TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

निदानस्थान - अध्याय १३

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अध्याय १३
पित्त-प्रधानाः कुपिता यथोक्तैः कोपनैर् मलाः ।
तत्रानिलेन बलिना क्षिप्तं पित्तं हृदि स्थितम् ॥१॥

धमनीर् दश संप्राप्य व्याप्नुवत् सकलां तनुम् ।
श्लेष्म-त्वग्-रक्त-मांसानि प्रदूष्यान्तरम् आश्रितम् ॥२॥

त्वङ्-मांसयोस् तत् कुरुते त्वचि वर्णान् पृथग्-विधान् ।
पाण्डु-हारिद्र-हरितान् पाण्डु-त्वं तेषु चाधिकम् ॥३॥

यतो ऽतः पाण्डुर् इत्य् उक्तः स रोगस् तेन गौरवम् ।
धातूनां स्याच् च शैथिल्यम् ओजसश् च गुण-क्षयः ॥४॥

ततो ऽल्प-रक्त-मेदस्को निः-सारः स्याच् छ्लथेन्द्रियः ।
मृद्यमानैर् इवाङ्गैर् ना द्रवता हृदयेन च ॥५॥

निः-सारः शिथिलेन्द्रियः द्रवता हृदयेन वा शूनाक्षि-कूटः सदनः कोपनः ष्ठीवनो ऽल्प-वाक् ।
अन्न-द्विट् शिशिर-द्वेषी शीर्ण-रोमा हतानलः ॥६॥

शूनाक्षि-कूट-वदनः कोपनः स्वेदनो ऽल्प-वाक् कोपनः सदनो ऽल्प-वाक् सन्न-सक्थो ज्वरी श्वासी कर्ण-क्ष्वेडी भ्रमी श्रमी ।
स पञ्च-धा पृथग् दोषैः समस्तैर् मृत्तिकादनात् ॥७॥

सन्न-सक्थी ज्वरी श्वासी प्राग्-रूपम् अस्य हृदय-स्पन्दनं रूक्ष-ता त्वचि ।
अ-रुचिः पीत-मूत्र-त्वं स्वेदा-भावो ऽल्प-वह्नि-ता ॥८॥

सादः श्रमो ऽनिलात् तत्र गात्र-रुक्-तोद-कम्पनम् ।
कृष्ण-रूक्षारुण-सिरा-नख-विण्-मूत्र-नेत्र-ता ॥९॥

शोफानाहास्य-वैरस्य-विट्-शोषाः पार्श्व-मूर्ध-रुक् ।
पित्ताद् धरित-पीताभ-सिरादि-त्वं ज्वरस् तमः ॥१०॥

तृट्-स्वेद-मूर्छा-शीतेच्छा दौर्गन्ध्यं कटु-वक्त्र-ता ।
वर्चो-भेदो ऽम्लको दाहः कफाच् छुक्ल-सिरादि-ता ॥११॥

तन्द्रा लवण-वक्त्र-त्वं रोम-हर्षः स्वर-क्षयः ।
कासश् छर्दिश् च निचयान् मिश्र-लिङ्गो ऽति-दुः-सहः ॥१२॥

हर्षो रोम्णां स्वर-क्षयः मृत् कषायानिलं पित्तम् ऊषरा मधुरा कफम् ।
दूषयित्वा रसादींश् च रौक्ष्याद् भुक्तं विरूक्ष्य च ॥१३॥

स्रोतांस्य् अ-पक्वैवापूर्य कुर्याद् रुद्ध्वा च पूर्व-वत् ।
पाण्डु-रोगं ततः शून-नाभि-पादास्य-मेहनः ॥१४॥

पुरीषं कृमि-मन् मुञ्चेद् भिन्नं सासृक् कफं नरः ।
यः पाण्डु-रोगी सेवेत पित्तलं तस्य कामलाम् ॥१५॥

कोष्ठ-शाखाश्रयां पित्तं दग्ध्वासृङ्-मांसम् आवहेत् ।
हारिद्र-नेत्र-मूत्र-त्वङ्-नख-वक्त्र-शकृत्-तया ॥१६॥

कोष्ठ-शाखाश्रयं पित्तं दाहा-विपाक-तृष्णा-वान् भेकाभो दुर्-बलेन्द्रियः ।
भवेत् पित्तोल्बणस्यासौ पाण्डु-रोगाद् ऋते ऽपि च ॥१७॥

उपेक्षया च शोफाढ्या सा कृच्छ्रा कुम्भ-कामला ।
हरित-श्याव-पीत-त्वं पाण्डु-रोगे यदा भवेत् ॥१८॥

वात-पित्ताद् भ्रमस् तृष्णा स्त्रीष्व् अ-हर्षो मृदुर् ज्वरः ।
तन्द्रा बलानल-भ्रंशो लोढरं तं हलीमकम् ॥१९॥

अलसं चेति शंसन्ति तेषां पूर्वम् उपद्रवाः ।
शोफ-प्रधानाः कथिताः स एवातो निगद्यते ॥२०॥

पित्त-रक्त-कफान् वायुर् दुष्टो दुष्टान् बहिः-सिराः ।
नीत्वा रुद्ध-गतिस् तैर् हि कुर्यात् त्वङ्-मांस-संश्रयम् ॥२१॥

उत्सेधं संहतं शोफं तम् आहुर् निचयाद् अतः ।
सर्वं हेतु-विशेषैस् तु रूप-भेदान् नवात्मकम् ॥२२॥

दोषैः पृथग् द्वयैः सर्वैर् अभिघाताद् विषाद् अपि ।
द्वि-धा वा निजम् आगन्तुं सर्वाङ्गैकाङ्ग-जं च तम् ॥२३॥

पृथून्नत-ग्रथित-ता-विशेषैश् च त्रि-धा विदुः ।
सामान्य-हेतुः शोफानां दोष-जानां विशेषतः ॥२४॥

व्याधि-कर्मोपवासादि-क्षीणस्य भजतो द्रुतम् ।
अति-मात्रम् अथान्यस्य गुर्व्-अम्ल-स्निग्ध-शीतलम् ॥२५॥

क्षीणस्य भजतो द्रवम् अति-मात्रम् अथान्नं च लवण-क्षार-तीक्ष्णोष्ण-शाकाम्बु स्वप्न-जागरम् ।
मृद्-ग्राम्य-मांस-वल्लूरम् अ-जीर्ण-श्रम-मैथुनम् ॥२६॥

पदातेर् मार्ग-गमनं यानेन क्षोभिणापि वा ।
श्वास-कासातिसारार्शो-जठर-प्रदर-ज्वराः ॥२७॥

विषूच्य्-अलसक-च्छर्दि-गर्भ-विसर्प-पाण्डवः ।
अन्ये च मिथ्योपक्रान्तास् तैर् दोषा वक्षसि स्थिताः ॥२८॥

१३.२गर्भ-विसर्प-पाण्डु-ता ऊर्ध्वं शोफम् अधो वस्तौ मध्ये कुर्वन्ति मध्य-गाः ।
सर्वाङ्ग-गाः सर्व-गतं प्रत्यङ्गेषु तद्-आश्रयाः ॥२९॥

तत्-पूर्व-रूपं दवथुः सिरायामो ऽङ्ग-गौरवम् ।
वाताच् छोफश् चलो रूक्षः खर-रोमारुणासितः ॥३०॥

संकोच-स्पन्द-हर्षार्ति-तोद-भेद-प्रसुप्ति-मान् ।
क्षिप्रोत्थान-शमः शीघ्रम् उन्नमेत् पीडितस् तनुः ॥३१॥

स्निग्धोष्ण-मर्दनैः शाम्येद् रात्राव् अल्पो दिवा महान् ।
त्वक् च सर्षप-लिप्तेव तस्मिंश् चिमिचिमायते ॥३२॥

पीत-रक्तासिताभासः पित्ताद् आ-ताम्र-रोम-कृत् ।
शीघ्रानुसार-प्रशमो मध्ये प्राग् जायते तनुः ॥३३॥

स-तृड्-दाह-ज्वर-स्वेद-दव-क्लेद-मद-भ्रमः ।
शीताभिलाषी विड्-भेदी गन्धी स्पर्शा-सहो मृदुः ॥३४॥

कण्डू-मान् पाण्डु-रोम-त्वक् कठिनः शीतलो गुरुः ।
स्निग्धः श्लक्ष्णः स्थिरः स्त्यानो निद्रा-छर्द्य्-अग्नि-साद-कृत् ॥३५॥

आक्रान्तो नोन्नमेत् कृच्छ्र-शम-जन्मा निशा-बलः ।
स्रवेन् नासृक् चिरात् पिच्छां कुश-शस्त्रादि-विक्षतः ॥३६॥

स्पर्शोष्ण-काङ्क्षी च कफाद् यथा-स्वं द्वन्द्व-जास् त्रयः ।
संकराद् धेतु-लिङ्गानां निचयान् निचयात्मकः ॥३७॥

अभिघातेन शस्त्रादि-च्छेद-भेद-क्षतादिभिः ।
हिमानिलोद-ध्य्-अनिलैर् भल्लात-कपिकच्छु-जैः ॥३८॥

हिमानलोद-ध्य्-अनिलैर् रसैः शूकैश् च संस्पर्शाच् छ्वयथुः स्याद् विसर्प-वान् ।
भृशोष्मा लोहिताभासः प्राय-शः पित्त-लक्षणः ॥३९॥

विष-जः स-विष-प्राणि-परिसर्पण-मूत्रणात् ।
दंष्ट्रा-दन्त-नखापाताद् अ-विष-प्राणिनाम् अपि ॥४०॥

दंष्ट्रा-दन्त-नखाघाताद् विण्-मूत्र-शुक्रोपहत-मल-वद्-वस्त्र-संकरात् ।
विष-वृक्षानिल-स्पर्शाद् गर-योगावचूर्णनात् ॥४१॥

मल-वद्-वस्त्र-धारणात् मृदुश् चलो ऽवलम्बी च शीघ्रो दाह-रुजा-करः ।
नवो ऽन्-उपद्रवः शोफः साध्यो ऽ-साध्यः पुरेरितः ॥४२॥

स्याद् विसर्पो ऽभिघातान्तैर् दोषैर् दूष्यैश् च शोफ-वत् ।
त्र्य्-अधिष्ठानं च तं प्राहुर् बाह्यान्तर्-उभयाश्रयात् ॥४३॥

यथोत्तरं च दुः-साध्यास् तत्र दोषा यथा-यथम् ।
प्रकोपणैः प्रकुपिता विशेषेण विदाहिभिः ॥४४॥

देहे शीघ्रं विसर्पन्ति ते ऽन्तर् अन्तः-स्थिता बहिः ।
बहिः-स्था द्वितये द्वि-स्था विद्यात् तत्रान्तर्-आश्रयम् ॥४५॥

मर्मोपतापात् संमोहाद् अयनानां विघट्टनात् ।
तृष्णाति-योगाद् वेगानां विषमं च प्रवर्तनात् ॥४६॥

मर्मोपघातात् संमोहाद् विषमाच् च प्रवर्तनात् आशु चाग्नि-बल-भ्रंशाद् अतो बाह्यं विपर्ययात् ।
तत्र वातात् परीसर्पो वात-ज्वर-सम-व्यथः ॥४७॥

शोफ-स्फुरण-निस्तोद-भेदायामार्ति-हर्ष-वान् ।
पित्ताद् द्रुत-गतिः पित्त-ज्वर-लिङ्गो ऽति-लोहितः ॥४८॥

कफात् कण्डू-युतः स्निग्धः कफ-ज्वर-समान-रुक् ।
स्व-दोष-लिङ्गैश् चीयन्ते सर्वे स्फोटैर् उपेक्षिताः ॥४९॥

ते पक्व-भिन्नाः स्वं स्वं च बिभ्रति व्रण-लक्षणम् ।
वात-पित्ताज् ज्वर-च्छर्दि-मूर्छातीसार-तृड्-भ्रमैः ॥५०॥

अस्थि-भेदाग्नि-सदन-तमका-रोचकैर् युतः ।
करोति सर्वम् अङ्गं च दीप्ताङ्गारावकीर्ण-वत् ॥५१॥

यं यं देशं विसर्पश् च विसर्पति भवेत् स सः ।
शान्ताङ्गारासितो नीलो रक्तो वाशु च चीयते ॥५२॥

अग्नि-दग्ध इव स्फोटैः शीघ्र-ग-त्वाद् द्रुतं च सः ।
मर्मानुसारी वीसर्पः स्याद् वातो ऽति-बलस् ततः ॥५३॥

व्यथेताङ्गं हरेत् संज्ञां निद्रां च श्वासम् ईरयेत् ।
हिध्मां च स गतो ऽवस्थाम् ईदृशीं लभते न ना ॥५४॥

क्व-चिच् छर्मा-रति-ग्रस्तो भूमि-शय्यासनादिषु ।
चेष्टमानस् ततः क्लिष्टो मनो-देह-श्रमोद्भवाम् ॥५५॥

दुष्-प्रबोधो ऽश्नुते निद्रां सो ऽग्नि-विसर्प उच्यते ।
कफेन रुद्धः पवनो भित्त्वा तं बहु-धा कफम् ॥५६॥

रक्तं वा वृद्ध-रक्तस्य त्वक्-सिरा-स्नाव-मांस-गम् ।
दूषयित्वा च दीर्घाणु-वृत्त-स्थूल-खरात्मनाम् ॥५७॥

ग्रन्थीनां कुरुते मालां रक्तानां तीव्र-रुग्-ज्वराम् ।
श्वास-कासातिसारास्य-शोष-हिध्मा-वमि-भ्रमैः ॥५८॥

मोह-वैवर्ण्य-मूर्छाङ्ग-भङ्गाग्नि-सदनैर् युताम् ।
इत्य् अयं ग्रन्थि-वीसर्पः कफ-मारुत-कोप-जः ॥५९॥

कफ-पित्ताज् ज्वरः स्तम्भो निद्रा-तन्द्रा-शिरो-रुजः ।
अङ्गावसाद-विक्षेप-प्रलापा-रोचक-भ्रमाः ॥६०॥

मूर्छाग्नि-हानिर् भेदो ऽस्थ्नां पिपासेन्द्रिय-गौरवम् ।
आमोपवेशनं लेपः स्रोतसां स च सर्पति ॥६१॥

प्रायेणामाशये गृह्णन्न् एक-देशं न चाति-रुक् ।
पिटिकैर् अवकीर्णो ऽति-पीत-लोहित-पाण्डुरैः ॥६२॥

मेचकाभो ऽसितः स्निग्धो मलिनः शोफ-वान् गुरुः ।
गम्भीर-पाकः प्राज्योष्मा स्पृष्टः क्लिन्नो ऽवदीर्यते ॥६३॥

मेचकाभो ऽसित-स्निग्धो पङ्क-वच्-छीर्ण-मांसश् च स्पष्ट-स्नायु-सिरा-गणः ।
शव-गन्धिश् च वीसर्पं कर्दमाख्यम् उशन्ति तम् ॥६४॥

सर्व-जो लक्षणैः सर्वैः सर्व-धात्व्-अतिसर्पणः ।
बाह्य-हेतोः क्षतात् क्रुद्धः स-रक्तं पित्तम् ईरयन् ॥६५॥

सर्व-धात्व्-अभिसर्पणः विसर्पं मारुतः कुर्यात् कुलत्थ-सदृशैश् चितम् ।
स्फोटैः शोफ-ज्वर-रुजा-दाहाढ्यं श्याव-लोहितम् ॥६६॥

पृथग् दोषैस् त्रयः साध्या द्वन्द्व-जाश् चान्-उपद्रवाः ।
अ-साध्यौ क्षत-सर्वोत्थौ सर्वे चाक्रान्त-मर्मकाः ॥६७॥

शीर्ण-स्नायु-सिरा-मांसाः प्रक्लिन्नाः शव-गन्धयः ॥६७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:49:08.4600000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

deformed

  • विरुपित 
RANDOM WORD

Did you know?

औक्षणाच्या निरांजनात तेल वापरावे की तूप
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site