TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

निदानस्थान - अध्याय ८

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अध्याय ८
दोषैर् व्यस्तैः समस्तैश् च भयाच् छोकाच् च षड्-विधः ।
अतीसारः स सु-तरां जायते ऽत्य्-अम्बु-पानतः ॥१॥

कृश-शुष्कामिषा-सात्म्य-तिल-पिष्ट-विरूढकैः ।
मद्य-रूक्षाति-मात्रान्नैर् अर्शोभिः स्नेह-विभ्रमात् ॥२॥

कृमिभ्यो वेग-रोधाच् च तद्-विधैः कुपितो ऽनिलः ।
विस्रंसयत्य् अधो ऽब्-धातुं हत्वा तेनैव चानलम् ॥३॥

व्यापद्यानु-शकृत् कोष्ठं पुरीषं द्रव-तां नयन् ।
प्रकल्पते ऽतिसाराय लक्षणं तस्य भाविनः ॥४॥

तोदो हृद्-गुद-कोष्ठेषु गात्र-सादो मल-ग्रहः ।
आध्मानम् अ-विपाकश् च तत्र वातेन विड्-जलम् ॥५॥

अल्पाल्पं शब्द-शूलाढ्यं विबद्धम् उपवेश्यते ।
रूक्षं स-फेनम् अच्छं च ग्रथितं वा मुहुर् मुहुः ॥६॥

तथा दग्ध-गुडाभासं स-पिच्छा-परिकर्तिकम् ।
शुष्कास्यो भ्रष्ट-पायुश् च हृष्ट-रोमा विनिष्टनन् ॥७॥

 हृष्ट-रोमा विनष्ट-वाक् पित्तेन पीतम् असितं हारिद्रं शाद्वल-प्रभम् ।
स-रक्तम् अति-दुर्-गन्धं -तृण्-मूर्छा-स्वेद-दाह-वान् ॥८॥

तृण्-मूर्छा-स्वेद-दाह-वत् स-शूलं पायु-संताप-पाक-वाञ् छ्लेष्मणा घनम् ।
पिच्छिलं तन्तु-मच् छ्वेतं स्निग्धम् आमं कफान्वितम् ॥९॥

पाक-वच् छ्लेष्मणा घनम् अभीक्ष्णम् गुरु दुर्-गन्धं विबद्धम् अनुबद्ध-रुक् ।
निद्रालुर् अलसो ऽन्न-द्विड् अल्पाल्पं स-प्रवाहिकम् ॥१०॥

स-रोम-हर्षं सोत्क्लेशो गुरु-वस्ति-गुदोदरः ।
कृते ऽप्य् अ-कृत-संज्ञश् च सर्वात्मा सर्व-लक्षणः ॥११॥

गुरु-वस्तिर् गुरूदरः भयेन क्षोभिते चित्ते स-पित्तो द्रावयेच् छकृत् ।
वायुस् ततो ऽतिसार्येत क्षिप्रम् उष्णं द्रवं प्लवम् ॥१२॥

वात-पित्त-समं लिङ्गैर् आहुस् तद्-वच् च शोकतः ।
अतीसारः समासेन द्वि-धा सामो निर्-आमकः ॥१३॥

द्वे-धा सामो निर्-आमकः सासृङ् निर्-अस्रस् तत्राद्ये गौरवाद् अप्सु मज्जति ।
शकृद् दुर्-गन्धम् आटोप-विष्टम्भार्ति-प्रसेकिनः ॥१४॥

विपरीतो निर्-आमस् तु कफात् पक्वो ऽपि मज्जति ।
अतीसारेषु यो नाति-यत्न-वान् ग्रहणी-गदः ॥१५॥

तस्य स्याद् अग्नि-विध्वंस-करैर् अन्यस्य सेवितैः ।
सामं शकृन् निर्-आमं वा जीर्णे येनातिसार्यते ॥१६॥

सो ऽतीसारो ऽति-सरणाद् आशु-कारी स्व-भावतः ।
सामं सान्नम् अ-जीर्णे ऽन्ने जीर्णे पक्वं तु नैव वा ॥१७॥

अ-कस्माद् वा मुहुर् बद्धम् अ-कस्माच् छिथिलं मुहुः ।
चिर-कृद् ग्रहणी-दोषः संचयाच् चोपवेशयेत् ॥१८॥

स चतुर्-धा पृथग् दोषैः संनिपाताच् च जायते ।
प्राग्-रूपं तस्य सदनं चिरात् पचनम् अम्लकः ॥१९॥

प्रसेको वक्त्र-वैरस्यम् अ-रुचिस् तृट् क्लमो भ्रमः ।
आनद्धोदर-ता छर्दिः कर्ण-क्ष्वेडो ऽन्त्र-कूजनम् ॥२०॥

सामान्यं लक्षणं कार्श्यं धूमकस् तमको ज्वरः ।
मूर्छा शिरो-रुग् विष्टम्भः श्वयथुः कर-पादयोः ॥२१॥

तत्रानिलात् तालु-शोषस् तिमिरं कर्णयोः स्वनः ।
पार्श्वोरु-वङ्क्षण-ग्रीवा-रुजाभीक्ष्णं विषूचिका ॥२२॥

रसेषु गृद्धिः सर्वेषु क्षुत् तृष्णा परिकर्तिका ।
जीर्णे जीर्यति चाध्मानं भुक्ते स्वास्थ्यं समश्नुते ॥२३॥

वात-हृद्-रोग-गुल्मार्शः-प्लीह-पाण्डु-त्व-शङ्कितः ।
चिराद् दुःखं द्रवं शुष्कं तन्व् आमं शब्द-फेन-वत् ॥२४॥

पुनः पुनः सृजेद् वर्चः पायु-रुक्-श्वास-कास-वान् ।
पित्तेन नील-पीताभं पीताभः सृजति द्रवम् ॥२५॥

पित्तेन नीलं पीताभं पित्तेन पीत-नीलाभं पूत्य्-अम्लोद्गार-हृत्-कण्ठ-दाहा-रुचि-तृड्-अर्दितः ।
श्लेष्मणा पच्यते दुःखम् अन्नं छर्दिर् अ-रोचकः ॥२६॥

आस्योपदेह-निष्ठीव-कास-हृल्-लास-पीनसाः ।
हृदयं मन्यते स्त्यानम् उदरं स्तिमितं गुरु ॥२७॥

आस्योपदेह-माधुर्य- कास-ष्ठीवन-पीनसाः उद्गारो दुष्ट-मधुरः सदनं स्त्रीष्व् अ-हर्षणम् ।
भिन्नाम-श्लेष्म-संसृष्ट-गुरु-वर्चः-प्रवर्तनम् ॥२८॥

अ-कृशस्यापि दौर्बल्यं सर्व-जे सर्व-संकरः ।
विभागे ऽङ्गस्य ये चोक्ता विषमाद्यास् त्रयो ऽग्नयः ॥२९॥

ते ऽपि स्युर् ग्रहणी-दोषाः समस् तु स्वास्थ्य-कारणम् ॥३०॥
वात-व्याध्य्-अश्मरी-कुष्ठ-मेहोदर-भगन्दराः ॥३०॥
अर्शांसि ग्रहणीत्य् अष्टौ महा-रोगाः सु-दुस्-तराः ॥३०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:49:07.2570000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

रात्र

  • ना. निशा , यामिनी , रजनी , रात , विभावरी . 
RANDOM WORD

Did you know?

घराच्या दाराबाहेर शुभ-लाभ कां लिहीतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site