TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

निदानस्थान - अध्याय ४

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अध्याय ४
कास-वृद्ध्या भवेच् छ्वासः पूर्वैर् वा दोष-कोपनैः ।
आमातीसार-वमथु-विष-पाण्डु-ज्वरैर् अपि ॥१॥

रजो-धूमानिलैर् मर्म-घाताद् अति-हिमाम्बुना ।
क्षुद्रकस् तमकश् छिन्नो महान् ऊर्ध्वश् च पञ्चमः ॥२॥

कफोपरुद्ध-गमनः पवनो विष्वग्-आस्थितः ।
प्राणोदकान्न-वाहीनि दुष्टः स्रोतांसि दूषयन् ॥३॥

उरः-स्थः कुरुते श्वासम् आमाशय-समुद्भवम् ।
प्राग्-रूपं तस्य हृत्-पार्श्व-शूलं प्राण-विलोम-ता ॥४॥

आनाहः शङ्ख-भेदश् च तत्रायासाति-भोजनैः ।
प्रेरितः प्रेरयेत् क्षुद्रं स्वयं संशमनं मरुत् ॥५॥

प्रतिलोमं सिरा गच्छन्न् उदीर्य पवनः कफम् ।
परिगृह्य शिरो-ग्रीवम् उरः पार्श्वे च पीडयन् ॥६॥

कासं घुर्घुरकं मोहम् अ-रुचिम् पीनसं तृषम् ।
करोति तीव्र-वेगं च श्वासं प्राणोपतापिनम् ॥७॥

प्रताम्येत् तस्य वेगेन निष्ठ्यूतान्ते क्षणं सुखी ।
कृच्छ्राच् छयानः श्वसिति निषण्णः स्वास्थ्यम् ऋच्छति ॥८॥

उच्छ्रिताक्षो ललाटेन स्विद्यता भृशम् अर्ति-मान् ।
विशुष्कास्यो मुहुः-श्वासी काङ्क्षत्य् उष्णं स-वेपथुः ॥९॥

मेघाम्बु-शीत-प्राग्-वातैः श्लेष्मलैश् च विवर्धते ।
स याप्यस् तमको साध्यो नवो वा बलिनो भवेत् ॥१०॥

ज्वर-मूर्छा-युतः शीतैः शाम्येत् प्रतमकस् तु सः ।
छिन्नाच् छ्वसिति विच्छिन्नं मर्म-च्छेद-रुजार्दितः ॥११॥

स-स्वेद-मूर्छः सानाहो वस्ति-दाह-निरोध-वान् ।
अधो-दृग् विप्लुताक्षश् च मुह्यन् रक्तैक-लोचनः ॥१२॥

शुष्कास्यः प्रलपन् दीनो नष्ट-च्छायो वि-चेतनः ।
महता महता दीनो नादेन श्वसिति क्रथन् ॥१३॥

महतो महता दीनो उद्धूयमानः संरब्धो मत्तर्षभ इवा-निशम् ।
प्रणष्ट-ज्ञान-विज्ञानो विभ्रान्त-नयनाननः ॥१४॥

वक्षः समाक्षिपन् बद्ध-मूत्र-वर्चा विशीर्ण-वाक् ।
शुष्क-कण्ठो मुहुर् मुह्यन् कर्ण-शङ्ख-शिरो-ऽति-रुक् ॥१५॥

दीर्घम् ऊर्ध्वं श्वसित्य् ऊर्ध्वान् न च प्रत्याहरत्य् अधः ।
श्लेष्मावृत-मुख-स्रोताः क्रुद्ध-गन्ध-वहार्दितः ॥१६॥

ऊर्ध्व-दृग् वीक्षते भ्रान्तम् अक्षिणी परितः क्षिपन् ।
मर्मसु च्छिद्यमानेषु परिदेवी निरुद्ध-वाक् ॥१७॥

एते सिध्येयुर् अ-व्यक्ता व्यक्ताः प्राण-हरा ध्रुवम् ।
श्वासैक-हेतु-प्राग्-रूप-संख्या-प्रकृति-संश्रयाः ॥१८॥

संख्या-प्रकृति-संश्रया हिध्मा भक्तोद्भवा क्षुद्रा यमला महतीति च ।
गम्भीरा च मरुत् तत्र त्वरया-युक्ति-सेवितैः ॥१९॥

रूक्ष-तीक्ष्ण-खरा-सात्म्यैर् अन्न-पानैः प्रपीडितः ।
करोति हिध्माम् अ-रुजां मन्द-शब्दां क्षवानुगाम् ॥२०॥

शमं सात्म्यान्न-पानेन या प्रयाति च सान्न-जा ।
आयासात् पवनः क्षुद्रः क्षुद्रां हिध्मां प्रवर्तयेत् ॥२१॥

आयासात् पवनः क्रुद्धः जत्रु-मूल-प्रविसृताम् अल्प-वेगां मृदुं च सा ।
वृद्धिम् आयास्यतो याति भुक्त-मात्रे च मार्दवम् ॥२२॥

चिरेण यमलैर् वेगैर् आहारे या प्रवर्तते ।
परिणामोन्-मुखे वृद्धिं परिणामे च गच्छति ॥२३॥

कम्पयन्ती शिरो-ग्रीवम् आध्मातस्याति-तृष्यतः ।
प्रलाप-च्छर्द्य्-अतीसार-नेत्र-विप्लुति-जृम्भिणः ॥२४॥

कम्पयन्ती शिरो-ग्रीवाम् यमला वेगिनी हिध्मा परिणाम-वती च सा ।
स्तब्ध-भ्रू-शङ्ख-युग्मस्य सास्र-विप्लुत-चक्षुषः ॥२५॥

ध्वस्त-भ्रू-शङ्ख-युग्मस्य साश्रु-विप्लुत-चक्षुषः स्तम्भयन्ती तनुं वाचं स्मृतिं संज्ञां च मुष्णती ।
रुन्धती मार्गम् अन्नस्य कुर्वती मर्म-घट्टनम् ॥२६॥

पृष्ठतो नमनं शोषं महा-हिध्मा प्रवर्तते ।
महा-मूला महा-शब्दा महा-वेगा महा-बला ॥२७॥

पक्वाशयाद् वा नाभेर् वा पूर्व-वद् या प्रवर्तते ।
तद्-रूपा सा मुहुः कुर्याज् जृम्भाम् अङ्ग-प्रसारणम् ॥२८॥

गम्भीरेणानुनादेन गम्भीरा तासु साधयेत् ।
आद्ये द्वे वर्जयेद् अन्त्ये सर्व-लिङ्गां च वेगिनीम् ॥२९॥

सर्वाश् च संचितामस्य स्थविरस्य व्यवायिनः ।
व्याधिभिः क्षीण-देहस्य भक्त-च्छेद-क्षतस्य वा ॥३०॥

सर्वे ऽपि रोगा नाशाय न त्व् एवं शीघ्र-कारिणः ।
हिध्मा-श्वासौ यथा तौ हि मृत्यु-काले कृतालयौ ॥३१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:49:04.8130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Antidesma ghescembilla Gaertn

  • जोंधा 
RANDOM WORD

Did you know?

अंत्येष्टी म्हणजे काय ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.