TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

नैषधीयचरितम् - विंशतिः सर्गः

महाकवि श्रीहर्षरचितं नैषधीयचरितम् हा ग्रंथ म्हणजे संस्कृत भाषेतील अतिउत्तम रचना होय.


विंशतिः सर्गः
सौधाद्रिकुट्टिमानेकधातुकाधित्यकातटम् ।
स प्राप रथपाथोभृद्वातजातजवो दिवः ॥१॥
ततः प्रत्युदगाद्भैमी कान्तमायान्तमन्तिकम् ।
प्रतीचीसिन्धुवीचीव दिनोंकारे सुधाकरम् ॥२॥
स दूरमादरं तस्या वदने मदनैकदृक् ।
दृष्टमन्दाकिनीहेमारविन्दश्रीरविन्दत ॥३॥
तेन स्वर्देशसंदेशमर्षितं सा करोदरे ।
बभ्राजे बिभ्रती पद्मं पद्मेवोन्निद्रपद्मदृक् ॥४॥
प्रियेणाल्पमपि प्रत्तं बहु मेनेतरामसौ ।
एकलक्षतया दध्यौ यत्तमेकवराटकम् ॥५॥
प्रेयसावादि सा तन्वि त्वदालिङ्गनविघ्नकृत् ।
समाप्यतां विधिः शेषः क्लेशश्चेतसि चेन्न ते ॥६॥
क्वैतावान्नर्ममर्माविद्विद्यते विधिरद्य ते ।
इति तं मनसा रोषादवोचद्वचसा न सा ॥७॥
क्षणविच्छेदकादेव विधेर्मुग्धे विरज्यसि ।
विच्छेत्ता न चिरं त्वेति हृदाह स्म तदा कलिः ॥८॥
सावज्ञेवाथ सा राज्ञः सखीं पद्ममुखीमगात् ।
लक्ष्मीः कुमुदकेदारादारादम्भोजिनीमिव ॥९॥
ममासावपि मा संभूत्कलिद्वापरवत्परः ।
इतीव नित्यसत्रेतां स त्रेतां पर्यतूतुषत् ॥१०॥
क्रियां प्राह्णेतनीं कृत्वा निषेधन्पाणिना सखीम् ।
कराभ्यां पृष्ठगस्तस्या न्यमिमीलदसौ दृशौ ॥११॥
दमयन्त्या वयस्याभिः सहास्याभिः समीक्षितः ।
प्रसृतिभ्यामिवायामं मापयन्प्रेयसीदृशोः ॥१२॥
तर्कितालि त्वमित्यर्धवाणीका पाणिमोचनात् ।
ज्ञातस्पर्शान्तरा मौनमानशे मानसेविनी ॥१३॥
सावादि सुतनुस्तेन कोपस्ते नायमौचिती ।
त्वां प्रापं यत्प्रसादेन प्रिये तन्नाद्रिये तपः ॥१४॥
निशि दास्यं गतोऽपि त्वां स्नात्वा यन्नाभ्यवीवदम् ।
तं प्रवृत्तासि मन्तुं चेन्मन्तुं तद्वद वन्द्यसे ॥१५॥
इत्येतस्याः पदासत्त्यै पत्यैष प्रेरितौ करौ ।
रुद्ध्वा सकोपं सातङ्कं तं कटाक्षैरमूमुहत् ॥१६॥
अवोचत ततस्तन्वीं निषधानामधीश्वरः ।
तदपाङ्गचलत्तारझलत्कारवशीकृतः ॥१७॥
कटाक्षकपटारब्धदूरलङ्घनरंहसा ।
दृशा भीत्या निवृत्तं ते कर्णकूपं निरूप्य किम् ॥१८॥
सरोषापि सरोजाक्षि त्वमुदेषि मुदे मम ।
तप्तापि शतपत्रस्य सौरभायैव सौरभा ॥१९॥
छेत्तुमिन्दौ भवद्वक्त्रबिम्बविभ्रमविभ्रमम् ।
शङ्के शशाङ्कमानङ्के भिन्नभिन्नविधिर्विधिः ॥२०॥
ताम्रपर्णीतटोत्पन्नैर्मौक्तिकैरिन्दुकुक्षिजैः ।
बद्धस्पर्धतरा वर्णाः प्रसन्नाः स्वादवस्तव ॥२१॥
त्वद्गिरः क्षीरपाथोधेः सुधयैव सहोत्थिताः ।
अद्ययावदहो धावद्दुग्धलेपलवस्मिताः ॥२२॥
पूर्वपर्वतमाश्लिष्टचन्द्रिकश्चन्द्रमा इव ।
अलंचक्रे स पर्यङ्कमङ्कसंक्रमिताप्रियः ॥२३॥
प्रावृडारम्भणाम्भोदः स्निग्धां द्यामिव स प्रियाम् ।
परिरभ्य चिरायास विश्लेषायासमुक्तये ॥२४॥
चुचुम्बास्यमसौ तस्या रसमग्नः श्रितस्मितम् ।
नभोमणिरिवाम्भोजं मधुमध्यानुबिम्बितः ॥२५॥
अथाहूय कलां नाम पाणिना स प्रियासखीम् ।
पुरस्ताद्वेशितामूचे कर्तुं नर्मणि साक्षिणीम् ॥२६॥
कस्मादस्माकमब्जास्य वयस्या दयते न ते ।
आसक्ता भवतीष्वन्यं मन्ये न बहु मन्यते ॥२७॥
अन्वग्राहि मया प्रेयान्निशि स्वोपनयादिति ।
न विप्रलभते तावदालीरियमलीकवाक् ॥२८॥
आह स्मैषा नलादन्यं न जुषे मनसेति यत् ।
यौवनानुमितेनास्यास्तन्मृषाभून्मनोभुवा ॥२९॥
आस्यसौन्दर्यमेतस्याः शृणुमो यदि भाषसे ।
तद्धि लज्जानमन्मौलेः परोक्षमधुनापि नः ॥३०॥
पूर्णयैव द्विलोचन्या सैषालीरवलोकते ।
द्राग्दृगन्ताणुना मां तु मन्तुमन्तमिवेक्षते ॥३१॥
न लोकते यथेदानीं मामियं तेन कल्पये ।
योऽहं दूत्येऽनया दृष्टः सोऽपि व्यस्मारिषीडृशा ॥३२॥
रागं दर्शयते सैषा वयस्याः सूनृतामृतैः ।
मम त्वमिति वक्तुं मां मौनिनी मानिनी पुनः ॥३३॥
कां नामन्त्रयते नाम नामग्राहमियं सखीम् ।
कले नलेति नास्माकीं स्पृशत्याह्वां न जिह्वया ॥३४॥
अस्याः पीनस्तनव्याप्ते हृदयेऽस्मासु निर्दये ।
अवकाशलवोऽप्यस्ति नात्र कुत्र बिभर्तु नः ॥३५॥
अधिगत्येदृगेतस्या हृदयं मृदुतामुचोः ।
प्रतीम एव वैमुख्यं कुचयोर्युक्तवृत्तयोः ॥३६॥
इति मुद्रितकण्ठेऽस्मिन्सोल्लुण्ठमभिधाय ताम् ।
दमयन्तीमुखाधीतस्मितयाऽसौ तया जगे ॥३७॥
भावितेयं त्वया साधु नवरागा खलु त्वयि ।
चिरंतनानुरागार्हं वर्तते नः सखीः प्रति ॥३८॥
स्मरशास्त्रविदा सेयं नवोढा नस्त्वया सखी ।
कथं संभुज्यते बाला कथम्स्मासु भाषताम् ॥३९॥
नासत्यवदनं देव त्वां गायन्ति जगन्ति यम् ।
प्रिया तस्य सरूपा स्यादन्यथालपना न ते ॥४०॥
मनोभूरस्ति चित्तेऽस्याः किंतु देव त्वमेव सः ।
त्वदवस्थितिभूर्यस्मान्मनः सख्या दिवानिशम् ॥४१॥
सतस्तेऽथ सखीचित्ते प्रतिच्छाया स मन्मथह् ।
त्वयास्य समरूपत्वमतनोरन्यथा कथम् ॥४२॥
कः स्मरः कस्त्वमत्रेति संदेहे शोभयोभयोः ।
त्वय्येवार्थितया सेयं धत्ते चित्तेऽथवा युवाम् ॥४३॥
त्वयि न्यस्तस्य चित्तस्य दुराकर्षत्वदर्शनात् ।
शाङ्कया पङ्कजाक्षी त्वां दृगंशेन स्पृशत्यसौ ॥४४॥
विलोकनात्प्रभृत्यस्या लग्न एवासि चक्षुषोः ।
स्वेनालोकय शङ्का चेत्प्रत्ययः परवाचि कः ॥४५॥
परीरम्भेऽनयारभ्य कुचकुङ्कुमसंक्रमम् ।
त्वयि मे हृदयस्यैवं राग इत्युदितैव वाक् ॥४६॥
मनसायं भवन्नामकामसूक्तजपव्रती ।
अक्षसूत्रं सखीकण्ठश्चुम्बत्येकावलिच्छलात् ॥४७॥
अध्यासिते वयस्याया भवता महता हृदि ।
स्तनावन्तरसंमान्तौ निष्क्रान्तौ ब्रूमहे बहिः ॥४८॥
कुचौ दोषोज्झितावस्याः पीडितौ व्रणितौ त्वया ।
कथं दर्शयतामास्यं बृहन्तावावृतौ ह्रिया ॥४९॥
इत्यसौ कलया सूक्तैः सिक्तः पीयूषवर्षिभिः ।
ईदृगेवेति पप्रच्छ प्रियामुन्नमिताननाम् ॥५०॥
बभौ च प्रेयसीवक्त्रं पत्युरुन्नमयन्करः ।
चिरेण लब्धसंधानमरविन्दमिवेन्दुना ॥५१॥
ह्रीणा च स्मयमाना च नमयन्ती पुनर्मुखम् ।
दमयन्ती मुदे पत्युरुच्चैरप्यभवत्तदा ॥५२॥
भूयोऽपि भूपतिस्तस्याः सखीमाह स्म सस्मितम् ।
परिहासविलासाय स्पृहयालुः सहप्रियः ॥५३॥
क्षन्तुं मन्तुं दिनस्यास्य वयस्येयं व्यवस्यतात् ।
निशीव निशिधात्वर्थं यदाचरति नात्र नः ॥५४॥
दिनेनास्या नुखस्येन्दुः सखा यदि तिरस्कृतः ।
तत्कृता शतपत्त्राणां तन्मित्त्राणामपि श्रियः ॥५५॥
लज्जितानि जितान्येव मयि क्रीडितयाऽनया ।
प्रत्यावृत्तानि तत्तानि पृच्छ संप्रति कं प्रति ॥५६॥
निशि दष्टाधरायापि सैषा मह्यं न रुष्यतु ।
क्व फलं दशते बिम्बीलता कीराय कुप्यति ॥५७॥
सृणीपदसुचिह्ना श्रीश्चोरिता कुम्भिकुम्भयोः ।
पश्यैतस्याः कुचाभ्यां तन्नृपस्तौ पीडयानि न ॥५८॥
अधरामृतपानेन ममास्यमपराध्यतु ।
मूर्ध्ना किमपराद्धं यः पादौ नाप्नोति चुम्बितुम् ॥५९॥
अपराद्धं भवद्वाणीश्राविणा पृच्छ किं मया ।
वीणाह परुषं यन्मां कलकण्ठी च निष्ठुरम् ॥६०॥
सेयमालिजने स्वस्य त्वयि विश्वस्य भाषताम् ।
ममताऽनुमताऽस्मासु पुनः प्रस्मर्यते कुतः ॥६१॥
अथोपवदने भैम्याः स्वकर्णोपनयच्छलात् ।
संनिधाप्य श्रुतौ तस्या निजास्यं सा जगाद ताम् ॥६२॥
अहो मयि रहोवृत्तं धूर्ते किमपि नाभ्यधाः ।
आस्स्व सभ्यमिमं तत्ते भूपमेवाभिधापये ॥६३॥
स्मरशास्त्रमधीयाना शिक्षितासि मयैव यम् ।
अगोऽपि सोऽपि कृत्वा किं दाम्पत्यव्यत्ययस्त्वया ॥६४॥
मौनिन्यामेव सा तस्यां तदुक्तीरिव शृण्वती ।
वादं वादं मुहुश्चक्रे हुंहुमित्यन्तरान्तरा ॥६५॥
अथासावभिसृत्यास्था रतिप्रागल्भ्यशंसिनी ।
सख्या लीलाम्बुजाघातमनुभूयालपन्नृपम् ॥६६॥
दृष्टं दृष्टं महाराज त्वदर्थाभ्यर्थनकुधा ।
यत्ताडयति मामेवं यद्वा तर्जयति भ्रुवा ॥६७॥
वदत्यचिह्नि चिह्नेन त्वया केनैष नैषधः ।
शङ्के शक्रः स्वयं कृत्वा मायामायातवानियम् ॥६८॥
स्वर्णदीस्वर्णपद्मिन्याः पद्मदानं निदानताम् ।
नयतीयं त्वदिन्द्रत्वे दिवश्चागमनं च ते ॥६९॥
भाषते नैषधच्छायामायामायि मया हरेः ।
आह चाहमहल्यायां तस्याकर्णितदुर्नया ॥७०॥
संभावयति वैदर्भी दर्भाग्राभमतिस्तव ।
जम्भारित्वं कराम्भोजाद्दम्भोलिपरिरम्भिणः ॥७१॥
अनन्यसाक्षिकाः साक्षात्तदाख्याय रहःक्रियाः ।
शङ्कातङ्कं तुदैतस्या यदि त्वं तत्त्वनैषधः ॥७२॥
इति तत्सुप्रयुक्तत्वनिह्नुतीकृतकैतवाम् ।
वाचमाकर्ण्य तद्भावे संशयालुः शशंस सः ॥७३॥
स्मरसि छद्मनिद्रालुर्मया नाभौ शयार्पणात् ।
यदानन्दोल्लसल्लोमा पद्मनाभीभविष्यसि ॥७४॥
आनासि ह्रीभयव्यग्रा यन्नवे मन्मथोत्सवे ।
सामिभुक्तैव मुक्तासि मृद्वि खेदभयान्मया ॥७५॥
स्मर जित्वाजिमेतस्त्वां करे मत्पदधाविनि ।
अङ्गुलीयुगयोगेन यदाश्लिक्षं जने घने ॥७६॥
वेत्थ मानेपि मत्त्यागदूनां स्वं मां च यन्मिथः ।
मद्दृष्टालिख्य पश्यन्ती व्यबाधा रेखयाऽन्तरा ॥७७॥
प्रस्मृतं न त्वया तावद्यन्मोहनविमोहितः ।
अतृप्तोऽधरपानेषु रसनामपिबं तव ॥७८॥
त्वत्कुचार्द्रनखाङ्कस्य मुद्रामालिङ्गनोत्थिताम् ।
स्मरेः स्वहृदि यत्स्मेरसखीः शिल्पं तवाब्रवम् ॥७९॥
त्वयान्याः क्रीडयन्मध्येमधुगोष्ठि रुषेक्षितः ।
वेत्सि तासां पुरो मूर्ध्ना त्वत्पादे यत्किलास्खलम् ॥८०॥
वेत्थ मय्यागते प्रोष्य यत्त्वां पश्यति हार्दिनि ।
अचुम्बीरालिमालिङ्ग्य तस्यां केलिमुदा किल ॥८१॥
जागर्ति तत्र संस्कारः स्वमुखाद्भवदानने ।
विक्षिप्यायाचिषं यत्ता न्यायात्ताम्बूलफालिकाः ॥८२॥
चित्ते तदस्ति कच्चित्ते नखजं यत्क्रुधा क्षतम् ।
प्राग्भावाधिगमागस्स्थे त्वया शम्बाकृतं क्षतम् ॥८३॥
स्वदिग्विनिमयेनैव निशि पार्श्वविवर्तिनोः ।
स्वप्नेष्वप्यस्तवैमुख्ये सख्ये सौख्यं स्मरावयोः ॥८४॥
क्षणं प्राप्य सदस्येव नृणां विमनितेक्षणम् ।
दर्शिताधरमद्दंशा ध्याय यन्मामतर्जयः ॥८५॥
तथावलोक्य लीलाब्जनालभ्रमणविभ्रमात् ।
करौ योजयताध्ये(धी)हि यन्मयासि प्रसादिता ॥८६॥
ताम्बूलदानमन्यस्तकरजं करपङ्कजे ।
मम न स्मरसि प्रायस्तव नैव स्मरामि तत् ॥८७॥
तदध्ये (धी) हि मृषोद्यं मां हित्वा यत्त्वं गता सखीः ।
तत्रापि मे गतस्याग्रे लीलयैवाच्छिनस्तृणम् ॥८८॥
स्मरसि प्रेय्सि प्रायो यद्द्वितीयरतासहा ।
शुचिरात्रीत्युपालब्धा त्वं मयापिकनादिनी ॥८९॥
भुञ्जानस्य नवं निम्बं परिवेविषती मधौ ।
सपत्नीष्वपि मे रागं संभाव्य स्वरुषः स्मरेः ॥९०॥
स्मर शार्करमास्वाद्य त्वया राद्धमिति स्तुवन् ।
स्वनिन्दारोषरक्तात्तु यदभैषं तवाधरात् ॥९१॥
मुखादारभ्य नाभ्यन्तं चुम्बं चुम्बमतृप्तवान् ।
न प्रापं चुम्बितुं यत्ते धन्या तच्चुम्बतु स्मृतिः ॥९२॥
कमपि स्मरकेलिं तं स्मर यत्र भवन्निति ।
मया विहितसंबुद्धिर्वीडिता स्मितवत्यसि ॥९३॥
नीलदाचिबुकं यत्र मदाक्तेन श्रमाम्बुना ।
स्मर हारमणौ दृष्टं स्वमास्यं तत्क्षणोचितम् ॥९४॥
स्मर तन्नखमत्रोरौ कस्तेधा(दा)दिति ते मृषा ।
ह्रीदैवतमलुम्पं यद्व्रतं रतपरोक्षणम् ॥९५॥
वनकेलौ स्मराश्वत्थदलं भूपतितं प्रति ।
देहि मह्यमुदस्येति मद्गिरा व्रीडितासि यत् ॥९६॥
इति तस्या रहस्यानि प्रिये शंसति सान्तरा ।
पाणिभ्यां पिदधे सख्याः श्रवसी ह्रीवशीकृता ॥९७॥
कर्णौ पीडयती सख्या वीक्ष्य नेत्रासितोत्पले ।
अप्यपीडयतां भैमीकरकोकनदे तु (नु) तौ ॥९८॥
तत्प्रविष्टं सखीकर्णौ पत्युरालपितं ह्रिया ।
पिदधाविव वैदर्भी स्वरहस्याभिसंधिना ॥९९॥
तमालोक्य प्रियाकेलिं नले सोत्प्रासहासिनि ।
आरात्तत्त्वमबुद्ध्वापि सख्यः सिष्मियिरेऽपराः ॥१००॥
दम्पत्योरुपरि प्रीत्या ता धराप्सरसस्तयोः ।
ववृषुः स्मितपुष्पाणि सुरभीणि मुखानिलैः ॥१०१॥
तदास्यहसिताज्जातं स्मितमासामभासत ।
आलोकादिव शीतांशोः कुमुदश्रेणिजृम्भणम् ॥१०२॥
प्रत्यभिज्ञाय विज्ञाथ स्वरं हासविकस्वरम् ।
सख्यास्तासु स्वपक्षायाः कला जातबलाऽजनि ॥१०३॥
साहूयोच्चैरथोचे तामेहि स्वर्गेण वञ्चिते ।
पिब वाणी सुधावेणीर्नृपचन्द्रस्य सुन्दरि ॥१०४॥
साशृणोत्तस्य वाग्भागमनत्यासत्तिमत्यपि ।
कल्पग्रामाल्पनिर्घोषं बदरीव कृशोदरी ॥१०५॥
अथ स्वपृष्ठनिष्ठायाः शृण्वत्या निषधाभिधाः ।
नलमौलिमणौ तस्या भावमाकलयत्कला ॥१०६॥
प्रतिबिम्बेक्षितैः सख्या मुखाकूतैः कृतानुमा ।
तद्द्रीडाद्यनुकुर्वाणा शृण्वतीवान्वमायि सा ॥१०७॥
कारं कारं तथाकारमूचे साऽशृणवंतमाम् ।
मिथ्या वेत्थ गिरश्चैतद्व्यर्थाः स्युर्मम देवताः ॥१०८॥
मत्कर्णभूषणानां तु राजन्निबिडपीडनात् ।
व्यथिष्यमाणपाणिस्ते निषेद्धुमुचिता प्रिया ॥१०९॥
इति सा मोचयांचक्रे कर्णौ सख्याः करग्रहात् ।
पत्युराश्रवतां यान्त्यामुधायासनिषेधिनः ॥११०॥
श्रुतिसंरोधजध्वानसंततिच्छेदतालताम् ।
जगाम झटिति त्यागस्वनस्तत्कर्णयोस्ततः ॥१११॥
सापसृत्य कियद्दूरं मुमुदे सिष्मिये ततः ।
इदं च तां सखीमेत्य ययाचे काकुभिः कला ॥११२॥
अभिधास्ये रहस्यं ते यदश्रावि मयानयोः ।
वर्णयाकर्णितं मह्यमेह्यालि विनिमीयताम् ॥११३॥
वयस्याभ्यर्थनेनास्याः प्राक्कूटश्रूतिनाटने ।
विस्मितौ कुरुतः स्मैतौ दम्पती कम्पितं शिरः ॥११४॥
तथालिमालपन्तीं तामभ्यधान्निषधाधिपः ।
आस्स्व तद्वञ्चितौ स्वश्चेन्मिथ्याशपथसाहसात् ॥११५॥
प्रत्यालापीत्कलापीमं कलङ्कः शङ्कितः कुतः ।
प्रियापरिजनोक्तस्य त्वयैवाद्य मृषोद्यता ॥११६॥
सत्यं खलु तदाश्रौषां परं गुमुगुमारवम् ।
शृणोमीत्येव चावोचं नतु त्वद्वाचमित्यपि ॥११७॥
आमन्त्र्य तेन देव त्वां तद्वैयर्थ्यं समर्थये ।
शपथः कर्कशोदर्कः सत्यं सत्योपि दैवतः ॥११८॥
असंभोगकथारम्भैर्वञ्चयेथे कथं नु माम् ।
हन्त सेयमनर्हन्ती यन्न विप्रलभे युवाम् ॥११९॥
कर्णे कर्णे ततः सख्यौ श्रुतमाचख्यतुर्मिथः ।
मुहुर्विस्मयमाने च स्मयमाने च ते बहु ॥१२०॥
अथाख्यायि कलासख्या कुप्य मे दमयन्ति मा ।
कर्णाद्द्वितीयतोऽप्यस्याः संगोप्यैव यदब्रवम् ॥१२१॥
प्रियः प्रियामथाचष्ट दृष्टं कपटपाटवम् ।
वयस्ययोरिदं तेऽस्मान्मा सखीष्वेव विश्वसीः ॥१२२॥
आलापि कलयापीयं पतिर्नालपति क्वचित् ।
रहस्येऽसौ रहस्यं तत्सभ्ये विस्रभ्यमीदृशि ॥१२३॥
इति व्युत्तिष्ठमानायां तस्यामूचे नलः प्रियाम् ।
भण भैमि बहिः कुर्वे दुर्विनीते गृहादमुम् ॥१२४॥
शिरःकम्पानुमत्याथ सुदत्या प्रीणितः प्रियः ।
चुलुकं तुच्छमुत्सर्प्य सख्योः सलिलमक्षिपत् ॥१२५॥
तच्चित्रदत्ताचित्ताभ्यामुच्चैः सिचयसेचनम् ।
ताभ्यामलिम्भि दूरेऽपि नलेच्छापूरिभिर्जलैः ॥१२६॥
वरेण वरुणस्यायं सुलभैरम्भसां भरैः ।
एतयोः स्तिमितीचक्रे हृदयं विस्मयैरपि ॥१२७॥
तेनापि नापसर्पन्त्यौ दमयन्तीमयं ततः ।
हर्षेणादर्शयत्पश्य नन्विमे तन्वि मे पुरः ॥१२८॥
क्लिन्नीकृत्याम्भसा वस्त्रं जैनप्रव्रजितीकृते ।
सख्यौ सक्षौमभावेऽपि निर्विघ्नस्तनदर्शने ॥१२९॥
अम्बुनः शम्बरत्वेन मायैवाविरभूदियम् ।
यत्पटावृतमप्यङ्गमनयोः कथयत्यदः ॥१३०॥
वाससो वाम्बरत्वेन दृश्यतेयमुपागमत् ।
चारुहारमणिश्रेणितारवीक्षणलक्षणा ॥१३१॥
ते निरीक्ष्य निजावस्थां ह्रीणे निर्ययतुस्ततः ।
तयोर्वीक्षारसात्सख्यः सर्वां निश्चक्रमुः क्रमात् ॥१३२॥
ता बहिर्भूय वैदर्भीमूचुर्नीतावधीतिनि ।
उपेक्ष्ये ते पुनः सख्यौ मर्मज्ञे नाधुनाप्यमू ॥१३३॥
उच्चैरूचेऽथ ता राजा सखीयमिदमाह वः ।
श्रुतं मर्म ममैताभ्यां दृष्टं तत्तु मयानयोः ॥१३४॥
मद्विरोधितयोर्वाचि न श्रद्धातव्यमेतयोः ।
अभ्यषिञ्चदिमे मायामिथ्यासिंहासने विधिः ॥१३५॥
घौतेऽपि कीर्तिधाराभिश्चरिते चारुणि द्विषः ।
मृषामषीलवैर्लक्ष्म लेखितुं के न शिल्पिनः ॥१३६॥
ते सख्यावाचचक्षाते न किंचिद् ब्रूवहे बहु ।
वक्ष्यावस्तत्परं यस्मै सर्वा निर्वासिता वयम् ॥१३७॥
स्थापत्यैर्न स्म वित्तस्ते वर्षीयस्त्वचलत्करैः ।
कृतामपि तथावाचि करकम्पेन वारणाम् ॥१३८॥
अपयातमितो धृष्टे धिग्वामश्लीलशीलताम् ।
इत्युक्ते चोक्तवन्तश्च व्यतिद्राते स्म ते भिया ॥१३९॥
आह स्म तद्गिरा ह्रीणां प्रियां नतमुखीं नलः ।
ईदृग्भण्डसखी कापि निस्त्रपा न मनागपि ॥१४०॥
अहो नापत्रपाकं ते जातरूपमिदं मुखम् ।
नातितापार्जनेऽपि स्यादितो दुर्वर्णनिर्गमः ॥१४१॥
तामथैष हृदि न्यस्य ददौ तल्पतले तनुम् ।
निमिष्य च तदीयाङ्गसौकुमार्यमसिस्वदत् ॥१४२॥
न्यस्य तस्याः कुचद्वन्द्वे मध्येनीवि निवेश्य च ।
स पाणेः सफलं चक्रे तत्करग्रहणश्रमम् ॥१४३॥
स्थापितामुपरि स्वस्य तां हृदा स मुदा वहन् ।
तदुद्वहनकर्तृत्वमाचष्ट स्पष्टमात्मनः ॥१४४॥
स्विद्यत्कराङ्गुलीलुप्तकस्तूरीलेपमुद्रया ।
पूत्कार्यपीडनौ चक्रे स सखीषु प्रियास्तनौ ॥१४५॥
तत्कुचे नखमारोप्य चमत्कुर्वंस्तयेक्षितः ।
सोऽवादीत्तां हृदिस्थं ते किं मामभिनदेष न ॥१४६॥
अहो अनौचितीयं ते हृदि शुद्धेऽप्यशुद्धवत् ।
अङ्कः खलैरिवाकल्पि नखैस्तीक्ष्णमुखैर्मम ॥१४७॥
यच्चुम्बति नितम्बोरु यदालिङ्गति च स्तनौ ।
भुङ्क्ते गुणमयं तत्ते वासः शुभदशोचितम् ॥१४८॥
लीनचीनांशुकं स्वेदि दरालोक्यं विलोकयन् ।
तन्नितम्बं स निश्वस्य निनिन्द दिनदीर्घताम् ॥१४९॥
देशमेव ददंशासौ प्रियादन्तच्छदान्तिकम् ।
चकाराधरपानस्य तत्रैवालीकचापलम् ॥१५०॥
न क्षमे चपलापाङ्गि सोढुं स्मरशरव्यथाम् ।
तत्प्रसीद प्रसीदेति स तां प्रीतामकोपयत् ॥१५१॥
नेत्रे निषधनाथस्य प्रियाया वदनाम्बुजम् ।
ततः स्तनतटौ ताभ्यां जघनं घनमीयतुः ॥१५२॥
इत्यधीरतया तस्य हठवृत्तिविशङ्किनी ।
झटित्युत्थाय सोत्कण्ठमसावन्वसरत्सखीः ॥१५३॥
न्यवारीव यथाशक्ति स्पन्दं मन्दं वितन्वता ।
भैमीकुचनितम्बेन नलसंभोगलोभिना ॥१५४॥
अपि श्रोणिभरस्वैरां धर्तुं तामशकन्न सः ।
तदङ्गसङ्गजस्तम्भो गजस्तम्भोरुदोरपि ॥१५५॥
आलिङ्ग्यालिङ्ग्य तन्वङ्गि मामित्यर्धगिरं प्रियम् ।
स्मित्वा निवृत्य पश्यन्ती द्वारपारमगादसौ ॥१५६॥
प्रियस्याप्रियमारभ्य तमन्तर्दूनयाऽनया ।
शेके शालीनयालीभ्यो न गन्तुं न निवर्तितुम् ॥१५७॥
अचकथदथ बन्दिसुन्दरी द्वाःसविधमुपेत्य नलाय मध्यमह्नः ।
जय नृप दिनयौवनोष्मतप्ताप्लवनजलानि पिपासति क्षितिस्ते ॥१५८॥
उपहृतमधिगङ्गमम्बु कम्बुच्छवि तव वाञ्छति केशभङ्गिसङ्गात् ।
अनुभवितुमनन्तरं तरङ्गासमशमनस्वसृमिश्रभावशोभाम् ॥१५९॥
तपति जगत एव मूर्ध्नि भूत्वा रविरधुना त्वमिवाद्भुतप्रतापः ।
पुरमथनमुपास्य पश्य पुण्यैरधरितमेनमनन्तरं त्वदीयैः ॥१६०॥
आनन्दं हठमाहरन्निव हरध्यानार्चनादीक्षण-
स्यासत्तावपि भूपतिः प्रियतमाविच्छेदखेदालसः ।
पक्षद्वारदिशं प्रति प्रति मुहुर्द्राङ्गिर्गतप्रेयसी-
प्रत्यासत्तिधिया दिशन्दृशमसौ निर्गन्तुमुत्तस्थिवान् ॥१६१॥
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
अन्याक्षुण्णरसप्रमेयभणितौ विंशस्तदीये महा-
काव्येऽयं व्यगलन्नलस्य चरिते सर्गो निसर्गोज्ज्वलः ॥१६२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2013-01-19T05:30:28.2100000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

दाईते

  • न. खंडणी . दाईते घेत होते . - शिचप्र ३९ . [ सं . दाय ] 
  • न. खंडणी . दाईते घेत होते . - शिचप्र ३९ . [ सं . दाय ] 
RANDOM WORD

Did you know?

नजर लागते किंवा दृष्ट लागते म्हणजे काय? त्यावर उपाय काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.