TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

निदानस्थान - अध्याय १२

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अध्याय १२
रोगाः सर्वे ऽपि मन्दे ऽग्नौ सु-तराम् उदराणि तु ।
अ-जीर्णान् मलिनैश् चान्नैर् जायन्ते मल-संचयात् ॥१॥

ऊर्ध्वाधो धातवो रुद्ध्वा वाहिनीर् अम्बु-वाहिनीः ।
प्राणाग्न्य्-अपानान् संदूष्य कुर्युस् त्वङ्-मांस-संधि-गाः ॥२॥

आध्माप्य कुक्षिम् उदरम् अष्ट-धा तच् च भिद्यते ।
पृथग् दोषैः समस्तैश् च प्लीह-बद्ध-क्षतोदकैः ॥३॥

तेनार्ताः शुष्क-ताल्व्-ओष्ठाः शून-पाद-करोदराः ।
नष्ट-चेष्टा-बलाहाराः कृशाः प्रध्मात-कुक्षयः ॥४॥

स्युः प्रेत-रूपाः पुरुषा भाविनस् तस्य लक्षणम् ।
क्षुन्-नाशो ऽन्नं चिरात् सर्वं स-विदाहं च पच्यते ॥५॥

स-विदाहं विपच्यते जीर्णा-जीर्णं न जानाति सौहित्यं सहते न च ।
क्षीयते बलतः शश्वच् छ्वसित्य् अल्पे ऽपि चेष्टिते ॥६॥

वृद्धिर् विषो ऽ-प्रवृत्तिश् च किञ्-चिच् छोफश् च पादयोः ।
रुग्-वस्ति-संधौ तत-ता लघ्व्-अल्पा-भोजनैर् अपि ॥७॥

वृद्धिर् विषो ऽ-प्रवृत्तिर् वा राजी-जन्म वली-नाशो जठरे जठरेषु तु ।
सर्वेषु तन्द्रा सदनं मल-सङ्गो ऽल्प-वह्नि-ता ॥८॥

दाहः श्वयथुर् आध्मानम् अन्ते सलिल-संभवः ।
सर्वं त्व् अ-तोयम् अरुणम् अ-शोफं नाति-भारिकम् ॥९॥

गवाक्षितं सिरा-जालैः सदा गुडगुडायते ।
नाभिम् अन्त्रं च विष्टभ्य वेगं कृत्वा प्रणश्यति ॥१०॥

मारुतो हृत्-कटी-नाभि-पायु-वङ्क्षण-वेदनाः ।
स-शब्दो निश्चरेद् वायुर् विड् बद्धा मूत्रम् अल्पकम् ॥११॥

पायु-वङ्क्षण-वेदना नाति-मन्दो ऽनलो लौल्यं न च स्याद् वि-रसं मुखम् ।
तत्र वातोदरे शोफः पाणि-पान्-मुष्क-कुक्षिषु ॥१२॥

कुक्षि-पार्श्वोदर-कटी-पृष्ठ-रुक् पर्व-भेदनम् ।
शुष्क-कासो ऽङ्ग-मर्दो ऽधो-गुरु-ता मल-संग्रहः ॥१३॥

श्यावारुण-त्वग्-आदि-त्वम् अ-कस्माद् वृद्धि-ह्रास-वत् ।
स-तोद-भेदम् उदरं तनु-कृष्ण-सिरा-ततम् ॥१४॥

तनु कृष्ण-सिरा-ततम् आध्मात-दृति-वच् छब्दम् आहतं प्रकरोति च ।
वायुश् चात्र स-रुक्-शब्दो विचरेत् सर्वतो-गतिः ॥१५॥

पित्तोदरे ज्वरो मूर्छा दाहस् तृट् कटुकास्य-ता ।
भ्रमो ऽतीसारः पीत-त्वं त्वग्-आदाव् उदरं हरित् ॥१६॥

पीत-ताम्र-सिरानद्धं स-स्वेदं सोष्म दह्यते ।
धूमायति मृदु-स्पर्शं क्षिप्र-पाकं प्रदूयते ॥१७॥

धूमायते मृदु-स्पर्शं श्लेष्मोदरे ऽङ्ग-सदनं स्वापः श्वयथु-गौरवम् ।
निद्रोत्क्लेशा-रुचि-श्वास-कास-शुक्ल-त्वग्-आदि-ता ॥१८॥

स्वाप-श्वयथु-गौरवम् उदरं स्तिमितं श्लक्ष्णं शुक्ल-राजी-ततं महत् ।
चिराभिवृद्धि कठिनं शीत-स्पर्शं गुरु स्थिरम् ॥१९॥

उदरं स्तिमितं स्निग्धं त्रि-दोष-कोपनैस् तैस् तैः स्त्री-दत्तैश् च रजो-मलैः ।
गर-दूषी-विषाद्यैश् च स-रक्ताः संचिता मलाः ॥२०॥

कोष्ठं प्राप्य विकुर्वाणाः शोष-मूर्छा-भ्रमान्वितम् ।
कुर्युस् त्रि-लिङ्गम् उदरं शीघ्र-पाकं सु-दारुणम् ॥२१॥

बाधते तच् च सु-तरां शीत-वाताभ्र-दर्शने ।
अत्य्-आशितस्य संक्षोभाद् यान-यानादि-चेष्टितैः ॥२२॥

शीत-वाताभ्र-दर्शनैः अति-व्यवाय-कर्माध्व-वमन-व्याधि-कर्शनैः ।
वाम-पार्श्वाश्रितः प्लीहा च्युतः स्थानाद् विवर्धते ॥२३॥

शोणितं वा रसादिभ्यो विवृद्धं तं विवर्धयेत् ।
सो ऽष्ठीलेवाति-कठिनः प्राक् ततः कूर्म-पृष्ठ-वत् ॥२४॥

प्राकृतः कूर्म-पृष्ठ-वत् क्रमेण वर्धमानश् च कुक्षाव् उदरम् आवहेत् ।
श्वास-कास-पिपासास्य-वैरस्याध्मान-रुग्-ज्वरैः ॥२५॥

पाण्डु-त्व-मूर्छा-छर्दीभिर् दाह-मोहैश् च संयुतम् ।
अरुणाभं वि-वर्णं वा नील-हारिद्र-राजि-मत् ॥२६॥

पाण्डु-त्व-मूर्छाति-छर्दि- १२दाह-मोहैश् च संयुतम् उदावर्त-रुजानाहैर् मोह-तृड्-दहन-ज्वरैः ।
गौरवा-रुचि-काठिन्यैर् विद्यात् तत्र मलान् क्रमात् ॥२७॥

उदावर्त-रुग्-आनाहैर् प्लीह-वद् दक्षिणात् पार्श्वात् कुर्याद् यकृद् अपि च्युतम् ।
पक्ष्म-वालैः सहान्नेन भुक्तैर् बद्धायने गुदे ॥२८॥

दुर्-नामभिर् उदावर्तैर् अन्यैर् वान्त्रोपलेपिभिः ।
वर्चः-पित्त-कफान् रुद्ध्वा करोति कुपितो ऽनिलः ॥२९॥

अन्नैर् वान्त्रोपलेपिभिः अपानो जठरं तेन स्युर् दाह-ज्वर-तृट्-क्षवाः ।
कास-श्वासोरु-सदनं शिरो-हृन्-नाभि-पायु-रुक् ॥३०॥

स्युर् दाह-ज्वर-तृट्-क्षुधाः स्युर् दाह-ज्वर-तृट्-क्षुतः मल-सङ्गो ऽ-रुचिश् छर्दिर् उदरं मूढ-मारुतम् ।
स्थिरं नीलारुण-सिरा-राजी-नद्धम् अ-राजि वा ॥३१॥

नाभेर् उपरि च प्रायो गो-पुच्छाकृति जायते ।
अस्थ्य्-आदि-शल्यैः सान्नैश् चेद् भुक्तैर् अत्य्-अशनेन वा ॥३२॥

अस्थ्य्-आदि-शल्यैः सान्नैश् च भिद्यते पच्यते वान्त्रं तच्-छिद्रैश् च स्रवन् बहिः ।
आम एव गुदाद् एति ततो ऽल्पाल्पं स-विड्-रसः ॥३३॥

भिद्यते पच्यते चान्त्रं ऽल्पाल्पः स-विड्-रसः तुल्यः कुणप-गन्धेन पिच्छिलः पीत-लोहितः ।
शेषश् चापूर्य जठरं जठरं घोरम् आवहेत् ॥३४॥

वर्धयेत् तद् अधो नाभेर् आशु चैति जलात्म-ताम् ।
उद्रिक्त-दोष-रूपं च व्याप्तं च श्वास-तृड्-भ्रमैः ॥३५॥

वर्धते तद् अधो नाभेर् व्याप्तं च श्वास-तृड्-ज्वरैः छिद्रोदरम् इदं प्राहुः परिस्रावीति चापरे ।
प्रवृत्त-स्नेह-पानादेः सहसामाम्बु-पायिनः ॥३६॥

अत्य्-अम्बु-पानान् मन्दाग्नेः क्षीणस्याति-कृशस्य वा ।
रुद्ध्वाम्बु-मार्गान् अनिलः कफश् च जल-मूर्छितः ॥३७॥

वर्धयेतां तद् एवाम्बु तत्-स्थानाद् उदराश्रितौ ।
ततः स्याद् उदरं तृष्णा-गुद-स्रुति-रुजान्वितम् ॥३८॥

गुद-स्रुति-रुजा-युतम् कास-श्वासा-रुचि-युतं नाना-वर्ण-सिरा-ततम् ।
तोय-पूर्ण-दृति-स्पर्श-शब्द-प्रक्षोभ-वेपथु ॥३९॥

नाना-वर्ण-सिरान्वितम् नाना-वर्ण-सिराचितम् नाना-वर्ण-सिरावृतम् दकोदरं महत् स्निग्धं स्थिरम् आवृत्त-नाभि तत् ।
उपेक्षया च सर्वेषु दोषाः स्व-स्थानतश् च्युताः ॥४०॥

पाकाद् द्रवा द्रवी-कुर्युः संधि-स्रोतो-मुखान्य् अपि ।
स्वेदश् च बाह्य-स्रोतःसु विहतस् तिर्यग्-आस्थितः ॥४१॥

पाकाद् द्रवाद् द्रवी-कुर्युः तद् एवोदकम् आप्याय्य पिच्छां कुर्यात् तदा भवेत् ।
गुरूदरं स्थिरं वृत्तम् आहतं च न शब्द-वत् ॥४२॥

मृदु व्यपेत-राजीकं नाभ्यां स्पृष्टं च सर्पति ।
तद् अनूदक-जन्मास्मिन् कुक्षि-वृद्धिस् ततो ऽधिकम् ॥४३॥

सिरान्तर्धानम् उदक-जठरोक्तं च लक्षणम् ।
वात-पित्त-कफ-प्लीह-संनिपातोदकोदरम् ॥४४॥

कृच्छ्रं यथोत्तरं पक्षात् परं प्रायो ऽपरे हतः ।
सर्वं च जात-सलिलं रिष्टोक्तोपद्रवान्वितम् ॥४५॥

जन्मनैवोदरं सर्वं प्रायः कृच्छ्र-तमं मतम् ।
बलिनस् तद् अ-जाताम्बु यत्न-साध्यं नवोत्थितम् ॥४६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:49:08.2430000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

विदुला

  • n. एक प्राचीन क्षत्रिय स्त्री, जो महाभारत में निर्देशित ‘विदुला पुत्र संवाद’ के कारण अमर हो गयी है । यह सौवीर देश के राजा की पत्नी थी, जिसके पुत्र का नाम संजय था । इसका पुत्र जब छोटा था, उस समय इसका पति मृत हुआ। यही सुअवसर पा कर, सौवीर देश के पास ही बसे हुए सिन्धुदेश ने संजय पर आक्रमण किया, एवं उसे रणभूमि से भाग कर आये हुए अपने पुत्र की इसने कटु आलोचना की, जिसका पुनर्निवेदन कुंती ने युधिष्ठिर को युद्धप्रवृत्त बनाने के लिए किया था । महाभारत में यही संवाद ‘विदुला-पुत्र संवाद’ नाम से प्रसिद्ध है [म. उ. १३१-१३४] । इसके नाम के लिए ‘विदुरा’ पाठभेद भी प्राप्त है । 
  • विदुला-पुत्र संवाद n. महाभारत में राजनैतिक दृष्टि से उपदेश देनेवाले जों भी कुछ संवाद प्राप्त है, उनमें यह संवाद श्रेष्ठ माना जाता है । इस संवाद में महाभारत के नाम से प्रसिद्ध हुए बहुत सारे सुभाषित ग्रथित किये गये है । इसने अपने पुत्र से कहा था, ‘पराक्रमी पुरुष के लिए यही योग्य है कि, पौरुषहीन जीवन दीर्घकाल जीने की अपेक्षा, वह अल्पकाल तक ही जी कर सारे संसार को अपने पराक्रम से स्तिमित करे (मुहूर्तं ज्वलितं श्रेयः न तु धूमायितं चिरम्) । आत्संतुष्टता के कारण ऎश्र्वर्य विनष्ट होता है (संतोषो वै श्रियं हन्ति) । इसी कारण पराक्रमी पुरुष ने सदैव कार्यरत रहना चाहिए, एवं इसी धारणा से काम करना चाहिए कि, जान जायें, मगर मस्तक नीचा न हो जायें (उद्यच्छेदैव न नमेदुद्युमो ह्येव पौरुषम्) [म. उ. १३१.१३, ३१, १३२.३८] । इसने आगे कहा था, ‘उद्योगी पुरुष को यही चाहिये कि -- उत्थातव्यं जागृतव्यं योक्तव्यं भूतिकर्मसु। भविष्यतीत्येव मनः कृत्वा सततमव्यथैः।। [म. उ. १३३.२७] ।(सदैव विजिगिषु एवं जागृत रह कर ऎश्र्वर्य संपादन करें। जो कार्य अंगीकृत कियाहै, वह यशस्वी होनेवाला ही है, ऐसी धारणा मन में रख कर सतत प्रयत्न करते रहें) । विदुला के इसी संवाद का निर्देश युधिष्ठिर ने कुंती के पास पुनः एक बार किया था [म. आश्र्व. २२.२०] । ‘जय’ नामक महाभारत की रचना भी, इसी संवाद को आधारभूत मान कर की गयी है । 
RANDOM WORD

Did you know?

चंद्र व सूर्य यांच्या ग्रहणी जन्म झाल्यास त्याचे काय परिणाम होतात? शांती, विधी काही आहे काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site