TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

नैषधीयचरितम् - अष्टमः सर्गः

महाकवि श्रीहर्षरचितं नैषधीयचरितम् हा ग्रंथ म्हणजे संस्कृत भाषेतील अतिउत्तम रचना होय.


अष्टमः सर्गः
अथाद्भुतेनास्तनिमेषमुद्रम्
उन्निद्रलोमानममुं युवानम् ।
दृशा परुस्ताः सुदृशः समस्ताः
सुता च भीमस्य महीमघोनः ॥१॥
कियच्चिरं दैवतभाषितानि
निह्नोतुमेनं प्रभवन्तु नाम ।
पलालजालैः पिहितः स्वयं हि
प्रकाशमासादयतीक्षुडिम्भः ॥२॥
अपाङ्गमप्याय दृशोर्न रश्मिः
नलस्य भैमीमभिलष्य यावत् ।
स्मराशुगः सुभ्रुवि तावदस्यां
प्रत्यङ्गमापुङ्खशिखं ममज्ज ॥३॥
यदक्रमं विक्रमशक्तिसाम्याद्
उपाचरद्द्वावपि पञ्चबाणः ।
कथं न वैमत्यममुष्य चक्रे
शरैरनर्धार्धविभागभाग्मिः ॥४॥
तस्मिन्नलोऽसाविति सान्वरज्यत्
क्षणं क्षणं क्वेह स इत्युदास्त ।
पुनः स्म तस्यां वलतेऽस्य चित्तं
दूत्यादनेनाथ पुनर्न्यवर्ति ॥५॥
कयाचिदालोक्य नलं ललज्जे
कयापि तद्भासि हृदा ममज्जे ।
तं कापि मेने स्मरमेव कन्या
भेजे मनोभूवशभूयमन्या ॥६॥
कस्त्वं कुतो वेति न जातु शेकुः
तं प्रष्टुमप्यप्रतिभातिभारात् ।
उत्तस्थुरभ्युत्थितिवाञ्छयेव
निजासनान्नैकरसाः कृशाङ्ग्यः ॥७॥
स्वाच्छन्द्यमानन्दपरंपराणां
भैमी तमालोक्य किमप्यवाप ।
महारयं निर्झरिणीव वाराम्
आसाद्य धाराधरकेलिकालम् ॥८॥
तत्रैव मग्ना यदपश्यदग्रे
नास्या दृगस्याङ्गमयास्यदन्यत् ।
नादास्यदस्यै यदि बुद्धिधारां
विच्छिद्य विच्छिद्य चिरान्निमेषः ॥९॥
दृशापि सालिङ्गितमङ्गमस्य
जग्राह नाग्रावगताङ्गहर्षैः ।
अङ्गान्तरेऽनन्तरमीक्षिते तु
निवृत्य सस्मार न पूर्वदृष्टम् ॥१०॥
हित्वैकमस्यापघनं विशन्ती
तद्दृष्टिरङ्गान्तरभुक्तिसीमाम् ।
चिरं चकारोभयलाभलोभात्
स्वभावलोला गतमागतं च ॥११॥
निरीक्षितं चाङ्गमवीक्षितं च
दृशा पिबन्ती रभसेन तस्य ।
समानमानन्दमियं दधाना
विवेद भेदं न विदर्भसुभ्रूः ॥१२॥
सूक्ष्मे घने नैषधकेशपाशे
निपत्य निस्पन्दतरीभवद्भ्याम् ।
तस्यानुबन्धं न विमोच्य गन्तुम्
अपारि तल्लोचनखञ्जनाभ्याम् ॥१३॥
भूलोकभर्तुर्मुखपाणिपाद-
पद्मैः परीरम्भमवाप्य तस्य ।
दमस्वसुर्दृष्टिसरोजराजिः
चिरं न तत्याज सबन्धुबन्धम् ॥१४॥
तत्कालमानन्दमयी भवन्ती
भवत्तरानिर्वचनीयमोहा ।
सा मुक्तसंसारिदशारसाभ्यां
द्विस्वादमुल्लासमभुङ्क्त मिष्टम् ॥१५॥
दूते नलश्रीभृति भाविभावा
कलङ्किनीयं जनि मेति नूनम् ।
न संव्यधान्नैषधकायमायं
विधिः स्वयंदूतमिमां प्रतीन्द्रम् ॥१६॥
पुण्ये मनः कस्य मुनेरपि स्यात्
प्रमाणमास्ते यदधेऽपि धावत् ।
तच्चिन्ति चित्तं परमेश्वरस्तु
भक्तस्य हृष्यत्करुणो रुणद्धि ॥१७॥
सालीकदृष्टे मदनोन्मदिष्णुः
यथाप शालीनतमा न मौनम् ।
तथैव तथ्येऽपि नले न लेभे
मुग्धेषु कः सत्यमृषाविवेकः ॥१८॥
व्यर्थीभवद्भावपिधानयत्ना
स्वरेण साथ श्लथगद्गदेन ।
सखीचये साध्वसबद्धवाचि
स्वयं तमूचे नमदाननेन्दुः ॥१९॥
नत्वा शिरोरत्नरुचापि पाद्यं
संपाद्यमाचारविदातिथिभ्यः ।
प्रियाक्षरालीरसधारयापि
वैधी विधेया मधुपर्कतृप्तिः ॥२०॥
स्वात्मापि शीलेन तृणं विधेयं
देया विहायासनभूर्निजापि ।
आनन्दबाष्पैरपि कल्प्यमम्भः
पृच्छा विधेया मधुभिर्वचोभिः ॥२१॥
पदोपहारेऽनुपनम्रतापि
संभाव्यतेऽपां त्वरयापराधः ।
तत्कर्तुमर्हाञ्जलिसञ्जनेन
स्वसंभृतिः प्राञ्जलतापि तावत् ॥२२॥
पुरा परित्यज्य मयात्यसर्जि
स्वमासनं तत्किमिति क्षणं न ।
अनर्हमप्येतदलंक्रियेत
प्रयातुमीहा यदि चान्यतोऽपि ॥२३॥
निवेद्यतां हन्त समापयन्तौ
शिरीषकोषभ्रदिमाभिमानम् ।
पादौ कियद्दूरमिमौ प्रयासे
निधित्सते तुच्छदयं मनस्ते ॥२४॥
अनायि देशः कतमस्त्वयाद्य
वसन्तमुक्तस्य दशां वनस्य ।
त्वदाप्तसंकेततया कृतार्था
श्रव्यापि नानेन जनेन संज्ञा ॥२५॥
तीर्णः किमर्णोनिधिरेव नैष
सुरक्षितेऽभूदिह यत्प्रवेशः ।
फलं किमेतस्य तु साहसस्य
न तावदद्यापि विनिश्चिनोमि ॥२६॥
तव प्रवेशे सुकृतानि हेतुः
मन्ये मदक्ष्णोरपि तावदत्र ।
न लक्षितो रक्षिभटैर्यदाभ्यां
पीतोऽसि तन्वा जितपुष्पधन्वा ॥२७॥
यथाकृतिः काचन ते यथा वा
दौवारिकान्धंकरणी च शक्तिः ।
रुच्यो रुचीभिर्जितकाञ्चनीभिः
तथासि पीयूषभुजां सनाभिः ॥२८॥
न मन्मथस्त्वं स हि नास्तिमूर्तिः
न चाश्विनेयः स हि नाद्वितीयः ।
चिह्नैः किमन्यैरथवा तवेयं
श्रीरेव ताभ्यामधिको विशेषः ॥२९॥
आलोकतृप्तीकृतलोक ! यस्त्वाम्
असूत पीयूषमयूखमेनम् ।
कः स्पर्धितुं धावति साधु सार्धम्
उदन्वता नन्वयमन्ववायः ॥३०॥
भूयोऽपि बाला नलसुन्दरं तं
मत्वामरं रक्षिजनाक्षिबन्धात् ।
आतिथ्यचाटून्यपदिश्य तत्स्थां
श्रियं प्रियस्यास्तुत वस्तुतः सा ॥३१॥
वाग्जन्मवैफल्यमसह्यशल्यं
गुणाद्भुते वस्तुनि मौनिता चेत् ।
खलत्वमल्पीयसि जल्पितेऽपि
तदस्तु बन्दिभ्रमभूमितैव ॥३२॥
कंदर्प एवेदमविन्दत त्वां
पुण्येन मन्ये पुनरन्यजन्म ।
चण्डीशचण्डाक्षिहुताशकुण्डे
जुहाव यन्मन्दिरमिन्द्रियाणाम् ॥३३॥
शोभायशोभिर्जितशैवशैलं
करोपि लज्जागुरुमौलिमैलम् ।
दस्रौ हठश्रीहरणादुदस्रौ
कंदर्पमप्युज्झितरूपदर्पम् ॥३४॥
अवैमि हंसावलयो वलक्षाः
त्वत्कान्तिकीर्तेश्चपलाः पुलाकाः ।
उड्डीय युक्तं पतिताः स्रवन्ती-
वेशन्तपूरं परितः प्लवन्ते ॥३५॥
भवत्पदाङ्गुष्ठमपि श्रिता श्रीः
ध्रुवं न लब्धा कुसुमायुधेन ।
रतीशजेतुः खलु चिह्नमस्मिन्
नर्धेन्दुरास्ते नखवेषधारी ॥३६॥
राजा द्विजानामनुमासभिन्नः
पूर्णां तनूकृत्य तनूं तपोभिः ।
कुहूषु दृश्येतरतां किमेत्य
सायुज्यमाप्नोति भवन्मुखस्य ॥३७॥
कृत्वा दृशौ ते बहुवर्णचित्रे
किं कृष्णसारस्य तयोर्मृगस्य ।
अदूरजाग्रद्विदरप्रणाली-
रेखामयच्छद्विधिरर्धचन्द्रम् ॥३८॥
मुग्धः स मोहात्सुभगान्न देहात्
ददद्भवद्भ्रूरचनाय चापम् ।
भ्रूमङ्गजेयस्तव यन्मनोभूः
अनेन रूपेण यदातदाभूत् ॥३९॥
मृगस्य नेत्रद्वितयं तवास्ये
विधौ विधुत्वानुमितस्य दृश्यम् ।
तस्यैव चञ्चत्कचपाशवेषः
पुच्छ स्फुरच्चामरगुच्छ एषः ॥४०॥
आस्तामनङ्गीकरणाद्भवेन
दृश्यः स्मरो नेति पुराणवाणी ।
तवैव देहं श्रितया श्रियेति
नवस्तु वस्तु प्रतिभाति वादः ॥४१॥
त्वया जगत्युच्चितकान्तिसारे
यदिन्दुनाशीलि शिलोञ्छवृत्तिः ।
आरोपि तन्माणवकोऽपि मौलौ
स यज्वराज्येऽपि महेश्वरेण ॥४२॥
आदेहदाहं कुसुमायुधस्य
विधाय सौन्दर्यकथादरिद्रम् ।
त्वदङ्गशिल्पात्पुनरीश्वरेण
चिरेण जाने जगदन्वकम्पि ॥४३॥
मही कृतार्था यदि मानवोऽसि
जितं दिवा यद्यमरेषु कोऽपि ।
कुलं त्वयालंकृतमौरगं चेन्
नाधोऽपि कस्योपरि नागलोकः ॥४४॥
सेयं न धत्तेऽनुपपत्तिमुच्चैः
मच्चित्तवृत्तिस्त्वयि चिन्त्यमाने ।
ममौ स भद्रं चुलुके समुद्रः
त्वयात्तगाम्भीर्यमहत्त्वमुद्रः ॥४५॥
संसारसिन्धावनुबिम्बमत्र
जागर्ति जाने तव वैरसेनिः ।
बिम्बानुबिम्बौ हि विहाय धातुः
न जातु दृष्टातिसरूपसृष्टिः ॥४६॥
इयत्कृतं केन महीजगत्याम्
अहो महीयः सुकृतं जनेन ।
पादौ यमुद्दिश्य तवापि पद्या-
रजःसु पद्मस्रजमारभेते ॥४७॥
ब्रवीति मे किं किमियं न जाने
संदेहदोलामवलम्ब्य संवित् ।
कस्यापि धन्यस्य गृहातिथिस्त्व-
मलीकसंभावनयाथवालम् ॥४८॥
प्राप्त्यैव तावत्तव रूपसृष्टिं
निपीय दृष्टिर्जनुषः फलं मे ।
अपि श्रुती नामृतमाद्रियेतां
तयोः प्रसादीकुरुषे गिरं चेत् ॥४९॥
इत्थं मधूत्थं रसमुद्गिरन्ती
तदोष्ठबन्धूकधनुर्विसृष्टा ।
कर्णात्प्रसूनाशुगपञ्चबाणी
वाणीमिषेणास्य मनो विवेशः ॥५०॥
अमज्जदाकण्ठमसौ सुधासु
प्रियं प्रियाया वचनं निपीय ।
द्विषन्मुखेऽपि स्वदते स्तुतिर्या
तन्मिष्टता नेष्टमुखे त्वमेया ॥५१॥
पौरस्त्यशैलं जनतोपनीतां
गृह्णन् यथाह्नः पतिरर्घ्यपूजाम् ।
तथातिथेयीमथ संप्रतीच्छ
प्रियार्पितामासनमाससाद ॥५२॥
अयोधि तद्धैर्यमनोभवाभ्यां
तामेव भैमीमवलम्ब्य भूमीम् ।
आह स्म यत्र स्मरचापमन्तः
छिन्नं भ्रुवो तज्जयभङ्गवार्ताम् ॥५३॥
अथ स्मरज्ञामवधीर्य धैर्याद्
उचे स तद्वागुपवीणितोऽपि ।
विवेकधाराशतधौतमन्तः
सतां न कामः कलुषीकरोति ॥५४॥
हरित्पतीनां सदसः प्रतीहि
त्वदीयमेवातिथिमागतं माम् ।
वहन्तमन्तर्गुरुणादरेण
प्राणानिव स्वःप्रभुवाचिकानि ॥५५॥
विरम्यतां भूतवती सपर्या
निविश्यतामासनमुज्झितं किम् ।
या दूतता नः फलिना विधेया
सैवातिथेयी पृथुरुद्भवित्री ॥५६॥
कल्याणि ! कल्यानि तवाङ्गकानि
कच्चित्तमां चित्तमनाविलं ते ।
अलं विलम्बेन गिरं मदीयाम्
आकर्णयाकर्णतटायताक्षि ! ॥५७॥
कौमारमारभ्य गणा गुणानां
हरन्ति ते दिक्षु धृताधिपत्यान् ।
सुराधिराजं सलिलाधिपं च
हुताशनं चार्यमनन्दनं च ॥५८॥
चरच्चिरं शैशवयौवनीयद्
वैराज्यभाजि त्वयि खेदमेति ।
तेषां रुचश्चौरतरेण चित्तं
पञ्चेषुणा लुण्ठितधैर्यवित्तम् ॥५९॥
तेषामिदानीं किल केवलं सा
हृदि त्वदाशा विलसत्यजस्रम् ।
आशास्तु नासाद्य तनूरुदाराः
पूर्वादयः पूर्ववदात्मदाराः ॥६०॥
अनेन सार्धं तव यौवनेन
कोटिं परामच्छिदुरोऽध्यरोहत् ।
प्रेमापि तन्वि ! त्वयि वासवस्य
गुणोऽपि चापे सुमनः शरस्य ॥६१॥
प्राचीं प्रयाते विरहादयं ते
तापाच्च रूपाच्च शशाङ्कशङ्की ।
परापराधैर्निदधाति भानौ
रुषारुणं लोचनवृन्दमिन्द्रः ॥६२॥
त्रिनेत्रमात्रेण रुषा कृतं यत्
तदेव योऽद्यापि न संवृणोति ।
न वेद रुष्टेऽद्य सहस्रनेत्रे
गन्ता स कामः खलु कामवस्थाम् ॥६३॥
पिकस्य वाङ्मात्रकृताद्व्यलीकान्
नराधनं शीलति शूलिनोऽपि ॥६४॥
तमोमयीकृत्य दिशः परागैः
स्मरेषवः शक्रदृशां दिशन्ति ।
कुहूगिरश्चञ्चुपुटं द्विजस्य
राकारजन्यामपि सत्यवाचम् ॥६५॥
शरैः प्रसूनैस्तुदतः स्मरस्य
स्मर्तुं स किं नाशनिना करोति ।
अभेद्यमस्याहह वर्म न स्यात्
अनङ्गता चेद्गिरिशप्रसादः ॥६६॥
धृताधृतेस्तस्य भवद्वियोगात्
अन्यान्यशय्यारचनाय लूनैः ।
अप्यन्यदारिद्र्यहराः प्रवालैः
जाता दरिद्रास्तरवोऽमराणाम् ॥६७॥
रवैर्गुणास्फालभवैः स्मरस्य
स्वर्णाथकर्णौ बधिरावभूताम् ।
गुरोः श्रृणोति स्मरमोहनिद्रा-
प्रबोधदक्षाणि किमक्षराणि ॥६८॥
अनङ्गतापप्रशमाय तस्य
कदर्थ्यमाना मुहुरामृणालम् ।
मधौ मधौ नाकमदीनलिन्यो
वरं वहन्तां शिशिरेऽनुरागम् ॥६९॥
दमस्वसः ! सेयमुपैति तृष्णा
हरेर्जगत्यग्रिमलेख्यलक्ष्मीम् ।
दृशां यदब्धिस्तव नाम दृष्टि-
त्रिभागलोभार्तिमसौ बिभर्ति ॥७०॥
अग्याहिता नित्यमुपासते यां
देदीप्यमानां तनुमष्टमूर्तेः ।
आशापतिस्ते दमयन्ति ! सोऽपि
स्मरेण दासीभवितुं न्यदेशि ॥७१॥
त्वद्गोचरस्तं खलु पञ्चबाणः
करोति संताप्य तथा विनीतम् .
स्वयं यथा स्वादिततप्तभूयः
परं न संतापयिता स भूयः ॥७२॥
अदाहि यस्तेन दशार्धबाणः
पुरा पुरारेर्नयनालयेन ।
न निर्दहस्तं भवदक्षिवासी
न वैरशुद्धेरधुनाधमर्णः ॥७३॥
सोमाय कुप्यन्निव विप्रयुक्तः
स सोममाचामति हूयमानम् ।
नामापि जागर्ति हि यत्र रात्रोः
तेजस्विनस्तं कतमे सहन्ते ॥७४॥
शरैरजस्रं कुसुमायुधस्य
कदर्थ्यमानस्तरुणि ! त्वदर्थे ।
अभ्यर्चयद्भिर्विनिवेद्यमानात्
अप्येष मन्ये कुसुमाद्बिभेति ॥७५॥
स्मरेन्धने वक्षसि तेन दत्ता
संवर्तिका शैवलवल्लिचित्रा ।
चकास्ति चेतोभवपावकस्य
धूमाविला कीलपरम्परेव ॥७६॥
पुत्री सुहृद्येन सरोरुहाणां
यत्प्रेयसी चन्दनवासिता दिक् ।
धैर्यं विभुः सोऽपि तवैव हेतोः
स्मरप्रतापज्वलने जुहाव ॥७७॥
तं दह्यमानैरपि मन्मथैद्यं
हस्तैरुपास्ते मलयः प्रवालैः ।
कृच्छ्रेऽप्यसौ नोज्झति तस्य सेवां
सदा यदाशामवलम्बते यः ॥७८॥
स्मरस्य कीर्त्येव सितीकृतानि
तद्दोःप्रतापैरिव तापितानि ।
अङ्गानि धत्ते स भवद्वियोगात्
पाण्डूनि चण्डज्वरजर्जराणि ॥७९॥
यस्तन्वि ! भर्ता घुसृणेन सायं
दिशः समालम्भनकौतुकिन्याः ।
तदा स चेतः प्रजिघाय तुभ्यं
यदा गतो नैति निवृत्य पान्थः ॥८०॥
तथा न तापाय पयोनिधीनाम्
अश्वामुखोत्थः क्षुधितः शिखावान् ।
निजः पतिः संप्रति वारिपोऽपि
यथा हृदिस्थः स्मरतापदुःस्थः ॥८१॥
यत्प्रत्युत त्वन्मृदुबाहुवल्ली-
स्मृतिस्रजं गुम्फति दुर्विनीता ।
ततो विधत्तेऽधिकमेव तापं
तेन श्रिता शैत्यगुणा मृणाली ॥८२॥
न्यस्तं ततस्तेन मृणालदण्ड-
खण्डं बभासे हृदि तापभाजि ।
तच्चित्तमग्नैर्मदनस्य बाणैः
कृतं शतच्छिद्रमिव क्षणेन ॥८३॥
इति त्रिलोकीतिलकेषु तेषु
मनोभुवो विक्रमकामचारः ।
अमोघमस्त्रं भवतीमवाप्य
मदान्धतानर्गलचापलस्य ॥८४॥
सारोत्थधारेव सुधारसस्य
स्वयंवरः श्वो भविता तवेति ।
संतर्पयन्ती दमयन्ति ! तेषां
श्रुतिः श्रुती नाकजुषामयासीत् ॥८५॥
समं सपत्नीभवदुःखतीक्ष्णैः
स्वदारनासापथिकैर्मरुद्भिः ।
अनङ्गशौर्यानलतापदुःस्थैः
अथ प्रतस्थे हरितां मरुद्भिः ॥८६॥
अपास्तपाथेपसुधोपयोगैः
त्वच्चुम्बिनैव स्वमनोरथेन ।
क्षुधं च निर्वापयता तृषं च
स्वादीयसाऽध्वा गमितः सुखं तैः ॥८७॥
प्रिया मनोभूशरदावदाहे
देवीस्त्वदर्थेन निमज्जयद्भिः ।
सुरेषु सारैः क्रियतेऽधुना तैः
पादार्पणानुग्रहभूरियं भूः ॥८८॥
अलंकृतासन्नमहीविभागैः
अयं जनस्तैरमरैर्भवत्याम् ।
अवापितो जङ्गमलैखलक्ष्मीं
निक्षिप्य संदेशमयाक्षराणि ॥८९॥
एकैकमेते परिरभ्य पीन-
स्तनोपपीडं त्वयि संदिशन्ति ।
त्वं मूर्च्छतां नः स्मरभिल्लशल्यैः
मुदे विशल्यौषधिवल्लिरेधि ॥९०॥
त्वत्कान्तिमस्माभिरयं पिपासन्
मनोरथाश्वासनयैकयैव ।
निजः कटाक्षः खलु विप्रलभ्यः
कियन्ति यावद्भण वासराणि ॥९१॥
निजे स-जास्मासु भुजै भजन्त्या-
वादित्यवर्गे परिवेषवेषम् ।
प्रसीद निर्वापय तापमङ्गैः
अनङ्गलीलालहरीतुषारैः ॥९२॥
दयस्व किं घातयसि त्वमस्मान्
अनङ्गचण्डालशरैरदृश्यैः ।
भिन्ना वरं तीक्ष्णकटाक्षबाणैः
प्रेमस्तव प्रेमरसात्पवित्रैः ॥९३॥
त्वदर्थिनः सन्तु परस्सहस्राः
प्राणास्तु नस्त्वच्चरणप्रसादः ।
विशङ्कसे कैतवनर्तितं चेत्
अन्तश्चरः पञ्चशरः प्रमाणम् ॥९४॥
अस्माकमध्यासितमेतदन्तः
तावद्भवत्या हृदयं चिराय ।
बहिस्त्वयालंक्रियतामिदानीम्
उरो मुरं विद्विषतः श्रियेव ॥९५॥
दयोदयश्चेतसि चेत्तवाभूत्
अलंकुरु द्यां विफलो विलम्बः ।
भुवः स्वरादेशमथाचरामो
भूमौ धृतिं यासि यदि स्वभूमौ ॥९६॥
धिनोति नास्माञ्जलजेन पूजा
त्वयान्वहं तन्वि ! वितन्यमाना ।
तव प्रसादोपनते तु मौलौ
पूजास्तु नस्त्वत्पदपङ्कजाभ्याम् ॥९७॥
स्वर्णैर्वितीर्णैः करवाम वाम-
नेत्रे ! भवत्या किमुपासनासु ।
अङ्ग ! त्वदङ्गानि निपीतपीत-
दर्पाणि पाणिः खलु याचते नः ॥९८॥
वयं कलादा इव दुर्विदग्धं
त्वद्गौरिमस्पर्धि दहेम हेम ।
प्रसूननाराचशरासनेन
सहैकवंशप्रभवभ्रु ! बभ्रु ॥९९॥
सुधासरःसु त्वदनङ्गतापः
शान्तो न नः किं पुरप्यसरःसु ।
निर्वाति तु त्वन्ममताक्षरेण
सूनाशुगेषोर्मधुसीकरेण ॥१००॥
खण्डः किमु त्वद्गिर एव खण्डः
किं शर्करा तत्पथशर्करैव ।
कृशाङ्गि ! तद्भङ्गिरसोत्थकच्छ-
तृणं नु दिक्षु प्रथितं तदिक्षुः ॥१०१॥
ददाम किं ते सुधयाऽधरेण
त्वदास्य एव स्वयमास्यते हि ।
चन्द्रं विजित्य स्वयमेव भावि
त्वदाननं तन्मखभागभोजि ॥१०२॥
प्रिये ! वृणीष्वामरभावमश्मत्
इति त्रपाकृद्वचनं न किं नः ।
त्वत्पादपद्मे शरणं प्रविश्य
स्वयं वयं येन जिजीविषामः ॥१०३॥
नास्माकमस्मान्मदनापमृत्योः
स्त्राणाय पीयूषरसायनानि ।
प्रसीद अस्मादधिकं निजं तु
प्रयच्छ पातुं रदनच्छदं नः ॥१०४॥
प्लुष्टः स्वैश्चापरोपैः सह स हि मकरेणात्मभूः केतुनाऽभू-
द्धत्तां नस्त्वत्प्रसादादथ मनसिजतां मानसो नन्दनः सन् ।
भ्रूभ्यां ते तन्वि ! धन्वी भवतु तव सितैर्जैत्रभल्लः स्मितैः स्ता
दस्तु त्वन्नेत्रचञ्चत्तरशफरयुगाधीनमीनध्वजाङ्कः ॥१०५॥
स्वप्नेन प्रापितायाः प्रतिरजनि तव श्रीषु मग्नः कटाक्षः
श्रोत्रे गीतामृताब्धौ त्वगपि ननु तनूमञ्जरीसौकुमार्ये ।
नासा श्वासाधिवासेऽधरमधुनि रसज्ञा चरित्रेषु चित्तं
तन्नस्तन्वङ्गि ! कैश्चिन्न करणहरिणैर्वागुरा लङ्घितासि ॥१०६॥
इति धृतसुरसार्थवाचिकस्रङ्गि
जरसनातलपत्रहारकस्य ।
सफलय मम दूततां वृणीष्व
स्वयमवधार्य दिगीशमेकमेषु ॥१०७॥
आनन्दयेन्द्रमथ मन्मथमग्नमग्निं
केलीभिरुद्धर तनूदरि ! नूतनाभिः ।
आसादयोदितदयं शमने मनो वा
नो वा यदीत्थमथ तद्वरुणं वृणीथाः ॥१०८॥
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
तस्यागादयमष्टमः कविकुलादृष्टाध्वपान्थे महा-
काव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः ॥१०९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2013-01-19T05:21:16.2900000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

test retest coefficient

  • चाचणी पुनर्चाचणी गुणक 
RANDOM WORD

Did you know?

विवाहासाठीच्या मुहूर्तांची नांवे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.