अर्थशास्त्रम् अध्याय ०२ - भाग १३

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.

१३.०१
सुवर्ण.अध्यक्षः सुवर्ण.रजत.कर्म.अन्तानाम् असम्बन्ध.आवेशन.चतुः.शालाम् एक.द्वाराम् अक्ष.शालां कारयेत् ॥

१३.०२
विशिखा.मध्ये सौवर्णिकं शिल्पवन्तम् अभिजातं प्रात्ययिकं च स्थापयेत् ॥

१३.०३
जाम्बूनदं शातकुम्भं हाटकं वैणवं शृङ्ग.शुक्तिजं जात.रूपं रस.विद्धम् आकर.उद्गतं च सुवर्णम् ॥

१३.०४
किञ्जल्क.वर्णं मृदु स्निग्धम् अनादि भ्राजिष्णु च श्रेष्ठम्, रक्त.पीतकं मध्यमम्, रक्तम् अवरम् ॥

१३.०५
श्रेष्ठानां पाण्डु श्वेतं च_अप्राप्तकम् ॥

१३.०६
तद् येन_अप्राप्तकं तच् चतुर्.गुणेन सीसेन शोधयेत् ॥

१३.०७
सीस.अन्वयेन भिद्यमानं शुष्क.पटलैर् ध्मापयेत् ॥

१३.०८
रूक्षत्वाद् भिद्यमानं तैल.गोमये निषेचयेत् ॥

१३.०९
आकर.उद्गतं सीस.अन्वयेन भिद्यमानं पाक.पत्त्राणि कृत्वा गण्डिकासु कुट्टयेत्, कदली.वज्र.कन्द.कल्के वा निषेचयेत् ॥

१३.१०
तुत्थ.उद्गतं गौडिकं काम्बुकं चाक्रवालिकं च रूप्यम् ॥

१३.११
श्वेतं स्निग्धं मृदु च श्रेष्ठम् ॥

१३.१२
विपर्यये स्फोटनं च दुष्टम् ॥

१३.१३
तत्.सीस.चतुर्.भागेन शोधयेत् ॥

१३.१४
उद्गत.चूलिकम् अच्छं भ्राजिष्णु दधि.वर्णं च शुद्धम् ॥

१३.१५
शुद्धस्य_एको हारिद्रस्य सुवर्णो वर्णकः ॥

१३.१६
ततः शुल्ब.काकण्य्.उत्तर.अपसारिता आ.चतुः.सीम.अन्ताद् इति षोडश वर्णकाः ॥

१३.१७
सुवर्णं पूर्वं निकष्य पश्चाद् वर्णिकां निकषयेत् ॥

१३.१८
सम.राग.लेखम् अनिम्न.उन्नते देशे निकषितम्, परिमृदितं परिलीढं नख.अन्तराद् वा गैरिकेण.अवचूर्णितम् उपधिं विद्यात् ॥

१३.१९
जाति.हिङ्गुलुकेन पुष्पका.सीसेन वा गो.मूत्र.भावितेन दिग्धेन_अग्र.हस्तेन संस्पृष्टं सुवर्णं श्वेती.भवति ॥

१३.२०
स-केसरः स्निग्धो मृदुर् भाजिष्णुश् च निकष.रागः श्रेष्ठः ॥

१३.२१
कालिङ्गकस् तापी.पाषाणो वा मुद्ग.वर्णो निकषः श्रेष्ठः ॥

१३.२२
सम.रागी विक्रय.क्रय.हितः ॥

१३.२३
हस्तिच्.छविकः सहरितः प्रति.रागी विक्रय.हितः ॥

१३.२४
स्थिरः परुषो विषम.वर्णश् च_अप्रतिरागी क्रय.हितः ॥

१३.२५
छेदश् चिक्कणः सम.वर्णः श्लक्ष्णो मृदुर् भाजिष्णुश् च श्रेष्ठः ॥

१३.२६
तापो बहिर्.अन्तश् च समः किञ्जल्क.वर्णः कुरण्डक.पुष्प.वर्णो वा श्रेष्ठः ॥

१३.२७
श्यावो नीलश् च_अप्राप्तकः ॥

१३.२८
तुला.प्रतिमानं पौतव.अध्यक्षे वक्ष्यामः ॥

१३.२९
तेन_उपदेशेन रूप्य.सुवर्णं दद्याद् आददीत च ॥

१३.३०
अक्ष.शालाम् अनायुक्तो न_उपगच्छेत् ॥

१३.३१
अभिगच्छन्न् उच्छेद्यः ॥

१३.३२
आयुक्तो वा सरूप्य.सुवर्णस् तेन_एव जीयेत ॥

१३.३३
विचित.वस्त्र.हस्त.गुह्याः काञ्चन.पृषत.त्वष्टृ.तपनीय.कारवो ध्मायक.चरक.पांसु.धावकाः प्रविशेयुर् निष्कसेयुश् च ॥

१३.३४
सर्वं च_एषाम् उपकरणम् अनिष्ठिताश् च प्रयोगास् तत्र_एव_अवतिष्ठेरन् ॥

१३.३५
गृहीतं सुवर्णं धृतं च प्रयोगं करण.मध्ये दद्यात् ॥

१३.३६
सायं प्रातश् च लक्षितं कर्तृ.कारयितृ.मुद्राभ्यां निदध्यात् ॥

१३.३७
क्षेपणो गुणः क्षुद्रकम् इति कर्माणि ॥

१३.३८
क्षेपणः काच.अर्पण.आदीनि ॥

१३.३९
गुणः सूत्र.वान.आदीनि ॥

१३.४०
घनं सुषिरं पृषत.आदि.युक्तं क्षुद्रकम् इति ॥

१३.४१
अर्पयेत् काच.कर्मणः पञ्च.भागं काञ्चनं दश.भागं कटु.मानम् ॥

१३.४२
ताम्र.पाद.युक्तं रूप्यं रूप्य.पाद.युक्तं वा सुवर्णं संस्कृतकम्, तस्माद् रक्षेत् ॥

१३.४३
पृषत.काच.कर्मणः त्रयो हि भागाः परिभाण्डं द्वौ वास्तुकम्, चत्वारो वा वास्तुकं त्रयः परिभाण्डम् ॥

१३.४४
त्वष्टृ.कर्मणः शुल्ब.भाण्डं सम.सुवर्णेन सम्यूहयेत् ॥

१३.४५
रूप्य.भाण्डं घनं सुषिरं वा सुवर्ण.अर्धेन_अवलेपयेत् ॥

१३.४६
चतुर्.भाग.सुवर्णं वा वालुका.हिङ्गुलुकस्य रसेन चूर्णेन वा वासयेत् ।

१३.४७
तपनीयं ज्येष्ठं सुवर्णं सुरागं सम.सीस.अतिक्रान्तं पाक.पत्त्र.पक्वं सैन्धविकया_उज्ज्वालितं नील.पीत.श्वेत.हरित.शुक.पत्त्र.वर्णानां प्रकृतिर् भवति ॥

१३.४८
तीक्ष्णं च_अस्य मयूर.ग्रीव.आभं श्वेत.भङ्गं चिमिचिमायितं पीत.चूर्णितं काकणिकः सुवर्ण.रागः ॥

१३.४९
तारम् उपशुद्धं वा - अस्थि.तुत्थे चतुः सम.सीसे चतुः शुष्क.तुत्थे चतुः कपाले त्रिर् गोमये द्विर् एवं सप्त.दश.तुत्थ.अतिक्रान्तं सैन्धविकया_उज्ज्वालितम् ॥

१३.५०
एतस्मात् काकण्य्.उत्तरमाद् विमाषाद् इति सुवर्णे देयम्, पश्चाद् राग.योगः, श्वेत.तारं भवति ।

१३.५१
त्रयो_अंशास् तपनीयस्य द्वात्रिंशद्.भाग.श्वेत.तारम् ऊर्च्छिताः तत् श्वेत.लोहितकं भवति ॥

१३.५२
ताम्रं पीतकं करोति ॥

१३.५३
तपनीयम् उज्ज्वाल्य राग.त्रि.भागं दद्यात्, पीत.रागं भवति ॥

१३.५४
श्वेत.तार.भागौ द्वाव् एकस् तपनीयस्य मुद्ग.वर्णं करोति ॥

१३.५५
काल.अयसस्य_अर्ध.भाग.अभ्यक्तं कृष्णं भवति ॥

१३.५६
प्रतिलेपिना रसेन द्वि.गुण.अभ्यक्तं तपनीयं शुक.पत्त्र.वर्णं भवति ॥

१३.५७
तस्य.आरम्भे राग.विशेषेषु प्रतिवर्णिकां गृह्णीयात् ॥

१३.५८
तीक्ष्ण.ताम्र.संस्कारं च बुध्येत ॥

१३.५९
तस्माद् वज्र.मणि.मुक्ता.प्रवाल.रूपाणाम् अपनेयि.मानं च रूप्य.सुवर्ण.भाण्ड.बन्ध.प्रमाणानि च ॥

१३.६०
सम.रागं सम.द्वन्द्वम् असक्त.पृषतं स्थिरम् ।

१३.६०
सुप्रमृष्टम् असम्पीतं विभक्तं धारणे सुखम् ॥

१३.६१
अभिनीतं प्रभा.युक्तं संस्थानम् अधुरं समम् ।

१३.६१
मनो.नेत्र.अभिरामं च तपनीय.गुणाः स्मृताः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP