अर्थशास्त्रम् अध्याय ०२ - भाग २

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.

२.०१
अकृष्यायां भूमौ पशुभ्यो विवीतानि प्रयच्छेत् ॥

२.०२
प्रदिष्ट.अभय.स्थावर.जङ्गमानि च ब्रह्म.सोम.अरण्यानि तपस्विभ्यो गो.रुत.पराणि प्रयच्छेत् ॥

२.०३
तावन्.मात्रम् एक.द्वारं खात.गुप्तं स्वादु.फल.गुल्म.गुच्छम् अकण्टकि.द्रुमम् उत्तान.तोय.आशयं दान्त.मृग.चतुष्पदं भग्न.नख.दंष्ट्र.व्यालं मार्गयुक.हस्ति.हस्तिनीक.लभं मृग.वनं विहार.अर्थं राज्ञः कारयेत् ॥

२.०४
सर्व.अतिथि.मृगं प्रत्यन्ते च_अन्यन्.मृग.वनं भूमि.वशेन वा निवेशयेत् ॥

२.०५
कुप्य.प्रदिष्टानां च द्रव्याणाम् एक.एकशो वनानि निवेशयेत्, द्रव्य.वन.कर्म.अन्तान् अटवीश् च द्रव्य.वन.अपाश्रयाः ॥

२.०६
प्रत्यन्ते हस्ति.वनम् अटव्य्.आरक्षं निवेशयेत् ॥

२.०७
नाग.वन.अध्यक्षः पार्वतं न_आदेयं सार.सम.अनूपं च नाग.वनं विदित.पर्यन्त.प्रवेश.निष्कासं नाग.वन.पालैः पालयेत् ॥

२.०८
हस्ति.घातिनं हन्युः ॥

२.०९
दन्त.युगं स्वयं.मृतस्य_आहरतः सपाद.चतुष्पणो लाभः ॥

२.१०
नाग.वन.पाला हस्तिपक.पाद.पाशिक.सैमिक.वन.चरक.पारिकर्मिक.सखा हस्ति.मूत्र.पुरीषच्.छन्न.गन्धा भल्लातकी.शाखा.प्रच्छन्नाः पञ्चभिः सप्तभिर् वा हस्ति.बन्धकीभिः सह चरन्तः शय्या.स्थान.पद्या.लेण्ड.कूल.घात.उद्देशेन हस्ति.कुल.पर्यग्रं विद्युः ॥

२.११
यूथ.चरम् एक.चरं निर्यूथं यूथ.पतिं हस्तिनं व्यालं मत्तं पोतं बन्ध.मुक्तं च निबन्धेन विद्युः ॥

२.१२
अनीकस्थ.प्रमाणैः प्रशस्त.व्यञ्जन.आचारान् हस्तिनो गृह्णीयुः ॥

२.१३
हस्ति.प्रधानं विजयो राज्ञः ॥

२.१४
पर.अनीक.व्यूह.दुर्ग.स्कन्ध.आवार.प्रमर्दना ह्य् अतिप्रमाण.शरीराः प्राण.हर.कर्माणो हस्तिनः ॥

२.१५
कालिङ्ग.अङ्गरजाः श्रेष्ठाः प्राच्याश् चेदि.करूषजाः ।

२.१५
दाशार्णाश् च_अपर.अन्ताश् च द्विपानां मध्यमा मताः ॥

२.१६
सौराष्ट्रिकाः पाञ्चनदास् तेषां प्रत्यवराः स्मृताः ।

२.१६
सर्वेषां कर्मणा वीर्यं जवस् तेजश् च वर्धते ॥ E

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP