निदानस्थान - अध्याय ५

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अनेक-रोगानुगतो बहु-रोग-पुरो-गमः ।
राज-यक्ष्मा क्षयः शोषो रोग-राड् इति च स्मृतः ॥१॥

नक्षत्राणां द्वि-जानां च राज्ञो ऽभूद् यद् अयं पुरा ।
यच् च राजा च यक्ष्मा च राज-यक्ष्मा ततो मतः ॥२॥

देहौषध-क्षय-कृतेः क्षयस् तत्-संभवाच् च सः ।
रसादि-शोषणाच् छोषो रोग-राट् तेषु राजनात् ॥३॥

५. रोग-राट् रोग-राजनात् साहसं वेग-संरोधः शुक्रौजः-स्नेह-संक्षयः ।
अन्न-पान-विधि-त्यागश् चत्वारस् तस्य हेतवः ॥४॥

तैर् उदीर्णो ऽनिलः पित्तं कफं चोदीर्य सर्वतः ।
शरीर-संधीन् आविश्य तान् सिराश् च प्रपीडयन् ॥५॥

मुखानि स्रोतसां रुद्ध्वा तथैवातिविवृत्य वा ।
सर्पन्न् ऊर्ध्वम् अधस् तिर्यग् यथा-स्वं जनयेद् गदान् ॥६॥

रूपं भविष्यतस् तस्य प्रतिश्यायो भृशं क्षवः ।
प्रसेको मुख-माधुर्यं सदनं वह्नि-देहयोः ॥७॥

स्थाल्य्-अमत्रान्न-पानादौ शुचाव् अप्य् अ-शुचीक्षणम् ।
मक्षिका-तृण-केशादि-पातः प्रायो ऽन्न-पानयोः ॥८॥

हृल्-लासश् छर्दिर् अ-रुचिर् अश्नतो ऽपि बल-क्षयः ।
पाण्योर् अवेक्षा पादास्य-शोफो ऽक्ष्णोर् अति-शुक्ल-ता ॥९॥

बाह्वोः प्रमाण-जिज्ञासा काये बैभत्स्य-दर्शनम् ।
स्त्री-मद्य-मांस-प्रिय-ता घृणि-त्वं मूर्ध-गुण्ठनम् ॥१०॥

नख-केशाति-वृद्धिश् च स्वप्ने चाभिभवो भवेत् ।
पतङ्ग-कृकलासाहि-कपि-श्वापद-पक्षिभिः ॥११॥

कपि-श्वापद-पत्त्रिभिः केशास्थि-तुष-भस्मादि-राशौ समधिरोहणम् ।
शून्यानां ग्राम-देशानां दर्शनं शुष्यतो ऽम्भसो ॥१२॥

ज्योतिर् गिरीणां पततां ज्वलतां च मही-रुहाम् ।
पीनस-श्वास-कासांस-मूर्ध-स्वर-रुजो ऽ-रुचिः ॥१३॥

ऊर्ध्वं विड्-भ्रंश-संशोषाव् अधश् छर्दिश् च कोष्ठ-गे ।
तिर्यक्-स्थे पार्श्व-रुग्-दोषे संधि-गे भवति ज्वरः ॥१४॥

ऊर्ध्वं विट्-स्रंस-संशोषाव् अधश् छर्दिस् तु कोष्ठ-गे रूपाण्य् एका-दशैतानि जायन्ते राज-यक्ष्मिणः ।
तेषाम् उपद्रवान् विद्यात् कण्ठोद्ध्वंसम् उरो-रुजम् ॥१५॥

जृम्भाङ्ग-मर्द-निष्ठीव-वह्नि-सादास्य-पूति-ताः ।
तत्र वाताच् छिरः-पार्श्व-शूलम् अंसाङ्ग-मर्दनम् ॥१६॥

कण्ठोद्ध्वंसः स्वर-भ्रंशः पित्तात् पादांस-पाणिषु ।
दाहो ऽतीसारो ऽसृक्-छर्दिर् मुख-गन्धो ज्वरो मदः ॥१७॥

कफाद् अ-रोचकश् छर्दिः कासो मूर्धाङ्ग-गौरवम् ।
प्रसेकः पीनसः श्वासः स्वर-सादो ऽल्प-वह्नि-ता ॥१८॥

स्वर-भेदो ऽल्प-वह्नि-ता दोषैर् मन्दानल-त्वेन सोपलेपैः कफोल्बणैः ।
स्रोतो-मुखेषु रुद्धेषु धातूष्मस्व् अल्पकेषु च ॥१९॥

विदह्यमानः स्व-स्थाने रसस् तांस् तान् उपद्रवान् ।
कुर्याद् अ-गच्छन् मांसादीन् असृक् चोर्ध्वं प्रधावति ॥२०॥

पच्यते कोष्ठ एवान्नम् अन्न-पक्त्रैव चास्य यत् ।
प्रायो ऽस्मान् मल-तां यातं नैवालं धातु-पुष्टये ॥२१॥

रसो ऽप्य् अस्य न रक्ताय मांसाय कुत एव तु ।
उपस्तब्धः स शकृता केवलं वर्तते क्षयी ॥२२॥

उपष्टब्धः स शकृता लिङ्गेष्व् अल्पेष्व् अपि क्षीणं व्याध्य्-औषध-बला-क्षमम् ।
वर्जयेत् साधयेद् एव सर्वेष्व् अपि ततो ऽन्य-था ॥२३॥

वर्जयेत् साधयेद् एवं क्षीण-मांस-बलं जह्यात् पूर्व-लिङ्गैर् उपद्रुतम् ।
प्रत्याख्याय नरं चाशु द्रव्य-वन्तम् उपाचरेत् ॥२३+१॥

दोषैर् व्यस्तैः समस्तैश् च क्षयात् षष्ठश् च मेदसा ।
स्वर-भेदो भवेत् तत्र क्षामो रूक्षश् चलः स्वरः ॥२४॥

क्षयात् षष्ठश् च मेदसः शूक-पूर्णाभ-कण्ठ-त्वं स्निग्धोष्णोपशयो ऽनिलात् ।
पित्तात् तालु-गले दाहः शोष उक्तावसूयनम् ॥२५॥

लिम्पन्न् इव कफात् कण्ठं मन्दः खुरखुरायते ।
स्वरो विबद्धः सर्वैस् तु सर्व-लिङ्गः क्षयात् कषेत् ॥२६॥

धूमायतीव चात्य्-अर्थं मेदसा श्लेष्म-लक्षणः ।
कृच्छ्र-लक्ष्याक्षरश् चात्र सर्वैर् अन्त्यं च वर्जयेत् ॥२७॥

अ-रोचको भवेद् दोषैर् जिह्वा-हृदय-संश्रयैः ।
संनिपातेन मनसः संतापेन च पञ्चमः ॥२८॥

जिह्वा-हृदय-संश्रितैः कषाय-तिक्त-मधुरं वातादिषु मुखं क्रमात् ।
सर्वोत्थे वि-रसं शोक-क्रोधादिषु यथा-मलम् ॥२९॥

छर्दिर् दोषैः पृथक् सर्वैर् द्विष्टैर् अर्थैश् च पञ्चमी ।
उदानो विकृतो दोषान् सर्वास्व् अप्य् ऊर्ध्वम् अस्यति ॥३०॥

तासूत्क्लेशास्य-लावण्य-प्रसेका-रुचयो ऽग्र-गाः ।
नाभि-पृष्ठं रुजन् वायुः पार्श्वे चाहारम् उत्क्षिपेत् ॥३१॥

ततो विच्छिन्नम् अल्पाल्पं कषायं फेनिलं वमेत् ।
शब्दोद्गार-युतं कृष्णम् अच्छं कृच्छ्रेण वेग-वत् ॥३२॥

कासास्य-शोष-हृन्-मूर्ध-स्वर-पीडा-क्लमान्वितः ।
पित्तात् क्षारोदक-निभं धूम्रं हरित-पीतकम् ॥३३॥

सासृग् अम्लं कटूष्णं च तृण्-मूर्छा-ताप-दाह-वत् ।
कफात् स्निग्धं घनं शीतं श्लेष्म-तन्तु-गवाक्षितम् ॥३४॥

तृण्-मूर्छा-ताप-दाह-वान् मधुरं लवणं भूरि प्रसक्तं रोम-हर्षणम् ।
मुख-श्वयथु-माधुर्य-तन्द्रा-हृल्-लास-कास-वान् ॥३५॥

सर्व-लिङ्गा मलैः सर्वै रिष्टोक्ता या च तां त्यजेत् ।
पूत्य्-अ-मेध्या-शुचि-द्विष्ट-दर्शन-श्रवणादिभिः ॥३६॥

तप्ते चित्ते हृदि क्लिष्टे छर्दिर् द्विष्टार्थ-योग-जा ।
वातादीन् एव विमृशेत् कृमि-तृणाम-दौर्हृदे ॥३७॥

शूल-वेपथु-हृल्-लासैर् विशेषात् कृमि-जां वदेत् ।
कृमि-हृद्-रोग-लिङ्गैश् च स्मृताः पञ्च तु हृद्-गदाः ॥३८॥

तेषां गुल्म-निदानोक्तैः समुत्थानैश् च संभवः ।
वातेन शूल्यते ऽत्य्-अर्थं तुद्यते स्फुटतीव च ॥३९॥

समुत्थानैः समुद्भवः भिद्यते शुष्यति स्तब्धं हृदयं शून्य-ता द्रवः ।
अ-कस्माद् दीन-ता शोको भयं शब्दा-सहिष्णु-ता ॥४०॥

हृदयं शून्य-ता-द्रवम् वेपथुर् वेष्टनं मोहः श्वास-रोधो ऽल्प-निद्र-ता ।
पित्तात् तृष्णा भ्रमो मूर्छा दाहः स्वेदो ऽम्लकः क्लमः ॥४१॥

छर्दनं चाम्ल-पित्तस्य धूमकः पीत-ता ज्वरः ।
श्लेष्मणा हृदयं स्तब्धं भारिकं साश्म-गर्भ-वत् ॥४२॥

तमकः पीत-ता ज्वरः कासाग्नि-साद-निष्ठीव-निद्रालस्या-रुचि-ज्वराः ।
सर्व-लिङ्गस् त्रिभिर् दोषैः कृमिभिः श्याव-नेत्र-ता ॥४३॥

सर्व-लिङ्गं त्रिभिर् दोषैः तमः-प्रवेशो हृल्-लासः शोषः कण्डूः कफ-स्रुतिः ।
हृदयं प्रततं चात्र क्रकचेनेव दार्यते ॥४४॥

चिकित्सेद् आमयं घोरं तं शीघ्रं शीघ्र-कारिणम् ।
वातात् पित्तात् कफात् तृष्णा संनिपाताद् रस-क्षयात् ॥४५॥

षष्ठी स्याद् उपसर्गाच् च वात-पित्ते तु कारणम् ।
सर्वासु तत्-प्रकोपो हि सौम्य-धातु-प्रशोषणात् ॥४६॥

सर्व-देह-भ्रमोत्कम्प-ताप-तृड्-दाह-मोह-कृत् ।
जिह्वा-मूल-गल-क्लोम-तालु-तोय-वहाः सिराः ॥४७॥

संशोष्य तृष्णा जायन्ते तासां सामान्य-लक्षणम् ।
मुख-शोषो जला-तृप्तिर् अन्न-द्वेषः स्वर-क्षयः ॥४८॥

कण्ठौष्ठ-जिह्वा-कार्कश्यं जिह्वा-निष्क्रमणं क्लमः ।
प्रलापश् चित्त-विभ्रंशस् तृड्-ग्रहोक्तास् तथामयाः ॥४९॥

मारुतात् क्षाम-ता दैन्यं शङ्ख-तोदः शिरो-भ्रमः ।
गन्धा-ज्ञानास्य-वैरस्य-श्रुति-निद्रा-बल-क्षयाः ॥५०॥

गन्धा-ज्ञानास्य-वैरस्यं श्रुति-निद्रा-बल-क्षयः श्रुति-निद्रा-बल-क्षयः शीताम्बु-पानाद् वृद्धिश् च पित्तान् मूर्छास्य-तिक्त-ता ।
रक्तेक्षण-त्वं प्रततं शोषो दाहो ऽति-धूमकः ॥५१॥

कफो रुणद्धि कुपितस् तोय-वाहिषु मारुतम् ।
स्रोतःसु स कफस् तेन पङ्क-वच् छोष्यते ततः ॥५२॥

शूकैर् इवाचितः कण्ठो निद्रा मधुर-वक्त्र-ता ।
आध्मानं शिरसो जाड्यं स्तैमित्य-च्छर्द्य्-अ-रोचकाः ॥५३॥

आलस्यम् अ-विपाकश् च सर्वैः स्यात् सर्व-लक्षणा ।
आमोद्भवा च भक्तस्य संरोधाद् वात-पित्त-जा ॥५४॥

उष्ण-क्लान्तस्य सहसा शीताम्भो भजतस् तृषम् ।
ऊष्मा रुद्धो गतः कोष्ठं यां कुर्यात् पित्त-जैव सा ॥५५॥

या च पानाति-पानोत्था तीक्ष्णाग्नेः स्नेह-जा च या ।
स्निग्ध-गुर्व्-अम्ल-लवण-भोजनेन कफोद्भवा ॥५६॥

तीक्ष्णाग्नि-स्नेह-जा च या तृष्णा रस-क्षयोक्तेन लक्षणेन क्षयात्मिका ।
शोष-मेह-ज्वराद्य्-अन्य-दीर्घ-रोगोपसर्गतः ॥५७॥

शोष-मोह-ज्वराद्य्-अन्य- या तृष्णा जायते तीव्रा सोपसर्गात्मिका स्मृता ॥५७॥

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP