TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

निदानस्थान - अध्याय १६

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अध्याय १६
विदाह्य् अन्नं विरुद्धं च तत् तच् चासृक्-प्रदूषणम् ।
भजतां विधि-हीनं च स्वप्न-जागर-मैथुनम् ॥१॥

तत् तथासृक्-प्रदूषणम् प्रायेण सु-कुमाराणाम् अ-चङ्क्रमण-शीलिनाम् ।
अभिघाताद् अ-शुद्धेश् च नृणाम् असृजि दूषिते ॥२॥

वातलैः शीतलैर् वायुर् वृद्धः क्रुद्धो वि-मार्ग-गः ।
तादृशैवासृजा रुद्धः प्राक् तद् एव प्रदूषयेत् ॥३॥

तादृशेनासृजा रुद्धः आढ्य-रोगं खुडं वात-बलासं वात-शोणितम् ।
तद् आहुर् नामभिस् तच् च पूर्वं पादौ प्रधावति ॥४॥

१६.पलाशं वात-शोणितम् विशेषाद् यान-यानाद् यैः प्रलम्बौ तस्य लक्षणम् ।
भविष्यतः कुष्ठ-समं तथा सादः श्लथाङ्ग-ता ॥५॥

जानु-जङ्घोरु-कट्य्-अंस-हस्त-पादाङ्ग-संधिषु ।
कण्डू-स्फुरण-निस्तोद-भेद-गौरव-सुप्त-ताः ॥६॥

भूत्वा भूत्वा प्रणश्यन्ति मुहुर् आविर्-भवन्ति च ।
पादयोर् मूलम् आस्थाय कदा-चिद् धस्तयोर् अपि ॥७॥

आखोर् इव विषं क्रुद्धं कृत्स्नं देहं विधावति ।
त्वङ्-मांसाश्रयम् उत्तानं तत् पूर्वं जायते ततः ॥८॥

कालान्तरेण गम्भीरं सर्वान् धातून् अभिद्रवत् ।
कण्ड्व्-आदि-संयुतोत्ताने त्वक् ताम्रा श्याव-लोहिता ॥९॥

सायामा भृश-दाहोषा गम्भीरे ऽधिक-पूर्व-रुक् ।
श्वयथुर् ग्रथितः पाकी वायुः संध्य्-अस्थि-मज्जसु ॥१०॥

छिन्दन्न् इव चरत्य् अन्तर् वक्री-कुर्वंश् च वेग-वान् ।
करोति खञ्जं पङ्गुं वा शरीरे सर्वतश् चरन् ॥११॥

छिन्दन्न् इव चरन्न् अन्तर् वाते ऽधिके ऽधिकं तत्र शूल-स्फुरण-तोदनम् ।
शोफस्य रौक्ष्य-कृष्ण-त्व-श्याव-ता-वृद्धि-हानयः ॥१२॥

धमन्य्-अङ्गुलि-संधीनां संकोचो ऽङ्ग-ग्रहो ऽति-रुक् ।
शीत-द्वेषान्-उपशयौ स्तम्भ-वेपथु-सुप्तयः ॥१३॥

रक्ते शोफो ऽति-रुक् तोदस् ताम्रश् चिमिचिमायते ।
स्निग्ध-रूक्षैः शमं नैति कण्डू-क्लेद-समन्वितः ॥१४॥

पित्ते विदाहः संमोहः स्वेदो मूर्छा मदः स-तृट् ।
स्पर्शा-क्षम-त्वं रुग् रागः शोफः पाको भृशोष्म-ता ॥१५॥

कफे स्तैमित्य-गुरु-ता-सुप्ति-स्निग्ध-त्व-शित-ताः ।
कण्डूर् मन्दा च रुग् द्वन्द्व-सर्व-लिङ्गं च संकरे ॥१६॥

एक-दोषानुगं साध्यं नवं याप्यं द्वि-दोष-जम् ।
त्रि-दोष-जं त्यजेत् स्रावि स्तब्धम् अर्बुद-कारि च ॥१७॥

त्रि-दोषं तत् त्यजेत् स्रावि रक्त-मार्गं निहत्याशु शाखा-संधिषु मारुतः ।
निविश्यान्यो-ऽन्यम् आवार्य वेदनाभिर् हरत्य् असून् ॥१८॥

रक्त-मार्गं निहन्त्य् आशु वायौ पञ्चात्मके प्राणो रौक्ष्य-व्यायाम-लङ्घनैः ।
अत्य्-आहाराभिघाताध्व-वेगोदीरण-धारणैः ॥१९॥

रूक्ष-व्यायाम-लङ्घनैः कुपितश् चक्षुर्-आदीनाम् उपघातं प्रवर्तयेत् ।
पीनसार्दित-तृट्-कास-श्वासादींश् चामयान् बहून् ॥२०॥

उदानः क्षवथूद्गार-च्छर्दि-निद्रा-विधारणैः ।
गुरु-भाराति-रुदित-हास्याद्यैर् विकृतो गदान् ॥२१॥

१६.२च्छर्दि-निद्रावधारणैः कण्ठ-रोध-मनो-भ्रंश-च्छर्द्य्-अ-रोचक-पीनसान् ।
कुर्याच् च गल-गण्डादींस् तांस् ताञ् जत्रूर्ध्व-संश्रयान् ॥२२॥

व्यानो ऽति-गमन-ध्यान-क्रीडा-विषम-चेष्टितैः ।
विरोधि-रूक्ष-भी-हर्ष-विषादाद्यैश् च दूषितः ॥२३॥

१व्यानो ऽति-गमन-स्थान- पुंस्-त्वोत्साह-बल-भ्रंश-शोफ-चित्तोत्प्लव-ज्वरान् ।
सर्वाङ्ग-रोग-निस्तोद-रोम-हर्षाङ्ग-सुप्त-ताः ॥२४॥

१६.२रोम-हर्षाङ्ग-सुप्ति-ताः कुष्ठं विसर्पम् अन्यांश् च कुर्यात् सर्वाङ्ग-गान् गदान् ।
समानो विषमा-जीर्ण-शीत-संकीर्ण-भोजनैः ॥२५॥

करोत्य् अ-काल-शयन-जागराद्यैश् च दूषितः ।
शूल-गुल्म-ग्रहण्य्-आदीन् पक्वामाशय-जान् गदान् ॥२६॥

अपानो रूक्ष-गुर्व्-अन्न-वेगाघाताति-वाहनैः ।
यान-यानासन-स्थान-चङ्क्रमैश् चाति-सेवितैः ॥२७॥

१६.२वेग-घाताति-वाहनैः कुपितः कुरुते रोगान् कृच्छ्रान् पक्वाशयाश्रयान् ।
मूत्र-शुक्र-प्रदोषार्शो-गुद-भ्रंशादिकान् बहून् ॥२८॥

सर्वं च मारुतं सामं तन्द्रा-स्तैमित्य-गौरवैः ।
स्निग्ध-त्वा-रोचकालस्य-शैत्य-शोफाग्नि-हानिभिः ॥२९॥

कटु-रूक्षाभिलाषेण तद्-विधोपशयेन च ।
युक्तं विद्यान् निर्-आमं तु तन्द्रादीनां विपर्ययात् ॥३०॥

वायोर् आवरणं चातो बहु-भेदं प्रवक्ष्यते ।
लिङ्गं पित्तावृते दाहस् तृष्णा शूलं भ्रमस् तमः ॥३१॥

१बहु-भेदं प्रचक्ष्यते कटुकोष्णाम्ल-लवणैर् विदाहः शीत-काम-ता ।
शैत्य-गौरव-शूलानि कट्व्-आद्य्-उपशयो ऽधिकम् ॥३२॥

लङ्घनायास-रूक्षोष्ण-काम-ता च कफावृते ।
रक्तावृते स-दाहार्तिस् त्वङ्-मांसान्तर-जा भृशम् ॥३३॥

भवेच् च रागी श्वयथुर् जायन्ते मण्डलानि च ।
मांसेन कठिनः शोफो वि-वर्णः पिटिकास् तथा ॥३४॥

हर्षः पिपीलिकानां च संचार इव जायते ।
चलः स्निग्धो मृदुः शीतः शोफो गात्रेष्व् अ-रोचकः ॥३५॥

१हर्षः पिपीलिकादीनां आढ्य-वात इति ज्ञेयः स कृच्छ्रो मेदसावृते ।
स्पर्शम् अस्थ्य्-आवृते ऽत्य्-उष्णं पीडनं चाभिनन्दति ॥३६॥

सूच्येव तुद्यते ऽत्य्-अर्थम् अङ्गं सीदति शूल्यते ।
मज्जावृते विनमनं जृम्भणं परिवेष्टनम् ॥३७॥

शूलं च पीड्यमानेन पाणिभ्यां लभते सुखम् ।
शुक्रावृते ऽति-वेगो वा न वा निष्-फल-तापि वा ॥३८॥

शूलं च पीड्यमाने च १शूलं च पीड्यमाने तु १न वा निष्-फल-तापि च भुक्ते कुक्षौ रुजा जीर्णे शाम्यत्य् अन्नावृते ऽनिले ।
मूत्रा-प्रवृत्तिर् आध्मानं वस्तेर् मूत्रावृते भवेत् ॥३९॥

१वस्तौ मूत्रावृते भवेत् विड्-आवृते विबन्धो ऽधः स्व-स्थाने परिकृन्तति ।
व्रजत्य् आशु जरां स्नेहो भुक्ते चानह्यते नरः ॥४०॥

१विड्-आवृते ऽति-विड्-रोधः १स्वे स्थाने परिकृन्तति शकृत् पीडितम् अन्नेन दुःखं शुष्कं चिरात् सृजेत् ।
सर्व-धात्व्-आवृते वायौ श्रोणि-वङ्क्षण-पृष्ठ-रुक् ॥४१॥

विलोमो मारुतो ऽ-स्वस्थं हृदयं पीड्यते ऽति च ।
भ्रमो मूर्छा रुजा दाहः पित्तेन प्राण आवृते ॥४२॥

१विलोमो मारुतो ऽ-स्वास्थ्यं १भ्रमो मूर्छा रुजानाहः विदग्धे ऽन्ने च वमनम् उदाने ऽपि भ्रमादयः ।
दाहो ऽन्तर् ऊर्जा-भ्रंशश् च दाहो व्याने च सर्व-गः ॥४३॥

१दाहो व्याने तु सर्व-गः क्लमो ऽङ्ग-चेष्टा-सङ्गश् च स-संतापः स-वेदनः ।
समान ऊष्मोपहतिर् अति-स्वेदो ऽ-रतिः स-तृट् ॥४४॥

१क्लमो ऽङ्ग-चेष्टा-भङ्गश् च दाहश् च स्याद् अपाने तु मले हारिद्र-वर्ण-ता ।
रजो-ऽतिवृत्तिस् तापश् च योनि-मेहन-पायुषु ॥४५॥

१रजो-ऽति-वृद्धिस् तापश् च श्लेष्मणा त्व् आवृते प्राणे सादस् तन्द्रा-रुचिर् वमिः ।
ष्ठीवनं क्षवथूद्गार-निःश्वासोच्छ्वास-संग्रहः ॥४६॥

उदाने गुरु-गात्र-त्वम् अ-रुचिर् वाक्-स्वर-ग्रहः ।
बल-वर्ण-प्रणाशश् च व्याने पर्वास्थि-वाग्-ग्रहः ॥४७॥

१व्याने पार्श्वास्थि-वाग्-ग्रहः गुरु-ताङ्गेषु सर्वेषु स्खलितं च गतौ भृशम् ।
समाने ऽति-हिमाङ्ग-त्वम् अ-स्वेदो मन्द-वह्नि-ता ॥४८॥

अपाने स-कफं मूत्र-शकृतः स्यात् प्रवर्तनम् ।
इति द्वा-विंशति-विधं वायोर् आवरणं विदुः ॥४९॥

१अपाने स-कफं मूत्रं १शकृतः स्यात् प्रवर्तनम् प्राणादयस् तथान्यो-ऽन्यम् आवृण्वन्ति यथा-क्रमम् ।
सर्वे ऽपि विंशति-विधं विद्याद् आवरणं च तत् ॥५०॥

१आवृण्वन्ति यथा-यथम् निःश्वासोच्छ्वास-संरोधः प्रतिश्यायः शिरो-ग्रहः ।
हृद्-रोगो मुख-शोषश् च प्राणेनोदान आवृते ॥५१॥

१हृद्-रोगो मुख-रोगश् च उदानेनावृते प्राणे वर्णौजो-बल-संक्षयः ।
दिशानया च विभजेत् सर्वम् आवरणं भिषक् ॥५२॥

स्थानान्य् अवेक्ष्य वातानां वृद्धिं हानिं च कर्मणाम् ।
प्राणादीनां च पञ्चानां मिश्रम् आवरणं मिथः ॥५३॥

पित्तादिभिर् द्वा-दशभिर् मिश्राणां मिश्रितैश् च तैः ।
मिश्रैः पित्तादिभिस् तद्-वन् मिश्रणाभिर् अनेक-धा ॥५४॥

तारतम्य-विकल्पाच् च यात्य् आवृतिर् अ-संख्य-ताम् ।
तां लक्षयेद् अवहितो यथा-स्वं लक्षणोदयात् ॥५५॥

शनैः शनैश् चोपशयाद् गूढाम् अपि मुहुर् मुहुः ।
विशेषाज् जीवितं प्राण उदानो बलम् उच्यते ॥५६॥

स्यात् तयोः पीडनाद् धानिर् आयुषश् च बलस्य च ।
आवृता वायवो ऽ-ज्ञाता ज्ञाता वा वत्सरं स्थिताः ॥५७॥

प्रयत्नेनापि दुः-साध्या भवेयुर् वान्-उपक्रमाः ।
विद्रधि-प्लीह-हृद्-रोग-गुल्माग्नि-सदनादयः ॥५८॥

भवन्त्य् उपद्रवास् तेषाम् आवृतानाम् उपेक्षणात् ॥५८॥
व्याधीनां संशयं छेत्तुम् अन्यतो यो ऽ-प्रमत्त-वान् ।
निदानं सततं तेन चिन्तनीयं विपश्चिता ॥५८+१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:49:08.9270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

यजमान-यजमान करणें

  • स्त्रीनें व्यभिचाराचा धंदा करणें 
  • वेश्याव्यवसाय करणें. 
RANDOM WORD

Did you know?

कोणतीही ही पूजा करण्याआधी संकल्प कां करावा?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.