TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

निदानस्थान - अध्याय १०

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अध्याय १०
प्रमेहा विंशतिस् तत्र श्लेष्मतो दश पित्ततः ।
षट् चत्वारो ऽनिलात् तेषां मेदो-मूत्र-कफावहम् ॥१॥

अन्न-पान-क्रिया-जातं यत् प्रायस् तत् प्रवर्तकम् ।
स्वाद्व्-अम्ल-लवण-स्निग्ध-गुरु-पिच्छिल-शीतलम् ॥२॥

नव-धान्य-सुरानूप-मांसेक्षु-गुड-गो-रसम् ।
एक-स्थानासन-रतिः शयनं विधि-वर्जितम् ॥३॥

वस्तिम् आश्रित्य कुरुते प्रमेहान् दूषितः कफः ।
दूषयित्वा वपुः-क्लेद-स्वेद-मेदो-रसामिषम् ॥४॥

स्वेद-मेदो-वसामिषम् पित्तं रक्तम् अपि क्षीणे कफादौ मूत्र-संश्रयम् ।
धातून् वस्तिम् उपानीय तत्-क्षये ऽपि च मारुतः ॥५॥

साध्य-याप्य-परित्याज्या मेहास् तेनैव तद्-भवाः ।
समासम् अ-क्रिय-तया महात्यय-तयापि च ॥६॥

सामान्यं लक्षणं तेषां प्रभूताविल-मूत्र-ता ।
दोष-दूष्या-विशेषे ऽपि तत्-संयोग-विशेषतः ॥७॥

प्रभूताकुल-मूत्र-ता मूत्र-वर्णादि-भेदेन भेदो मेहेषु कल्प्यते ।
अच्छं बहु सितं शीतं निर्-गन्धम् उदकोपमम् ॥८॥

मेहत्य् उदक-मेहेन किञ्-चिच् चाविल-पिच्छिलम् ।
इक्षो रसम् इवात्य्-अर्थं मधुरं चेक्षु-मेहतः ॥९॥

सान्द्री-भवेत् पर्युषितं सान्द्र-मेहेन मेहति ।
सुरा-मेही सुरा-तुल्यम् उपर्य् अच्छम् अधो घनम् ॥१०॥

संहृष्ट-रोमा पिष्टेन पिष्ट-वद् बहलं सितम् ।
शुक्राभं शुक्र-मिश्रं वा शुक्र-मेही प्रमेहति ॥११॥

पिष्ट-वद् बहुलं सितम् मूर्ताणून् सिकता-मेही सिकता-रूपिणो मलान् ।
शीत-मेही सु-बहु-शो मधुरं भृश-शीतलम् ॥१२॥

मूत्राणून् सिकता-मेही मूत्रे ऽणून् सिकता-मेही शनैः शनैः शनैर्-मेही मन्दं मन्दं प्रमेहति ।
लाला-तन्तु-युतं मूत्रं लाला-मेहेन पिच्छिलम् ॥१३॥

गन्ध-वर्ण-रस-स्पर्शैः क्षारेण क्षार-तोय-वत् ।
नील-मेहेन नीलाभं काल-मेही मषी-निभम् ॥१४॥

हारिद्र-मेही कटुकं हरिद्रा-संनिभं दहत् ।
विस्रं माञ्जिष्ठ-मेहेन मञ्जिष्ठा-सलिलोपमम् ॥१५॥

विस्रम् उष्णं स-लवणं रक्ताभं रक्त-मेहतः ।
वसा-मेही वसा-मिश्रं वसां वा मूत्रयेन् मुहुः ॥१६॥

मज्जानं मज्ज-मिश्रं वा मज्ज-मेही मुहुर् मुहुः ।
हस्ती मत्त इवाजस्रं मूत्रं वेग-विवर्जितम् ॥१७॥

मज्जाभं मज्ज-मिश्रं वा स-लसीकं विबद्धं च हस्ति-मेही प्रमेहति ।
मधु-मेही मधु-समं जायते स किल द्वि-धा ॥१८॥

मधु-मेहे मधु-समं क्रुद्धे धातु-क्षयाद् वायौ दोषावृत-पथे ऽथ-वा ।
आवृतो दोष-लिङ्गानि सो ऽ-निमित्तं प्रदर्शयेत् ॥१९॥

दोषावृत-पथे ऽपि वा क्षीणः क्षणात् क्षणात् पूर्णो भजते कृच्छ्र-साध्य-ताम् ।
कालेनोपेक्षिताः सर्वे यद् यान्ति मधु-मेह-ताम् ॥२०॥

मधुरं यच् च सर्वेषु प्रायो मध्व् इव मेहति ।
सर्वे ऽपि मधु-मेहाख्या माधुर्याच् च तनोर् अतः ॥२१॥

अ-विपाको ऽ-रुचिश् छर्दिर् निद्रा कासः स-पीनसः ।
उपद्रवाः प्रजायन्ते मेहानां कफ-जन्मनाम् ॥२२॥

वस्ति-मेहनयोस् तोदो मुष्कावदरणं ज्वरः ।
दाहस् तृष्णाम्लको मूर्छा विड्-भेदः पित्त-जन्मनाम् ॥२३॥

वातिकानाम् उदावर्त-कम्प-हृद्-ग्रह-लोल-ताः ।
शूलम् उन्निद्र-ता शोषः कासः श्वासश् च जायते ॥२४॥

कण्ठ-हृद्-ग्रह-लोल-ताः शराविका कच्छपिका जालिनी विनतालजी ।
मसूरिका सर्षपिका पुत्रिणी स-विदारिका ॥२५॥

पुत्रिणी च विदारिका विद्रधिश् चेति पिटिकाः प्रमेहोपेक्षया दश ।
संधि-मर्मसु जायन्ते मांसलेषु च धामसु ॥२६॥

अन्तोन्नता मध्य-निम्ना श्यावा क्लेद-रुजान्विता ।
शराव-मान-संस्थाना पिटिका स्याच् छराविका ॥२७॥

अवगाढार्ति-निस्तोदा महा-वस्तु-परिग्रहा ।
श्लक्ष्णा कच्छप-पृष्ठाभा पिटिका कच्छपी मता ॥२८॥

स्तब्धा सिरा-जाल-वती स्निग्ध-स्रावा महाशया ।
रुजा-निस्तोद-बहुला सूक्ष्म-च्छिद्रा च जालिनी ॥२९॥

स्निग्ध-स्रावा महाश्रया अवगाढ-रुजा-क्लेदा पृष्ठे वा जठरे ऽपि वा ।
महती पिटिका नीला विनता विनता स्मृता ॥३०॥

दहति त्वचम् उत्थाने भृशं कष्टा विसर्पिणी ।
रक्त-कृष्णाति-तृट्-स्फोट-दाह-मोह-ज्वरालजी ॥३१॥

मान-संस्थानयोस् तुल्या मसूरेण मसूरिका ।
सर्षपा-मान-संस्थाना क्षिप्र-पाका महा-रुजा ॥३२॥

सर्षपी सर्षपा-तुल्य-पिटिका-परिवारिता ।
पुत्रिणी महती भूरि-सु-सूक्ष्म-पिटिकाचिता ॥३३॥

सर्षपा सर्षपा-तुल्य- सु-सूक्ष्म-पिटिकावृता सु-सूक्ष्म-पिटिकान्विता विदारी-कन्द-वद् वृत्ता कठिना च विदारिका ।
विद्रधिर् वक्ष्यते ऽन्य-त्र तत्राद्यं पिटिका-त्रयम् ॥३४॥

पुत्रिणी च विदारी च दुः-सहा बहु-मेदसः ।
सह्याः पित्तोल्बणास् त्व् अन्याः संभवन्त्य् अल्प-मेदसः ॥३५॥

तासु मेह-वशाच् च स्याद् दोषोद्रेको यथा-यथम् ॥३६॥
प्रमेहेण विनाप्य् एता जायन्ते दुष्ट-मेदसः ॥३६॥
तावच् च नोपलक्ष्यन्ते यावद् वस्तु-परिग्रहः ॥३६॥
हारिद्र-वर्णं रक्तं वा मेह-प्राग्-रूप-वर्जितम् ।
यो मूत्रयेन् न तं मेहं रक्त-पित्तं तु तद् विदुः ॥३७॥

रक्त-पित्तं तु तं विदुः रक्त-पित्तं च तद् विदुः स्वेदो ऽङ्ग-गन्धः शिथिल-त्वम् अङ्गे शय्यासन-स्वप्न-सुखाभिषङ्गः ।
हृन्-नेत्र-जिह्वा-श्रवणोपदेहो घनाङ्ग-ता केश-नखाति-वृद्धिः ॥३८॥

शय्यासन-स्थान-सुखाभिलाषः शीत-प्रिय-त्वं गल-तालु-शोषो माधुर्यम् आस्ये कर-पाद-दाहः ।
भविष्यतो मेह-गणस्य रूपं मूत्रे ऽभिधावन्ति पिपीलिकाश् च ॥३९॥

दृष्ट्वा प्रमेहं मधुरं स-पिच्छं मधूपमं स्याद् विविधो विचारः ।
संपूरणाद् वा कफ-संभवः स्यात् क्षीणेषु दोषेष्व् अनिलात्मको वा ॥४०॥

संतर्पणाद् वा कफ-संभवः स्यात् स-पूर्व-रूपाः कफ-पित्त-मेहाः क्रमेण ये वात-कृताश् च मेहाः ।
साध्या न ते पित्त-कृतास् तु याप्याः साध्यास् तु मेदो यदि नाति-दुष्टम् ॥४१॥

साध्याश् च मेदो यदि नाति-दुष्टम्

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:49:07.8200000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

आदापावती

  • स्त्री. ( सावकारास ) कांहीं रोख व कांहीं हवाल्यानें दिलेल्या रकमेची पावती . भरणा केलेली पावती . [ आदा + पावती ] 
RANDOM WORD

Did you know?

why treeepad veedhee ? narrate
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site