TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

निदानस्थान - अध्याय ११

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अध्याय ११
भुक्तैः पर्युषितात्य्-उष्ण-रूक्ष-शुष्क-विदाहिभिः ।
जिह्म-शय्या-विचेष्टाभिस् तैस् तैश् चासृक्-प्रदूषणैः ॥१॥

दुष्ट-त्वङ्-मांस-मेदो-ऽस्थि-स्नाय्व्-असृक्-कण्डराश्रयः ।
यः शोफो बहिर् अन्तर् वा महा-मूलो महा-रुजः ॥२॥

दुष्टस् त्वङ्-मांस-मेदो-ऽस्थि- वृत्तः स्याद् आयतो यो वा स्मृतः षो-ढा स विद्रधिः ।
दोषैः पृथक् समुदितैः शोणितेन क्षतेन च ॥३॥

बाह्यो ऽत्र तत्र तत्राङ्गे दारुणो ग्रथितोन्नतः ।
आन्तरो दारुण-तरो गम्भीरो गुल्म-वद् घनः ॥४॥

वल्मीक-वत् समुच्छ्रायी शीघ्र-घात्य् अग्नि-शस्त्र-वत् ।
नाभि-वस्ति-यकृत्-प्लीह-क्लोम-हृत्-कुक्षि-वङ्क्षणे ॥५॥

स्याद् वृक्कयोर् अपाने च वातात् तत्राति-तीव्र-रुक् ।
श्यावारुणश् चिरोत्थान-पाको विषम-संस्थितिः ॥६॥

स्याद् वृक्कयोर् अपाने वा व्यध-च्छेद-भ्रमानाह-स्पन्द-सर्पण-शब्द-वान् ।
रक्त-ताम्रासितः पित्तात् तृण्-मोह-ज्वर-दाह-वान् ॥७॥

क्षिप्रोत्थान-प्रपाकश् च पाण्डुः कण्डू-युतः कफात् ।
सोत्क्लेश-शीतक-स्तम्भ-जृम्भा-रोचक-गौरवः ॥८॥

चिरोत्थान-विपाकश् च संकीर्णः संनिपाततः ।
सामर्थ्याच् चात्र विभजेद् बाह्याभ्यन्तर-लक्षणम् ॥९॥

चिरोत्थान-प्रपाकश् च कृष्ण-स्फोटावृतः श्यावस् तीव्र-दाह-रुजा-ज्वरः ।
पित्त-लिङ्गो ऽसृजा बाह्यः स्त्रीणाम् एव तथान्तरः ॥१०॥

शस्त्राद्यैर् अभिघातेन क्षते वा-पथ्य-कारिणः ।
क्षतोष्मा वायु-विक्षिप्तः स-रक्तं पित्तम् ईरयन् ॥११॥

स-रक्तं पित्तम् ईरयेत् पित्तासृग्-लक्षणं कुर्याद् विद्रधिं भूर्य्-उपद्रवम् ।
तेषूपद्रव-भेदश् च स्मृतो ऽधिष्ठान-भेदतः ॥१२॥

नाभ्यां हिध्मा भवेद् वस्तौ मूत्रं कृच्छ्रेण पूति च ।
श्वासो यकृति रोधस् तु प्लीह्न्य् उच्छ्वासस्य तृट् पुनः ॥१३॥

गल-ग्रहश् च क्लोम्नि स्यात् सर्वाङ्ग-प्रग्रहो हृदि ।
प्रमोहस् तमकः कासो हृदये घट्टनं व्यथा ॥१४॥

कुक्षि-पार्श्वान्तरांसार्तिः कुक्षाव् आटोप-जन्म च ।
सक्थ्नोर् ग्रहो वङ्क्षणयोर् वृक्कयोः कटि-पृष्ठयोः ॥१५॥

पार्श्वयोश् च व्यथा पायौ पवनस्य निरोधनम् ।
आम-पक्व-विदग्ध-त्वं तेषां शोफ-वद् आदिशेत् ॥१६॥

नाभेर् ऊर्ध्वं मुखात् पक्वाः प्रस्रवन्त्य् अधरे गुदात् ।
गुदास्यान् नाभि-जो विद्याद् दोषं क्लेदाच् च विद्रधौ ॥१७॥

उभाभ्यां नाभि-जो विद्याद् यथा-स्वं व्रण-वत् तत्र विवर्ज्यः संनिपात-जः ।
पक्वो हृन्-नाभि-वस्ति-स्थो भिन्नो ऽन्तर् बहिर् एव वा ॥१८॥

पक्वश् चान्तः स्रवन् वक्त्रात् क्षीणस्योपद्रवान्वितः ।
एवम् एव स्तन-सिरा विवृताः प्राप्य योषिताम् ॥१९॥

सूतानां गर्भिणीनां वा संभवेच् छ्वयथुर् घनः ।
स्तने स-दुग्धे ऽ-दुग्धे वा बाह्य-विद्रधि-लक्षणः ॥२०॥

नाडीनां सूक्ष्म-वक्त्र-त्वात् कन्यानां न स जायते ।
क्रुद्धो रुद्ध-गतिर् वायुः शोफ-शूल-करश् चरन् ॥२१॥

कन्यानां तु न जायते क्रुद्धो ऽन्-ऊर्ध्व-गतिर् वायुः मुष्कौ वङ्क्षणतः प्राप्य फल-कोशाभिवाहिनीः ।
प्रपीड्य धमनीर् वृद्धिं करोति फल-कोशयोः ॥२२॥

दोषास्र-मेदो-मूत्रान्त्रैः स वृद्धिः सप्त-धा गदः ।
मूत्रान्त्र-जाव् अप्य् अनिलाद् धेतु-भेदस् तु केवलम् ॥२३॥

वात-पूर्ण-दृति-स्पर्शो रूक्षो वाताद् अ-हेतु-रुक् ।
पक्वोदुम्बर-संकाशः पित्ताद् दाहोष्म-पाक-वान् ॥२४॥

कफाच् छीतो गुरुः स्निग्धः कण्डू-मान् कठिनो ऽल्प-रुक् ।
कृष्ण-स्फोटावृतः पित्त-वृद्धि-लिङ्गश् च रक्ततः ॥२५॥

कृष्णः स्फोटावृतः पित्त- कफ-वन् मेदसा वृद्धिर् मृदुस् ताल-फलोपमः ।
मूत्र-धारण-शीलस्य मूत्र-जः स तु गच्छतः ॥२६॥

अम्भोभिः पूर्ण-दृति-वत् क्षोभं याति स-रुङ् मृदुः ।
मूत्र-कृच्छ्रम् अधस्-ताच् च वलयं फल-कोशयोः ॥२७॥

वात-कोपिभिर् आहारैः शीत-तोयावगाहनैः ।
धारणेरण-भाराध्व-विषमाङ्ग-प्रवर्तनैः ॥२८॥

क्षोभणैः क्षुभितो ऽन्यैश् च क्षुद्रान्त्रावयवं यदा ।
पवनो वि-गुणी-कृत्य स्व-निवेशाद् अधो नयेत् ॥२९॥

पवनो द्वि-गुणी-कृत्य कुर्याद् वङ्क्षण-संधि-स्थो ग्रन्थ्य्-आभं श्वयथुं तदा ॥३०॥
उपेक्ष्यमाणस्य च मुष्क-वृद्धिम् आध्मान-रुक्-स्तम्भ-वतीं स वायुः ॥३०॥
प्रपीडितो ऽन्तः स्वन-वान् प्रयाति प्रध्मापयन्न् एति पुनश् च मुक्तः ॥३०॥
अन्त्र-वृद्धिर् अ-साध्यो ऽयं वात-वृद्धि-समाकृतिः ॥३१॥

इति वृद्धि-निदानम् अथ गुल्म-निदानम् ॥३१+१॥

रूक्ष-कृष्णारुण-सिरा-तन्तु-जाल-गवाक्षितः ।
गुल्मो ऽष्ट-धा पृथग् दोषैः संसृष्टैर् निचयं गतैः ॥३२॥

आर्तवस्य च दोषेण नारीणां जायते ऽष्टमः ।
ज्वर-च्छर्द्य्-अतिसाराद्यैर् वमनाद्यैश् च कर्मभिः ॥३३॥

कर्शितो वातलान्य् अत्ति शीतं वाम्बु बुभुक्षितः ।
यः पिबत्य् अनु चान्नानि लङ्घन-प्लवनादिकम् ॥३४॥

शीतं चाम्बु बुभुक्षितः सेवते देह-संक्षोभि च्छर्दिं वा समुदीरयेत् ।
अन्-उदीर्णाम् उदीर्णान् वा वातादीन् न विमुञ्चति ॥३५॥

स्नेह-स्वेदाव् अन्-अभ्यस्य शोधनं वा निषेवते ।
शुद्धो वाशु विदाहीनि भजते स्यन्दनानि वा ॥३६॥

वातोल्बणास् तस्य मलाः पृथक् क्रुद्धा द्वि-शो ऽथ-वा ।
सर्वे वा रक्त-युक्ता वा महा-स्रोतो-ऽनुशायिनः ॥३७॥

ऊर्ध्वाधो-मार्गम् आवृत्य कुर्वते शूल-पूर्वकम् ।
स्पर्शोपलभ्यं गुल्माख्यम् उत्प्लुतं ग्रन्थि-रूपिणम् ॥३८॥

उन्नतं ग्रन्थि-रूपिणम् कर्शनात् कफ-विट्-पित्तैर् मार्गस्यावरणेन वा ।
वायुः कृताश्रयः कोष्ठे रौक्ष्यात् काठिन्यम् आगतः ॥३९॥

स्व-तन्त्रः स्वाश्रये दुष्टः पर-तन्त्रः पराश्रये ।
पिण्डित-त्वाद् अ-मूर्तो ऽपि मूर्त-त्वम् इव संश्रितः ॥४०॥

गुल्म इत्य् उच्यते वस्ति-नाभि-हृत्-पार्श्व-संश्रयः ।
वातान् मन्या-शिरः-शूलं ज्वर-प्लीहान्त्र-कूजनम् ॥४१॥

व्यधः सूच्येव विट्-सङ्गः कृच्छ्राद् उच्छ्वसनं मुहुः ।
स्तम्भो गात्रे मुखे शोषः कार्श्यं विषम-वह्नि-ता ॥४२॥

रूक्ष-कृष्ण-त्वग्-आदि-त्वं चल-त्वाद् अनिलस्य च ।
अ-निरूपित-संस्थान-स्थान-वृद्धि-क्षय-व्यथः ॥४३॥

पिपीलिका-व्याप्त इव गुल्मः स्फुरति तुद्यते ।
पित्ताद् दाहो ऽम्लको मूर्छा-विड्-भेद-स्वेद-तृड्-ज्वराः ॥४४॥

हारिद्र-त्वं त्वग्-आद्येषु गुल्मश् च स्पर्शना-सहः ।
दूयते दीप्यते सोष्मा स्व-स्थानं दहतीव च ॥४५॥

कफात् स्तैमित्यम् अ-रुचिः सदनं शिशिर-ज्वरः ।
पीनसालस्य-हृल्-लास-कास-शुक्ल-त्वग्-आदि-ताः ॥४६॥

गुल्मो ऽवगाढः कठिनो गुरुः सुप्तः स्थिरो ऽल्प-रुक् ।
स्व-दोष-स्थान-धामानः स्वे स्वे काले च रुक्-कराः ॥४७॥

प्रायस् त्रयस् तु द्वन्द्वोत्था गुल्माः संसृष्ट-लक्षणाः ।
सर्व-जस् तीव्र-रुग्-दाहः शीघ्र-पाकी घनोन्नतः ॥४८॥

सो ऽ-साध्यो रक्त-गुल्मस् तु स्त्रिया एव प्रजायते ।
ऋतौ वा नव-सूता वा यदि वा योनि-रोगिणी ॥४९॥

सेवते वातलानि स्त्री क्रुद्धस् तस्याः समीरणः ।
निरुणद्ध्य् आर्तवं योन्यां प्रति-मासम् अवस्थितम् ॥५०॥

कुक्षिं करोति तद्-गर्भ-लिङ्गम् आविष्-करोति च ।
हृल्-लास-दौर्हृद-स्तन्य-दर्शन-क्षाम-तादिकम् ॥५१॥

क्रमेण वायु-संसर्गात् पित्त-योनि-तया च तत् ।
शोणितं कुरुते तस्या वात-पित्तोत्थ-गुल्म-जान् ॥५२॥

रुक्-स्तम्भ-दाहातीसार-तृड्-ज्वरादीन् उपद्रवान् ।
गर्भाशये च सु-तरां शूलं दुष्टासृग्-आश्रये ॥५३॥

योन्याश् च स्राव-दौर्गन्ध्य-तोद-स्पन्दन-वेदनाः ।
न चाङ्गैर् गर्भ-वद् गुल्मः स्फुरत्य् अपि तु शूल-वान् ॥५४॥

तोद-स्फुरण-वेदनाः क्लेद-स्वेदन-वेदनाः पिण्डी-भूतः स एवास्याः कदा-चित् स्पन्दते चिरात् ।
न चास्या वर्धते कुक्षिर् गुल्म एव तु वर्धते ॥५५॥

स्व-दोष-संश्रयो गुल्मः सर्वो भवति तेन सः ।
पाकं चिरेण भजते नैव वा विद्रधिः पुनः ॥५६॥

पच्यते शीघ्रम् अत्य्-अर्थं दुष्ट-रक्ताश्रय-त्वतः ।
अतः शीघ्र-विदाहि-त्वाद् विद्रधिः सो ऽभिधीयते ॥५७॥

गुल्मे ऽन्तर्-आश्रये वस्ति-कुक्षि-हृत्-प्लीह-वेदनाः ।
अग्नि-वर्ण-बल-भ्रंशो वेगानां चा-प्रवर्तनम् ॥५८॥

कुक्षि-हृत्-पार्श्व-वेदनाः अतो विपर्ययो बाह्ये कोष्ठाङ्गेषु तु नाति-रुक् ।
वैवर्ण्यम् अवकाशस्य बहिर् उन्नत-ताधिकम् ॥५९॥

साटोपम् अत्य्-उग्र-रुजम् आध्मानम् उदरे भृशम् ।
ऊर्ध्वाधो-वात-रोधेन तम् आनाहं प्रचक्षते ॥६०॥

घनो ऽष्ठीलोपमो ग्रन्थिर् अष्ठीलोर्ध्वं समुन्नतः ।
आनाह-लिङ्गस् तिर्यक् तु प्रत्यष्ठीला तद्-आकृतिः ॥६१॥

आनाह-लिङ्गस् तिर्यक् च पक्वाशयाद् गुदोपस्थं वायुस् तीव्र-रुजः प्रयान् ।
तूणी प्रतूणी तु भवेत् स एवातो विपर्यये ॥६२॥

उद्गार-बाहुल्य-पुरीष-बन्ध-तृप्त्य्-अ-क्षम-त्वान्त्र-विकूजनानि ।
आटोपम् आध्मानम् अ-पक्ति-शक्तिम् आसन्न-गुल्मस्य वदन्ति चिह्नम् ॥६३॥

आटोपम् आध्मानम् अ-पक्त्य्-अ-शक्तिम्

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:49:07.9930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

root nodule

  • स्त्री. Bot. मूलग्रंथि 
RANDOM WORD

Did you know?

vastudoshavar udakshant ha paryay ahe ka ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site