अर्थशास्त्रम् अध्याय ०२ - भाग ६

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.

६.०१
समाहर्ता दुर्गं राष्ट्रं खनिं सेतुं वनं व्रजं वणिक्.पथं च_अवेक्षेत ॥

६.०२
शुल्कं दण्डः पौतवं नागरिको लक्षण.अध्यक्षो मुद्रा.अध्यक्षः सुरा सूना सूत्रं तैलं घृतं क्षारः सौवर्णिकः पण्य.संस्था वेश्या द्यूतं वास्तुकं कारु.शिल्पि.गणो देवता.अध्यक्षो द्वार.बहिरिका.आदेयं च दुर्गम् ॥

६.०३
सीता भागो बलिः करो वणिक् नदी.पालस् तरो नावः पत्तनं विविचितं वर्तनी रज्जुश् चोर.रज्जुश् च राष्ट्रम् ॥

६.०४
सुवर्ण.रजत.वज्र.मणि.मुक्ता.प्रवाल.शङ्ख.लोह.लवण.भूमि.प्रस्तर.रस.धातवः खनिः ॥

६.०५
पुष्प.फल.वाट.षण्ड.केदार.मूल.वापाः सेतुः ॥

६.०६
पशु.मृग.द्रव्य.हस्ति.वन.परिग्रहो वनम् ॥

६.०७
गो.महिषम् अज.अविकं खर.उष्त्रम् अश्व.अश्वतरं च व्रजः ॥

६.०८
स्थल.पथो वारि.पथश् च वणिक्.पथः ॥

६.०९
इत्य् आय.शरीरम् ॥

६.१०
मूल्यं भागो व्याजी परिघः क्ल्प्तम्(क्लृप्तम्) रूपिकम् अत्ययश् च_आय.मुखम् ॥

६.११
देव.पितृ.पूजा.दान.अर्थम्, स्वस्ति.वाचनम्, अन्तःपुरम्, महानसम्, दूत.प्रावर्तिमम्, कोष्ठ.अगारम्, आयुध.अगारम्, पण्य.गृहम्, कुप्य.गृहम्, कर्म.अन्तो, विष्टिः, पत्ति.अश्व.रथ.द्विप.परिग्रहो, गो.मण्डलम्, पशु.मृग.पक्षि.व्याल.वाटाः, काष्ठ.तृण.वाटाश् च_इति व्यय.शरीरम् ॥

६.१२
राज.वर्षं मासः पक्षो दिवसश् च व्युष्टम्, वर्षा.हेमन्त.ग्रीष्माणां तृतीय.सप्तमा दिवस.ऊनाः पक्षाः शेषाः पूर्णाः, पृथग्.अधिमासकः, इति कालः ॥

६.१३
करणीयं सिद्धं शेषम् आय.व्ययौ नीवी च ॥

६.१४
संस्थानं प्रचारः शरीर.अवस्थापनम् आदानं सर्व.समुदय.पिण्डः संजातं - एतत् करणीयम् ॥

६.१५
कोश.अर्पितं राज.हारः पुर.व्ययश् च प्रविष्टं परम.संवत्सर.अनुवृत्तं शासन.मुक्तं मुख.आज्ञप्तं च_अपातनीयं - एतत् सिद्धम् ॥

६.१६
सिद्धि.कर्म.योगः दण्ड.शेषम् आहरणीयं बलात्.कृत.प्रतिष्टब्धम् अवमृष्टं च प्रशोध्यं - एतत्_शेषम्, असारम् अल्प.सारं च ॥

६.१७
वर्तमानः पर्युषितो_अन्य.जातश् च_आयः ॥

६.१८
दिवस.अनुवृत्तो वर्तमानः ॥

६.१९
परम.सांवत्सरिकः पर.प्रचार.संक्रान्तो वा पर्युषितः ॥

६.२०
नष्ट.प्रस्मृतम् आयुक्त.दण्डः पार्श्वं पारिहीणिकम् औपायनिकं डमर.गतक.स्वम् अपुत्रकं निधिश् च_अन्य.जातः ॥

६.२१
विक्षेप.व्याधित.अन्तर.आरम्भ.शेषं च व्यय.प्रत्यायः ॥

६.२२
विक्रिये पण्यानाम् अर्घ.वृद्धिर् उपजा, मान.उन्मान.विशेषो व्याजी, क्रय.संघर्षे वार्ध.वृद्धिः - इत्य् आयः ॥

६.२३
नित्यो नित्य.उत्पादिको लाभो लाभ.उत्पादिक इति व्ययः ॥

६.२४
दिवस.अनुवृत्तो नित्यः ॥

६.२५
पक्ष.मास.संवत्सर.लाभो लाभः ॥

६.२६
तयोर् उत्पन्नो नित्य.उत्पादिको लाभ.उत्पादिक इति व्ययः ॥

६.२७
संजाताद् आय.व्यय.विशुद्धा नीवी, प्राप्ता च_अनुवृत्ता च ॥

६.२८
एवं कुर्यात् समुदयं वृद्धिं च_आयस्य दर्शयेत् ।

६.२८
ह्रासं व्ययस्य च प्राज्ञः साधयेच् च विपर्ययम् ॥ E

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP