संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ३२

विष्णुस्मृतिः - अध्यायः ३२

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


राजर्त्विक्श्रोत्रियाधर्मप्रतिषेध्युपाध्यायपितृव्यमातामहमातुलश्वशुरज्येष्ठभ्रातृसंबन्धिनश्चाचार्यवत् ॥३२.१॥

पत्न्य एतेषां सवर्णाः ॥३२.२॥

मातृष्वसा पितृष्वसा ज्येष्ठा स्वसा च ॥३२.३॥

श्वशुरपितृव्यमातुलर्त्विजां कनीयसां प्रत्युत्थानं एवाभिवादनं ॥३२.४॥

हीनवर्णानां गुरुपत्नीनां दूरादभिवादनं न पादोपस्पर्शनं ॥३२.५॥

गुरुपत्नीनां गोत्रोत्सादनाञ्जनकेशसंयमनपादप्रक्षालनादीनि न कुर्यात् ॥३२.६॥

असंस्तुतापि परपत्नी भगिनीति वाच्या पुत्रीति मातेति वा ॥३२.७॥

न च गुरूणां त्वं इति ब्रूयात् ॥३२.८॥

तदतिक्रमे निराहारो दिवसान्ते तं प्रसाद्याश्नीयात् ॥३२.९॥

न च गुरुणा सह विगृह्य कथाः कुर्यात् ॥३२.१०॥

न चैवास्य परीवादं ॥३२.११॥

न चानभिप्रेतं ॥३२.१२॥

गुरुपत्नी तु युवतिर्नाभिवाद्येह पादयोः ।
पूर्णविंशतिवर्षेण गुणदोषौ विजानता ॥३२.१३॥

कामं तु गुरुपत्नीनां युवतीनां युवा भुवि ।
विधिवद्वन्दनं कुर्यादसावहं इति ब्रुवन् ॥३२.१४॥

विप्रोष्य पादग्रहणं अन्वहं चाभिवादनम् ।
गुरुदारेषु कुर्वीत सतां धर्मं अनुस्मरन् ॥३२.१५॥

वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी ।
एतानि मानस्थानानि गरीयो यद्यदुत्तरम् ॥३२.१६॥

ब्राह्मणं दशवर्षं च शतवर्षं च भूमिपम् ।
पितापुत्रौ विजानीयाद्ब्राह्मणस्तु तयोः पिता ॥३२.१७॥

विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः ।
वैश्यानां धान्यधनतः शूद्राणां एव जन्मतः ॥३२.१८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP