संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः १२

विष्णुस्मृतिः - अध्यायः १२

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


अथोदकं ॥१२.१॥

पङ्कशैवालदुष्टग्राहमत्स्यजलौकादिवर्जितेऽम्भसि ॥१२.२॥

तत्र ...नाभिमग्नस्यारोगद्वेषिणः पुरुषस्यान्यस्य जानुनी गृहीत्वाभिमन्त्रितं अम्भः प्रविशेत् ॥१२.३॥

तत्समकालं च नातिक्रूरमृदुना धनुषा पुरुषोऽपरः शरक्षेपं कुर्यात् ॥१२.४॥

तं चापरः पुरुषो जवेन शरं आनयेत् ॥१२.५॥

तन्मध्ये यो न दृश्येत स शुद्धः परिकीर्तितः ।
अन्यथा ह्यविशुद्धः स्यादेकाङ्गस्यापि दर्शने ॥१२.६॥

त्वं अम्भः सर्वभूतानां अन्तश्चरसि साक्षिवत् ।
त्वं एवाम्भो विजानीषे न विदुर्यानि मानुषाः ॥१२.७॥

व्यवहाराभिशतोऽयं मानुषस्त्वयि मज्जति ।
तदेनं संशयादस्माद्धर्मतस्त्रातुं अर्हसि ॥१२.८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP