संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः १३

विष्णुस्मृतिः - अध्यायः १३

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


अथ विषं ॥१३.१॥

विषान्यदेयानि सार्वाणि ॥१३.२॥

ऋते हिमाचलोद्भवात्शार्ङ्गात् ॥१३.३॥

तस्य च यवसप्तकं घृतप्लुतं अभिशस्ताय दद्यात् ॥१३.४॥

विषं वेगक्लमापेतं सुखेन यदि जीर्यते ।
विशुद्धं तं इति ज्ञात्वा दिवसान्ते विसर्जयेत् ॥१३.५॥

विषत्वाद्विषमत्वाच्च क्रूरं त्वं सर्वदेहिनाम् ।
त्वं एव विष जानीषे न विदुर्यानि मानुषाः ॥१३.६॥

व्यवहाराभिशस्तोऽयं मानुषः शुद्धिं इच्छति ।
तदेनं संशयादस्माद्धर्मतस्त्रातुं अर्हसि ॥१३.७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP