अर्थशास्त्रम् अध्याय ०२ - भाग १०

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.

१०.०१
शासने शासनम् इत्य् आचक्षते ॥

१०.०२
शासन.प्रधाना हि राजानः, तन्.मूलत्वात् संधि.विग्रहयोः ॥

१०.०३
तस्माद् अमात्य.सम्पदा_उपेतः सर्व.समयविद् आशु.ग्रन्थश् चारु.अक्षरो लेखन.वाचन.समर्थो लेखकः स्यात् ॥

१०.०४
सो_अव्यग्र.मना राज्ञः संदेशं श्रुत्वा निश्चित.अर्थं लेखं विदध्यात् देश.ऐश्वर्य.वंश.नामधेय.उपचारम् ईश्वरस्य, देश.नामधेय.उपचारम् अनीश्वरस्य ॥

१०.०५
जातिं कुलं स्थान.वयः.श्रुतानि कर्म.ऋद्धि.शीलान्य् अथ देश.कालौ ।

१०.०५
यौन.अनुबन्धं च समीक्ष्य कार्ये लेखं विदध्यात् पुरुष.अनुरूपम् ॥

१०.०६
अर्थ.क्रमः सम्बन्धः परिपूर्णता माधुर्यम् औदार्यं स्पष्टत्वम् इति लेख.सम्पत् ॥

१०.०७
तत्र यथावद् अनुपूर्व.क्रिया प्रधानस्य_अर्थस्य पूर्वम् अभिनिवेश इत्य् अर्थ.क्रमः ॥

१०.०८
प्रस्तुतस्य_अर्थस्य_अनुपरोधाद् उत्तरस्य विधानम् आ.समाप्तेर् इति सम्बन्धः ॥

१०.०९
अर्थ.पद.अक्षराणाम् अन्यून.अतिरिक्तता हेतु.उदाहरण.दृष्टान्तैर् अर्थ.उपवर्णना_अश्रान्त.पदता_इति परिपूर्णता ॥

१०.१०
सुख.उपनीत.चारु.अर्थ.शब्द.अभिधानं माधुर्यम् ॥

१०.११
अग्राम्य.शब्द.अभिधानम् औदार्यम् ॥

१०.१२
प्रतीत.शब्द.प्रयोगः स्पष्टत्वम् इति ॥

१०.१३
अ.कार.आदयो वर्णास् त्रिषष्टिः ॥

१०.१४
वर्ण.संघातः पदम् ॥

१०.१५
तच् चतुर्विधं नाम.आख्यात.उपसर्ग.निपाताश् च_इति ॥

१०.१६
तत्र नाम सत्त्व.अभिधायि ॥

१०.१७
अविशिष्ट.लिङ्गम् आख्यातं क्रिया.वाचि ॥

१०.१८
क्रिया.विशेषकाः प्र.आदय उपसर्गाः ॥

१०.१९
अव्ययाश् च.आदयो निपाताः ॥

१०.२०
पद.समूहो वाक्यम् अर्थ.परिसमाप्तौ ॥

१०.२१
एक.पद.अवरस् त्रि.पद.परः पर.पद.अर्थ.अनुपरोधेन वर्गः कार्यः ॥

१०.२२
लेख.परिसंहरण.अर्थ इति.शब्दो वाचिकम् अस्य_इति च ॥

१०.२३
निन्दा प्रशंसा पृच्छा च तथा_आख्यानम् अथ_अर्थना ।

१०.२३
प्रत्याख्यानम् उपालम्भः प्रतिषेधो_अथ चोदना ॥

१०.२४
सान्त्वम् अभ्युपपत्तिश् च भर्त्सन.अनुनयौ तथा ।

१०.२४
एतेष्व् अर्थाः प्रवर्तन्ते त्रयोदशसु लेखजाः ॥

१०.२५
तत्र_अभिजन.शरीर.कर्मणां दोष.वचनं निन्दा ॥

१०.२६
गुण.वचनम् एतेषाम् एव प्रशंसा ॥

१०.२७
"कथम् एतद्" इति पृच्छा ॥

१०.२८
"एवम्" इत्य् आख्यानम् ॥

१०.२९
"देहि" इत्य् अर्थना ॥

१०.३०
"न प्रयच्छामि" इति प्रत्याख्यानम् ॥

१०.३१
"अननुरूपं भवतः" इत्य् उपालम्भः ॥

१०.३२
"मा कार्षीः" इति प्रतिषेधः ॥

१०.३३
"इदं क्रियताम्" इति चोदना ॥

१०.३४
"यो_अहं स भवान्, यन् मम द्रव्यं तद् भवतः" इत्य् उपग्रहः सान्त्वम् ॥

१०.३५
व्यसन.साहाय्यम् अभ्युपपत्तिः ॥

१०.३६
सदोषम् आयति.प्रदर्शनम् अभिभर्त्सनम् ॥

१०.३७
अनुनयस् त्रिविधो_अर्थ.कृताव् अतिक्रमे पुरुष.आदि.व्यसने च_इति ॥

१०.३८
प्रज्ञापन.आज्ञा.परिदान.लेखास् तथा परीहार.निसृष्टि.लेखौ ।

१०.३८
प्रावृत्तिकश् च प्रतिलेख एव सर्वत्रगश् च_इति हि शासनानि ॥

१०.३९
अनेन विज्ञापितम् एवम् आह तद् दीयतां चेद् यदि तत्त्वम् अस्ति ।

१०.३९
राज्ञः समीपे वर.कारम् आह प्रज्ञापना_एषा विविधा_उपदिष्टा ॥

१०.४०
भर्तुर् आज्ञा भवेद् यत्र निग्रह.अनुग्रहौ प्रति ।

१०.४०
विशेषेण तु भृत्येषु तद्.आज्ञा.लेख.लक्षणम् ॥

१०.४१
यथा.अर्ह.गुण.सम्युक्ता पूजा यत्र_उपलक्ष्यते ।

१०.४१
अप्य् आधौ परिदाने वा भवतस् ताव् उपग्रहौ ॥

१०.४२
जातेर् विशेषेषु परेषु चैव ग्रामेषु देशेषु च तेषु तेषु ।

१०.४२
अनुग्रहो यो नृप्तेर् निदेशात् तज्.ज्ञः परीहार इति व्यवस्येत् ॥

१०.४३
निसृष्टिस्था_आपना कार्य.करणे वचने तथा ।

१०.४३
एष वाचिक.लेखः स्याद् भवेन् नैसृष्टिको_अपि वा ॥

१०.४४
विविधां दैव.सम्युक्तां तत्त्वजां चैव मानुषीम् ।  

१०.४४
द्वि.विधां तां व्यवस्यन्ति प्रवृत्तिं शासनं प्रति ॥

१०.४५
दृष्ट्वा लेखं यथा.तत्त्वं ततः प्रत्यनुभाष्य च ।

१०.४५
प्रतिलेखो भवेत् कार्यो यथा राज.वचस् तथा ॥

१०.४६
यत्र_ईश्वरांश् च_अधिकृतांश् च राजा रक्षा.उपकारौ पथिक.अर्थम् आह ।

१०.४६
सर्वत्रगो नाम भवेत् स मार्गे देशे च सर्वत्र च वेदितव्यः ॥

१०.४७
उपायाः साम.उपप्रदान.भेद.दण्डाः ॥

१०.४८
तत्र साम पञ्चविधं - गुण.संकीर्तनम्, सम्बन्ध.उपाख्यानम्, परस्पर.उपकार.संदर्शनम्, आयति.प्रदर्शनम्, आत्म.उपनिधानम् इति ॥

१०.४९
तत्र_अभिजन.शरीर.कर्म.प्रकृति.श्रुत.द्रव्य.आदीनां गुण.ग्रहणं प्रशंसा स्तुतिर् गुण.संकीर्तनम् ॥

१०.५०
ज्ञाति.यौन.मौख.स्रौव.कुल.हृदय.मित्र.संकीर्तनं सम्बन्ध.उपाख्यानम् ॥

१०.५१
स्व.पक्ष.पर.पक्षयोर् अन्योन्य.उपकार.संकीर्तनं परस्पर.उपकार.संदर्शनम् ॥

१०.५२
"अस्मिन्न् एवं कृत इदम् आवयोर् भवति" इत्य् आशा.जननम् आयति.प्रदर्शनम् ॥

१०.५३
"यो_अहं स भवान्, यन् मम द्रव्यं तद् भवता स्व.कृत्येषु प्रयोज्यताम्" इत्य् आत्म.उपनिधानम् ।
इति ॥

१०.५४
उपप्रदानम् अर्थ.उपकारः ॥

१०.५५
शङ्का.जननं निर्भर्त्सनं च भेदः ॥

१०.५६
वधः परिक्लेशो_अर्थ.हरणं दण्डः ।
इति ॥

१०.५७
अकान्तिर् व्याघातः पुनर्.उक्तम् अपशब्दः सम्प्लव इति लेख.दोषः ॥

१०.५८
तत्र काल.पत्त्रकम् अचारु.विषम् अविराग.अक्षरत्वम् अकान्तिः ॥

१०.५९
पूर्वेण पश्चिमस्य_अनुपपत्तिर् व्याघातः ॥

१०.६०
उक्तस्य_अविशेषेण द्वितीयम् उच्चारणं पुनर्.उक्तम् ॥

१०.६१
लिङ्ग.वचन.काल.कारकाणाम् अन्यथा.प्रयोगो_अपशब्दः ॥

१०.६२
अवर्गे वर्ग.करणं च_अवर्ग.क्रिया गुण.विपर्यासः सम्प्लवः । इति ॥

१०.६३
सर्व.शास्त्राण्य् अनुक्रम्य प्रयोगम् उपलभ्य च ।

१०.६३
कौटिल्येन नर.इन्द्र.अर्थे शासनस्य विधिः कृतः ॥ E

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP