TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

निदानस्थान - अध्याय ७

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अध्याय ७
अरि-वत् प्राणिनो मांस-कीलका विशसन्ति यत् ।
अर्शांसि तस्माद् उच्यन्ते गुद-मार्ग-निरोधतः ॥१॥

दोषास् त्वङ्-मांस-मेदांसि संदूष्य विविधाकृतीन् ।
मांसाङ्कुरान् अपानादौ कुर्वन्त्य् अर्शांसि तान् जगुः ॥२॥

सह-जन्मोत्तरोत्थान-भेदाद् द्वे-धा समासतः ।
शुष्क-स्रावि-विभेदाच् च गुदः स्थूलान्त्र-संश्रयः ॥३॥

अर्ध-पञ्चाङ्गुलस् तस्मिंस् तिस्रो ऽध्य्-अर्धाङ्गुलाः स्थिताः ।
बल्यः प्रवाहिणी तासाम् अन्तर् मध्ये विसर्जनी ॥४॥

बाह्या संवरणी तस्या गुदौष्ठो बहिर् अङ्गुले ।
यवाध्य्-अर्धः प्रमाणेन रोमाण्य् अत्र ततः परम् ॥५॥

बाह्या संवरणी तस्यां यवाध्य्-अर्ध-प्रमाणेन तत्र हेतुः सहोत्थानां वली-बीजोपतप्त-ता ।
अर्शसां बीज-तप्तिस् तु माता-पित्र्-अपचारतः ॥६॥

वली-बीजोपतप्ति-ता दैवाच् च ताभ्यां कोपो हि संनिपातस्य तान्य् अतः ।
अ-साध्यान्य् एवम् आख्याताः सर्वे रोगाः कुलोद्भवाः ॥७॥

सह-जानि विशेषेण रूक्ष-दुर्-दर्शनानि च ।
अन्तर्-मुखानि पाण्डूनि दारुणोपद्रवाणि च ॥८॥

षो-ढान्यानि पृथग् दोष-संसर्ग-निचयास्रतः ।
शुष्काणि वात-श्लेष्मभ्याम् आर्द्राणि त्व् अस्र-पित्ततः ॥९॥

दोष-प्रकोप-हेतुस् तु प्राग् उक्तस् तेन सादिते ।
अग्नौ मले ऽति-निचिते पुनश् चाति-व्यवायतः ॥१०॥

यान-संक्षोभ-विषम-कठिनोत्कटकासनात् ।
वस्ति-नेत्राश्म-लोष्टोर्वी-तल-चैलादि-घट्टनात् ॥११॥

भृशं शीताम्बु-संस्पर्शात् प्रतताति-प्रवाहणात् ।
वात-मूत्र-शकृद्-वेग-धारणात् तद्-उदीरणात् ॥१२॥

ज्वर-गुल्मातिसाराम-ग्रहणी-शोफ-पाण्डुभिः ।
कर्शनाद् विषमाभ्यश् च चेष्टाभ्यो योषितां पुनः ॥१३॥

आम-गर्भ-प्रपतनाद् गर्भ-वृद्धि-प्रपीडनात् ।
ईदृशैश् चापरैर् वायुर् अपानः कुपितो मलम् ॥१४॥

पायोर् वलीषु तं धत्ते तास्व् अभिष्यण्ण-मूर्तिषु ।
जायन्ते ऽर्शांसि तत्-पूर्व-लक्षणं मन्द-वह्नि-ता ॥१५॥

पायु-वलीषु तं धत्ते पायोर् वलीषु संधत्ते विष्टम्भः सक्थि-सदनं पिण्डिकोद्वेष्टनं भ्रमः ।
सादो ऽङ्गे नेत्रयोः शोफः शकृद्-भेदो ऽथ-वा ग्रहः ॥१६॥

मारुतः प्रचुरो मूढः प्रायो नाभेर् अधश् चरन् ।
स-रुक् स-परिकर्तश् च कृच्छ्रान् निर्गच्छति स्वनम् ॥१७॥

अन्त्र-कूजनम् आटोपः क्षाम-तोद्गार-भूरि-ता ।
प्रभूतं मूत्रम् अल्पा विड् अ-श्रद्धा धूमको ऽम्लकः ॥१८॥

प्रभूत-मूत्र-ताल्पा विड् शिरः-पृष्ठोरसां शूलम् आलस्यं भिन्न-वर्ण-ता ।
तन्द्रेन्द्रियाणां दौर्बल्यं क्रोधो दुःखोपचार-ता ॥१९॥

आशङ्का ग्रहणी-दोष-पाण्डु-गुल्मोदरेषु च ।
एतान्य् एव विवर्धन्ते जातेषु हत-नामसु ॥२०॥

एतान्य् एव च वर्धन्ते निवर्तमानो ऽपानो हि तैर् अधो-मार्ग-रोधतः ।
क्षोभयन्न् अनिलान् अन्यान् सर्वेन्द्रिय-शरीर-गान् ॥२१॥

तथा मूत्र-शकृत्-पित्त-कफान् धातूंश् च साशयान् ।
मृद्नात्य् अग्निं ततः सर्वो भवति प्राय-शो ऽर्शसः ॥२२॥

कृशो भृशं हतोत्साहो दीनः क्षामो ऽति-निष्-प्रभः ।
अ-सारो विगत-च्छायो जन्तु-जुष्ट इव द्रुमः ॥२३॥

कृत्स्नैर् उपद्रवैर् ग्रस्तो यथोक्तैर् मर्म-पीडनैः ।
तथा कास-पिपासास्य-वैरस्य-श्वास-पीनसैः ॥२४॥

क्लमाङ्ग-भङ्ग-वमथु-क्षवथु-श्वयथु-ज्वरैः ।
क्लैब्य-बाधिर्य-तैमिर्य-शर्कराश्मरि-पीडितः ॥२५॥

क्षाम-भिन्न-स्वरो ध्यायन् मुहुः ष्ठीवन् अ-रोचकी ।
सर्व-पर्वास्थि-हृन्-नाभि-पायु-वङ्क्षण-शूल-वान् ॥२६॥

गुदेन स्रवता पिच्छां पुलाकोदक-संनिभाम् ।
विबद्ध-मुक्तं शुष्कार्द्रं पक्वामं चान्तरान्तरा ॥२७॥

पाण्डु पीतं हरिद् रक्तं पिच्छिलं चोपवेश्यते ।
गुदाङ्कुरा बह्व्-अनिलाः शुष्काश् चिमिचिमान्विताः ॥२८॥

म्लानाः श्यावारुणाः स्तब्धा विषमाः परुषाः खराः ।
मिथो वि-सदृशा वक्रास् तीक्ष्णा विस्फुटिताननाः ॥२९॥

बिम्बी-कर्कन्धु-खर्जूर-कार्पासी-फल-संनिभाः ।
के-चित् कदम्ब-पुष्पाभाः के-चित् सिद्धार्थकोपमाः ॥३०॥

शिरः-पार्श्वांस-कट्य्-ऊरु-वङ्क्षणाभ्यधिक-व्यथाः ।
क्षवथूद्गार-विष्टम्भ-हृद्-ग्रहा-रोचक-प्रदाः ॥३१॥

हृद्-रवा-रोचक-प्रदाः कास-श्वासाग्नि-वैषम्य-कर्ण-नाद-भ्रमावहाः ।
तैर् आर्तो ग्रथितं स्तोकं स-शब्दं स-प्रवाहिकम् ॥३२॥

रुक्-फेन-पिच्छानुगतं विबद्धम् उपवेश्यते ।
कृष्ण-त्वङ्-नख-विण्-मूत्र-नेत्र-वक्त्रश् च जायते ॥३३॥

गुल्म-प्लीहोदराष्ठीला-संभवस् तत एव च ।
पित्तोत्तरा नील-मुखा रक्त-पीतासित-प्रभाः ॥३४॥

तन्व्-अस्र-स्राविणो विस्रास् तनवो मृदवः श्लथाः ।
शुक-जिह्वा-यकृत्-खण्ड-जलौको-वक्त्र-संनिभाः ॥३५॥

दाह-पाक-ज्वर-स्वेद-तृण्-मूर्छा-रुचि-मोह-दाः ।
सोष्माणो द्रव-नीलोष्ण-पीत-रक्ताम-वर्चसः ॥३६॥

यव-मध्या हरित्-पीत-हारिद्र-त्वङ्-नखादयः ।
श्लेष्मोल्बणा महा-मूला घना मन्द-रुजः सिताः ॥३७॥

यव-मध्या हरित्-पीता हारिद्र-त्वङ्-नखादयः उच्छूनोपाचिताः स्निग्धाः स्तब्ध-वृत्त-गुरु-स्थिराः ।
पिच्छिलाः स्तिमिताः श्लक्ष्णाः कण्ड्व्-आढ्याः स्पर्शन-प्रियाः ॥३८॥

करीर-पनसास्थ्य्-आभास् तथा गो-स्तन-संनिभाः ।
वङ्क्षणानाहिनः पायु-वस्ति-नाभि-विकर्तिनः ॥३९॥

स-कास-श्वास-हृल्-लास-प्रसेका-रुचि-पीनसाः ।
मेह-कृच्छ्र-शिरो-जाड्य-शिशिर-ज्वर-कारिणः ॥४०॥

क्लैब्याग्नि-मार्दव-च्छर्दिर्-आम-प्राय-विकार-दाः ।
वसाभ-स-कफ-प्राज्य-पुरीषाः स-प्रवाहिकाः ॥४१॥

वसाभाः स-कफ-प्राज्य- न स्रवन्ति न भिद्यन्ते पाण्डु-स्निग्ध-त्वग्-आदयः ।
संसृष्ट-लिङ्गाः संसर्गान् निचयात् सर्व-लक्षणाः ॥४२॥

रक्तोल्बणा गुदे-कीलाः पित्ताकृति-समन्विताः ।
वट-प्ररोह-सदृशा गुञ्जा-विद्रुम-संनिभाः ॥४३॥

ते ऽत्य्-अर्थं दुष्टम् उष्णं च गाढ-विट्-प्रतिपीडिताः ।
स्रवन्ति सहसा रक्तं तस्य चाति-प्रवृत्तितः ॥४४॥

भेकाभः पीड्यते दुःखैः शोणित-क्षय-संभवैः ।
हीन-वर्ण-बलोत्साहो हतौजः कलुषेन्द्रियः ॥४५॥

मुद्ग-कोद्रव-जूर्णाह्व-करीर-चणकादिभिः ।
रूक्षैः संग्राहिभिर् वायुः स्वे स्थाने कुपितो बली ॥४६॥

स्व-स्थाने कुपितो बली अधो-वहानि स्रोतांसि संरुध्याधः प्रशोषयन् ।
पुरीषं वात-विण्-मूत्र-सङ्गं कुर्वीत दारुणम् ॥४७॥

तेन तीव्रा रुजा कोष्ठ-पृष्ठ-हृत्-पार्श्व-गा भवेत् ।
आध्मानम् उदरावेष्टो हृल्-लासो परिकर्तनम् ॥४८॥

वस्तौ च सु-तरां शूलं गण्ड-श्वयथु-संभवः ।
पवनस्योर्ध्व-गामि-त्वं ततश् छर्द्य्-अ-रुचि-ज्वराः ॥४९॥

हृद्-रोग-ग्रहणी-दोष-मूत्र-सङ्ग-प्रवाहिकाः ।
बाधिर्य-तिमिर-श्वास-शिरो-रुक्-कास-पीनसाः ॥५०॥

मनो-विकारस् तृष्णास्र-पित्त-गुल्मोदरादयः ।
ते ते च वात-जा रोगा जायन्ते भृश-दारुणाः ॥५१॥

दुर्-नाम्नाम् इत्य् उदावर्तः परमो ऽयम् उपद्रवः ।
वाताभिभूत-कोष्ठानां तैर् विनापि स जायते ॥५२॥

सह-जानि त्रि-दोषाणि यानि चाभ्यन्तरे वलौ ।
स्थितानि तान्य् अ-साध्यानि याप्यन्ते ऽग्नि-बलादिभिः ॥५३॥

द्वन्द्व-जानि द्वितीयायां वलौ यान्य् आश्रितानि च ।
कृच्छ्र-साध्यानि तान्य् आहुः परि-संवत्सराणि च ॥५४॥

बाह्यायां तु वलौ जातान्य् एक-दोषोल्बणानि च ।
अर्शांसि सुख-साध्यानि न चोत्पतितानि च ॥५५॥

मेढ्रादिष्व् अपि वक्ष्यन्ते यथा-स्वं नाभि-जानि तु ।
गण्डू-पदास्य-रूपाणि पिच्छिलानि मृदूनि च ॥५६॥

व्यानो गृहीत्वा श्लेष्माणं करोत्य् अर्शस् त्वचो बहिः ।
कीलोपमं स्थिर-खरं चर्म-कीलं तु तं विदुः ॥५७॥

वातेन तोदः पारुष्यं पित्ताद् असित-रक्त-ता ।
श्लेष्मणा स्निग्ध-ता तस्य ग्रथित-त्वं स-वर्ण-ता ॥५८॥

अर्शसां प्रशमे यत्नम् आशु कुर्वीत बुद्धि-मान् ।
तान्य् आशु हि गुदं बद्ध्वा कुर्युर् बद्ध-गुदोदरम् ॥५९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:49:06.8000000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

भाडकर

  • क्रि.वि. एकदम ; ताडकन ; शब्द होई असें ( वृक्ष , फल इ० नीं ) पडणें किंवा तडकाफडकीं करणें , बोलणें इ० च्या ध्वनीचें अनुकरण होऊन . एकाएकीं महेंद्राला भाडकन फोटोग्राफी शिकण्याचा शोक लागला . - पपप्रे ५७ . 
RANDOM WORD

Did you know?

श्रावण महिन्यांत महादेवाच्या पिंडीवर दुधाचा अभिषेक कां करावा? त्याचे पुण्य काय?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site