TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

निदानस्थान - अध्याय ९

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अध्याय ९
वस्ति-वस्ति-शिरो-मेढ्र-कटी-वृषण-पायवः ।
एक-संबन्धनाः प्रोक्ता गुदास्थि-विवराश्रयाः ॥१॥

अधो-मुखो ऽपि वस्तिर् हि मूत्र-वाहि-सिरा-मुखैः ।
पार्श्वेभ्यः पूर्यते सूक्ष्मैः स्यन्दमानैर् अन्-आरतम् ॥२॥

यैस् तैर् एव प्रविश्यैनं दोषाः कुर्वन्ति विंशतिम् ।
मूत्राघातान् प्रमेहांश् च कृच्छ्रान् मर्म-समाश्रयान् ॥३॥

वस्ति-वङ्क्षण-मेढ्रार्ति-युक्तो ऽल्पाल्पं मुहुर् मुहुः ।
मूत्रयेद् वात-जे कृच्छ्रे पैत्ते पीतं स-दाह-रुक् ॥४॥

रक्तं वा कफ-जे वस्ति-मेढ्र-गौरव-शोफ-वान् ।
स-पिच्छं स-विबन्धं च सर्वैः सर्वात्मकं मलैः ॥५॥

यदा वायुर् मुखं वस्तेर् आवृत्य परिशोषयेत् ।
मूत्रं स-पित्तं स-कफं स-शुक्रं वा तदा क्रमात् ॥६॥

संजायते ऽश्मरी घोरा पित्ताद् गोर् इव रोचना ।
श्लेष्माश्रया च सर्वा स्याद् अथास्याः पूर्व-लक्षणम् ॥७॥

वस्त्य्-आध्मानं तद्-आसन्न-देशेषु परितो ऽति-रुक् ।
मूत्रे च बस्त-गन्ध-त्वं मूत्र-कृच्छ्रं ज्वरो ऽ-रुचिः ॥८॥

मूत्रे बस्त-स-गन्ध-त्वं सामान्य-लिङ्गं रुङ् नाभि-सेवनी-वस्ति-मूर्धसु ।
विशीर्ण-धारं मूत्रं स्यात् तया मार्ग-निरोधने ॥९॥

तथा मार्ग-निरोधने तद्-व्यपायात् सुखं मेहेद् अच्छं गोमेदकोपमम् ।
तत्-संक्षोभात् क्षते सास्रम् आयासाच् चाति-रुग् भवेत् ॥१०॥

तत्र वाताद् भृशार्त्य्-आर्तो दन्तान् खादति वेपते ।
मृद्नाति मेहनं नाभिं पीडयत्य् अ-निशं क्वणन् ॥११॥

सानिलं मुञ्चति शकृन् मुहुर् मेहति बिन्दु-शः ।
श्यावा रूक्षाश्मरी चास्य स्याच् चिता कण्टकैर् इव ॥१२॥

पित्तेन दह्यते वस्तिः पच्यमान इवोष्म-वान् ।
भल्लातकास्थि-संस्थाना रक्ता पीतासिताश्मरी ॥१३॥

रक्त-पीतासिताश्मरी वस्तिर् निस्तुद्यत इव श्लेष्मणा शीतलो गुरुः ।
अश्मरी महती श्लक्ष्णा मधु-वर्णाथ-वा सिता ॥१४॥

एता भवन्ति बालानां तेषाम् एव च भूयसा ।
आश्रयोपचयाल्प-त्वाद् ग्रहणाहरणे सुखाः ॥१५॥

शुक्राश्मरी तु महतां जायते शुक्र-धारणात् ।
स्थानाच् च्युतम् अ-मुक्तं हि मुष्कयोर् अन्तरे ऽनिलः ॥१६॥

शोषयत्य् उपसंगृह्य शुक्रं तच् छुष्कम् अश्मरी ।
वस्ति-रुक्-कृच्छ्र-मूत्र-त्व-मुष्क-श्वयथु-कारिणी ॥१७॥

तस्याम् उत्पन्न-मात्रायां शुक्रम् एति विलीयते ।
पीडिते त्व् अवकाशे ऽस्मिन्न् अश्मर्य् एव च शर्करा ॥१८॥

अणु-शो वायुना भिन्ना सा त्व् अस्मिन्न् अनुलोम-गे ।
निरेति सह मूत्रेण प्रतिलोमे विबध्यते ॥१९॥

मूत्र-संधारिणः कुर्याद् रुद्ध्वा वस्तेर् मुखं मरुत् ।
मूत्र-सङ्गं रुजं कण्डूं कदा-चिच् च स्व-धामतः ॥२०॥

प्रच्याव्य वस्तिम् उद्वृत्तं गर्भाभं स्थूल-विप्लुतम् ।
करोति तत्र रुग्-दाह-स्पन्दनोद्वेष्टनानि च ॥२१॥

बिन्दु-शश् च प्रवर्तेत मूत्रं वस्तौ तु पीडिते ।
धारया द्वि-विधो ऽप्य् एष वात-वस्तिर् इति स्मृतः ॥२२॥

दुस्-तरो दुस्-तर-तरो द्वितीयः प्रबलानिलः ।
शकृन्-मार्गस्य वस्तेश् च वायुर् अन्तरम् आश्रितः ॥२३॥

अष्ठीलाभं घनं ग्रन्थिं करोत्य् अ-चलम् उन्नतम् ।
वाताष्ठीलेति साध्मान-विण्-मूत्रानिल-सङ्ग-कृत् ॥२४॥

वि-गुणः कुण्डली-भूतो वस्तौ तीव्र-व्यथो ऽनिलः ।
आविध्य मूत्रं भ्रमति स-स्तम्भोद्वेष्ट-गौरवः ॥२५॥

आविश्य मूत्रं भ्रमति मूत्रम् अल्पाल्पम् अथ-वा विमुञ्चति शकृत् सृजन् ।
वात-कुण्डलिकेत्य् एषा मूत्रं तु विधृतं चिरम् ॥२६॥

न निरेति विबद्धं वा मूत्रातीतं तद् अल्प-रुक् ।
विधारणात् प्रतिहतं वातोदावर्तितं यदा ॥२७॥

नाभेर् अधस्-ताद् उदरं मूत्रम् आपूरयेत् तदा ।
कुर्यात् तीव्र-रुग् आध्मानम् अ-पक्तिं मल-संग्रहम् ॥२८॥

तन् मूत्र-जठरं छिद्र-वैगुण्येनानिलेन वा ।
आक्षिप्तम् अल्पं मूत्रं तद् वस्तौ नाले ऽथ-वा मणौ ॥२९॥

आक्षिप्तम् अल्पं मूत्रस्य स्थित्वा स्रवेच् छनैः पश्चात् स-रुजं वाथ नी-रुजम् ।
मूत्रोत्सङ्गः स विच्छिन्न-तच्-छेष-गुरु-शेफसः ॥३०॥

स-रुजं वाथ-वा-रुजम् मूत्रोत्सङ्गः स विच्छिन्नस् मूत्रोत्सङ्गः स विच्छिन्नं तच्-छेष-गुरु-शेफसः अन्तर् वस्ति-मुखे वृत्तः स्थिरो ऽल्पः सहसा भवेत् ।
अश्मरी-तुल्य-रुग् ग्रन्थिर् मूत्र-ग्रन्थिः स उच्यते ॥३१॥

मूत्रितस्य स्त्रियं यातो वायुना शुक्रम् उद्धतम् ।
स्थानाच् च्युतं मूत्रयतः प्राक् पश्चाद् वा प्रवर्तते ॥३२॥

भस्मोदक-प्रतीकाशं मूत्र-शुक्रं तद् उच्यते ।
रूक्ष-दुर्-बलयोर् वाताद् उदावर्तं शकृद् यदा ॥३३॥

उदावृत्तं शकृद् यदा मूत्र-स्रोतो ऽनुपर्येति संसृष्टं शकृता तदा ।
मूत्रं विट्-तुल्य-गन्धं स्याद् विड्-विघातं तम् आदिशेत् ॥३४॥

पित्तं व्यायाम-तीक्ष्णोष्ण-भोजनाध्वातपादिभिः ।
प्रवृद्धं वायुना क्षिप्तं वस्त्य्-उपस्थार्ति-दाह-वत् ॥३५॥

मूत्रं प्रवर्तयेत् पीतं स-रक्तं रक्तम् एव वा ।
उष्णं पुनः पुनः कृच्छ्राद् उष्ण-वातं वदन्ति तम् ॥३६॥

रूक्षस्य क्लान्त-देहस्य वस्ति-स्थौ पित्त-मारुतौ ।
मूत्र-क्षयं स-रुग्-दाहं जनयेतां तद्-आह्वयम् ॥३७॥

पित्तं कफो द्वाव् अपि वा संहन्येते ऽनिलेन चेत् ।
कृच्छ्रान् मूत्रं तदा पीतं रक्तं श्वेतं घनं सृजेत् ॥३८॥

स-दाहं रोचना-शङ्ख-चूर्ण-वर्णं भवेच् च तत् ।
शुष्कं समस्त-वर्णं वा मूत्र-सादं वदन्ति तम् ॥३९॥

इति विस्तरतः प्रोक्ता रोगा मूत्रा-प्रवृत्ति-जाः ।
निदान-लक्षणैर् ऊर्ध्वं वक्ष्यन्ते ऽति-प्रवृत्ति-जाः ॥४०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:49:07.5070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

overseas

  • समुद्रपार 
  • समुद्रपार 
  • adj. & adv. 
  • समुद्रपार 
RANDOM WORD

Did you know?

पापा पासून मुक्त होण्यासाठी काय उपाय करावेत?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site