीमां भणदोष्ठकण्ठं
निरुक्तिगर्वच्छिदया विनेतुम् ।
श्रमः स्मरस्यैव भवं विहाय
मुक्तिं गतानामनुतापनाय ॥१३२॥
आख्यातुमक्षिव्रजसर्वपीतां
भैमीं तदेकाङ्गनिखातदृक्षु ।
गाथासुधाश्लेषकलाविलासै-
रलंचकाराननचन्द्रमिन्द्रः ॥१३३॥
स्मितेन गौरी हरिणी दृशेयं
वीणावती सुस्वरकण्ठभासा ।
हेमेव कायप्रभयाङ्गशेषैस्तन्वी
मतिं क्रामति मे न कापि ॥१३४॥
इति स्तुवानः सविधे नलेन
विलोकितः शङ्कितमानसेन ।
व्याकृत्य मर्त्योचितमर्थमुक्ते-
राखण्डलस्तस्य नुनोद शङ्काम् ॥१३५॥
स्वं नैषधादेशमहो विधाय
कार्यस्य हेतोरपि नानलः सन् ।
किं स्थानिवद्भावमधत्त दुष्टं
तादृक्कृतव्याकरणः पुनः सः ॥१३६॥
इयमियमधिरथ्यं याति नेपथ्यमञ्जु-
र्विशतिविशति वेदीमुर्वशी सेयमुर्व्याः ।
इति जनजनितैः सानन्दनादैर्विजघ्ने
नलहृदि परभैमीवर्णनाकर्णनाप्तिः ॥१३७॥
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
तर्केष्वप्यसमश्रमस्य दशमस्तस्य व्यरंसीन्महा-
काव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः ॥१३८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2013-01-19T05:22:56.4930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

एकेरी इंजन

  • न. ( यंत्र . ) एक पंचपात्र असलेलें वाफेचें इंजन . [ इं . सिंगल सिलेंडर एन्जिन ] 
RANDOM WORD

Did you know?

aatmyathyatmya meaning
Category : Puranic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.